भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.367

12.367.1

स वनानि विचित्राणि तीर्थानि च सरांसि च ।
अभिगच्छन्क्रमेण स्म कञ्चिन्मुनिमुपस्थितः ॥

12.367.2

तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः ।
पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः ॥

12.367.3

सोऽभिगम्य यथान्यायं नागायतनमर्थवित् ।
प्रोक्तवानहमस्मीति भोःशब्दालन्कृतं वचः ॥

12.367.4

तत्तस्य वचनं श्रुत्वा रूपिणी धर्मवत्सला । दर्शयामास तं विप्रं नागपत्नी पतिव्रता ।

12.367.5

सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा ।
स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् ॥
ब्राह्मण उवाच ।

12.367.6

विश्रान्तोऽभ्यर्चिन्तश्चास्मि भवत्या श्लक्ष्णया गिरा ।
द्रष्टुमिच्छामि भवति देवं नागमनुत्तमम् ॥

12.367.7

एतद्धि परमं कार्यमेतन्मे परमप्सितम् ।
अनेन चार्थेनास्म्यद्य सम्प्राप्तः पन्नगाश्रमम् ॥
नागभार्योवाच ।

12.367.8

आर्यः सूर्यरथं वोढुं गतोऽसौ मासचारिकः ।
सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् ॥

12.367.9

एतद्विदितमार्यस्य विवासकरणं तव ।
भर्तुर्भवतु किञ्चान्यत्क्रियतां तद्वदस्व मे ॥
ब्राह्मण उवाच ।

12.367.10

अनेन निश्चयेनाहं साध्वि सम्प्राप्तवानिह ।
प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्प्रहावने ॥

12.367.11

सम्प्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः ।
मयाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया ॥

12.367.12

अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे ।
कालं परिमिताहारो यथोक्तं परिपालयन् ॥

12.367.13

ततः स विप्रस्तां नागीं समाधाय पुनःपुनः ।
वेदवित्पुलिनं नद्याः प्रययौ ब्राह्मणर्भषः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc