भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.41

12.41.1

ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि ।
श्राद्धानि कारयामास तेषां पृथगुदारधीः ॥

12.41.2

धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् । सर्वकामगुणोपेतमन्नं गाश्च धनानि च ।
रत्नानि च विचित्राणि महार्हाणि महायशाः ॥

12.41.3

युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः ।
धृष्टद्युम्नाभिमन्युभ्यां हेडिम्बस्य च रक्षसः ॥

12.41.4

विराटप्रभृतीनां च सुहृदामुपकारिणाम् ।
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ॥

12.41.5

ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् ।
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत् ॥

12.41.6

ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः ।
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम् ॥

12.41.7

सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः ।
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम् ॥

12.41.8

स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् ।
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ॥

12.41.9

धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा ।
सर्वांश्च कौरवान्मान्यान्भृत्यांश्च समपूजयत् ॥

12.41.10

याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः ॥
सर्वास्ताः कौरवो राजा सम्पूज्यापालायद्धृणी ॥

12.41.11

दीनान्धकृपणानां च गृहाच्छादनभोजनैः ।
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ॥

12.41.12

स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु ।
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc