भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.3

12.3.1

कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च ।
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा ॥

12.3.2

ततस्तस्मै महातेजा ब्रह्मास्त्रं सनिवर्तनम् ।
प्रोवाच सुमहाप्रज्ञः स तपस्वी तपस्विने ॥

12.3.3

विदितास्त्रस्ततः कर्णो रममाणोऽश्रमे भृगोः ।
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः ॥

12.3.4

ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् ।
कर्णेन सहितो धीमानुपवासेन कर्शितः ॥

12.3.5

सुष्वाप जामदग्न्यस्तु विस्रम्भोत्पन्नसौहृदः ।
तस्योत्सङ्गे समाधाय शिरः क्लान्तमना गुरुः ॥

12.3.6

अथ क्रिमिः श्लेष्ममयो मांसशोणितभोजनः ।
दारुणो दारुणाकारः कर्णस्याभ्याशमागतः ॥

12.3.7

स तस्योरुमथासाद्य बिभेद रुधिराशनः ।
न चैनमशकत्क्षेप्तुं वक्तुं वाऽपि गुरोर्भयात् ॥

12.3.8

स दश्यमानोऽपि तथा कृमिणा तेन भारत ।
गुरोः प्रबोधनाकाङ्क्षी तमुपैक्षत सूर्यजः ॥

12.3.9

कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् ।
अकम्पयन्नव्यथयन्धारयामास भार्गवम् ॥

12.3.10

यदा स रुधिरेणाङ्गे परिस्पृष्टोऽभवद्गुरुः ।
तदाऽबुध्यत तेजस्वी संरब्धश्चैनमब्रवीत् ॥

12.3.11

अहोऽस्म्यशुचितां प्राप्तः किमिदं च कृतं त्वया ।
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम ॥

12.3.12

तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् ।
ददर्श रामस्तं चापि कृमिं सूकरसंस्थितम् ॥

12.3.13

अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिः परिसंवृतम् ।
रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः ॥

12.3.14

स दृष्टमात्रो रामेण किमिः प्राणानवासृजत् ।
तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत् ॥

12.3.15

ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् ।
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः ॥

12.3.16

स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः ।
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम् ॥

12.3.17

मोक्षितो नरकादस्माद्भवता मुनिसत्तम । भद्रं च तेऽस्तु सिद्धिश्च प्रियं मे भवता कृतम्

12.3.18

तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् ।
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् ॥

12.3.19

सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः ।
पुरा देवयुगे तात भृगोस्तु सवया इव ॥

12.3.20

सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् ।
महर्षेरभिशापेन क्रिमिभूतोऽपतं भुवि ॥

12.3.21

अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः ।
मूत्र श्लेष्माशनः पाय निरयं प्रतिपत्स्यसे ॥

12.3.22

शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रवम् ।
भविता भार्गवाद्रामादिन्ति मामब्रवीद्भृगुः ॥

12.3.23

सोऽहमेनां गतिं प्राप्तो यथा नकुशलस्तथा ।
त्वया साधो समागम्य विमुक्तः पापयोनितः ॥

12.3.24

एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः ।
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् ॥

12.3.25

अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् ।
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम् ॥

12.3.26

तमुवाच ततः कर्णः शापाद्भीतः प्रसादयन् ।
ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव ॥

12.3.27

राधेयः कर्ण इति मां प्रवदन्ति जना भुवि ।
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव ॥

12.3.28

पिता गुरुर्न सन्देहो वेदविद्याप्रदः प्रभुः ।
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके ॥

12.3.29

तमुवाच भृगुश्रेष्ठः सरोपः प्रदहन्निव ।
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् ॥

12.3.30

यस्मान्मिथ्याविचीर्णोऽहमस्त्रलोभादिह त्वया ।
तस्मादेतन्न ते मूढ ब्रह्मास्त्रं प्रतिभास्यति ॥

12.3.31

अन्यत्र वधकालात्ते सदृशे न समीयुपः ।
अब्राह्मणे न हि ब्रह्म चिरं तिष्ठेत्कदाचन ॥

12.3.32

गच्छेदानीं न ते स्थानमनृतस्येह विद्यते ।
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि ॥

12.3.33

एवमुक्तः स रामेण न्यायेनोपजगामह ।
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc