भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.37

12.37.1

प्रवेशने तु पार्थानां जनानां पुरवासिनाम् ।
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः ॥

12.37.2

स राजमार्गः शुशुभे समलन्कृतचत्वरः ।
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः ॥

12.37.3

गृहाणि राजमार्गेषु रत्नवन्ति महान्ति च ।
प्राकम्पन्तीव भारेण स्त्रीणां पूर्णानि भारत ॥

12.37.4

ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् ।
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ ॥

12.37.5

धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् ।
उपतिष्ठसि कल्याणि महर्षिमिव गौतमी ॥

12.37.6

तव कर्माण्यमोघानि व्रतचर्या च भामिनि ।
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः ॥

12.37.7

प्रशंसावचनैस्तासां मिथः शब्दैश्च भारत ।
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् ॥

12.37.8

तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः ।
अलन्कृतं शोभमानमुपापाद्राजवेश्म ह ॥

12.37.9

ततः प्रकृतयः सर्वाः पौरा जानपदास्तदा ।
ऊचुः कर्णसुखा वाचः समुपेत्य ततस्ततः ॥

12.37.10

दिष्ट्या जयसि राजेन्द्र शत्रूञ्छत्रुनिषूदन ।
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च ॥

12.37.11

भव नस्त्वं महाराज राजेह शरदां शतम् ।
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं तथा ॥

12.37.12

एवं राजकुलद्वारि मङ्गलैरभिपूजितः ।
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः ॥

12.37.13

प्रविश्य भवनं राजा देवराजगृहोपमम् ।
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् ॥

12.37.14

प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च ।
पूजयामास रत्नैश्च गन्धमाल्यैश्च सर्वशः ॥

12.37.15

निश्चक्राम ततः श्रीमान्पुनरेव महायशाः ।
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानवस्थितान् ॥

12.37.16

स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः ।
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा ॥

12.37.17

तांस्तु वै पूजयामास कौन्तेयो विधिवद्द्विजान् । सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा ।
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः ॥

12.37.18

धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च । प्रविवेश सभां राजा सुधर्मां वासवो यथा ॥

12.37.19

ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत ।
सुहृदां प्रीतिजननः पुण्यः श्रुतिसुखावहः ॥

12.37.20

हंसवन्नेदुषां राजन्द्विजानां तत्र भारती ।
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा ॥

12.37.21

ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः ।
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप ॥

12.37.22

निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः ।
राजानं ब्राह्मणच्छझा चार्वाको राक्षसोऽब्रवीत् ॥

12.37.23

तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः ।
साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः ॥

12.37.24

वृतः सर्वैस्तथा विप्रैराशीर्वादविवक्षुभिः ।
परस्सहस्रै राजेन्द्र तपोनियमसंस्थितैः ॥

12.37.25

सुदुष्टः पापमाशंसुः पाण्डवानां महात्मनाम् ।
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् ॥
चार्वाक उवाच ।

12.37.26

इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि ।
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै ॥

12.37.27

किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसन्क्षयम् ।
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् ॥

12.37.28

इति ते वै द्विजाः श्रुत्वा तस्य दुष्टस्य रक्षसः ।
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः ॥

12.37.29

ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः ।
व्रीडिताः परमोद्विग्रास्तूष्णीमासन्विशाम्पते ॥
युधिष्ठिर उवाच ।

12.37.30

प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः ।
प्रत्यासन्नव्यसनिनं न मां धिक्कर्तुमर्हथ ॥
वैशम्पायन उवाच ।

12.37.31

ततो राजन्ब्राह्माणास्ते सर्व एव विशाम्पते ।
ऊचुर्नैष द्विजोऽस्माकमन्यस्तु तव पार्थिव ॥

12.37.32

जज्ञुश्चैनं महात्मानस्ततस्तं ज्ञानचक्षुषा ।
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः ॥
ब्राह्मणा ऊचुः ।

12.37.33

एष दुर्योधनसखा विश्रुतो ब्रह्मराक्षसः ।
परिव्राजकरूपेण हितं तस्य चिकीर्षति ॥

12.37.34

न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् ।
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह ॥
वैशम्पायन उवाच ।

12.37.35

ततस्ते ब्राह्मणाः सर्वे हुन्कारैः क्रोधमूर्च्छिताः ।
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् ॥

12.37.36

स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् ।
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव ॥

12.37.37

पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् ।
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc