भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.36

12.36.1

श्रोतुमिच्छामि भगवन्विस्तरेण महामुने ।
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥

12.36.2

आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम ।
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥

12.36.3

प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता ।
कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥

12.36.4

धर्मचर्या च राज्यं च नित्यमेव विरुध्यते ।
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥
वैशम्पायन उवाच ।

12.36.5

तमुवाच महाराज व्यासो वेदविदां वरः ।
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥

12.36.6

श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप ।
प्रेहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥

12.36.7

स ते धर्मरहस्येषु संशयान्मनसि स्थितान् ।
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥

12.36.8

जनयामास यं देवी दिव्या त्रिपथगा नदी ।
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान् ॥

12.36.9

बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः ।
तोषयित्वोपचारेण राजनीतिमधीतवान् ॥

12.36.10

उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः ।
स च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥

12.36.11

भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् ।
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः ॥

12.36.12

पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् ।
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥

12.36.13

मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् ।
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुपर्षभः ॥

12.36.14

मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि ।
तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः ॥

12.36.15

यस्य ब्रह्मर्षयः पुण्या नित्यमासन्स भसादः ।
यस्य नाविदितं किञ्चिज्ज्ञानं ज्ञेयेषु दृश्यते ॥

12.36.16

स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् ।
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥

12.36.17

एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः ।
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥
युधिष्ठिर उवाच ।

12.36.18

वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम् ।
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥

12.36.19

घातयित्वा तमेवाजौ छलेनाजिह्नयोधिनम् ।
उपसम्प्रष्टुमर्हामि तमहं केन हेतुना ॥
वैशम्पायन उवाच ।

12.36.20

ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया ।
पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः ॥
वासुदेव उवाच ।

12.36.21

नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि ।
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥

12.36.22

ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः ।
पर्जन्यमिव घर्मान्ते नाथमाना उपासते ॥

12.36.23

हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् ।
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥

12.36.24

प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् ।
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥

12.36.25

सुहृदामस्मदादीनां द्रौपद्यांश्च परन्तप ।
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥
वैशम्पायन उवाच ।

12.36.26

एवमुक्तः स कृष्णेन राजा राजीवलोचनः ।
हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः ॥

12.36.27

सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम् ।
द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥

12.36.28

एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः ।
व्यजहान्मानसं दुःखं सन्तापं च महायशाः ॥

12.36.29

श्रुतवाक्यः श्रुतनिधिः श्रुतश्राव्यविशारदः ।
व्यवस्य मनसा शान्तिमगच्छत्पाण्डुनन्दनः ॥

12.36.30

स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥

12.36.31

प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥

12.36.32

ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम् ।
युक्तं षोडशभिस्त्वश्चैः पाण़्डुरैः शुभलक्षणैः ॥

12.36.33

मन्त्रैरभ्यर्चितं पण्यैः स्तूयमानश्च बन्दिभिः ।
आरुरोह यथा देवः सोमोऽम्रतमयं यथम् ॥

12.36.34

जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः ।
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥

12.36.35

ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि ।
शुशुभे तारकाराजः सिताभ्र इव चाम्बरे ॥

12.36.36

चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा ।
चन्द्ररश्मिप्रये शुभ्रे माद्रीपुत्रावलन्कृते ॥

12.36.37

ते पञ्च रथमास्थाय भ्रातरः समलन्कृताः ।
भूतानीव समस्तानि राजन्ददृशिरे तदा ॥

12.36.38

आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः ।
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥

12.36.39

रथं हेममयं शुभ्रं शैव्यसुग्रीवयाजितम् ।
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥

12.36.40

नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत ।
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥

12.36.41

कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च माधवी ।
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥

12.36.42

ततो रथाश्च बहुला नागाश्वसमलन्कृताः ।
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥

12.36.43

ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः ।
स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥

12.36.44

तत्प्रयाणं माहबाहोर्बभूवाप्रतिमं भुवि ।
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम् ॥

12.36.45

अभियाने तु पार्थस्य नरैर्नगरवासिभिः ।
नगरं राजमार्गाश्च यथावत्समलन्कृताः ॥

12.36.46

पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी ।
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः ॥

12.36.47

अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः ।
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥

12.36.48

कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः ।
सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह ॥

12.36.49

तथा स्वलन्कृतं द्वारं नगरं पाण्डुनन्दनः ।
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc