भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.368

12.368.1

अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना ।
निराहारेण वसता दुःखितास्ते भुजङ्गमाः ॥

12.368.2

सर्वे सम्भूय सहिता ह्यस्य नावस्य बान्धवाः ।
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ॥

12.368.3

तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् ।
समासीनं निराहारं द्विजं जप्यपरायणम् ॥

12.368.4

ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् ।
ऊचुर्वाक्यमसन्दिग्धमातिथेयस्य बान्धवाः ॥

12.368.5

षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन ।
न चाभिभाषसे किञ्चिदाहारं धर्मवत्सल ॥

12.368.6

आमानभिगतश्चासि वयं च त्वामुपस्थिताः ।
कार्यं चातिथ्यमस्माभिरीप्सितं तव ऋद्धिमत् ॥

12.368.7

मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम ।
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण ॥

12.368.8

त्यक्ताहारेण भवता वने निवसता त्वया ।
बालवृद्धमिदं सर्वं पीड्यते धर्मसन्करात् ॥

12.368.9

न हि नो भ्रूणहा कश्चित्पन्नगेष्विह विद्यते ।
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ॥
ब्राह्मण उवाच ।

12.368.10

उपदेशेन युष्माकमाहारोऽयं कृतो मया ।
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ॥

12.368.11

यद्यष्टरात्रेऽतिक्रान्ते नागमिष्यति पन्नगः ।
तदाहारं करिष्यामि तन्निमित्तमिद व्रतम् ॥

12.368.12

कर्तव्यो न च सन्तापो गम्यतां च यथागतम् ।
तन्निमित्तमिदं सर्वं नैतद्भेत्तुगिहार्हथ ॥

12.368.13

ते तेन समनुज्ञाता ब्राह्मणेन भुजङ्गमाः ।
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc