भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.364

12.364.1

समुत्पन्ने विधानेऽस्मिन्वाङ्भाधुर्येण तेऽनघ ।
मित्रत्वमभिसम्पन्नः किञ्चिद्वक्ष्यामि तच्छृणु ॥

12.364.2

गृहस्थधर्मं विप्रेन्द्र श्रुत्वा धर्मगतं त्वहम् ।
धर्मं परमकं कुर्यां को हि मार्गो भवेद्द्विज ॥

12.364.3

अहमात्मानमास्थाय एक एवात्मनि स्थितम् ।
द्रष्टुमिच्छन्न पश्यामि बद्धः साधारणैर्गुणैः ॥

12.364.4

यावदेतदतीतं मे वयः पुत्रफलाश्रितम् ।
तावदिच्छामि पाथेयमादातुं पारलौकिकम् ॥

12.364.5

अस्मिन्हि लोकसम्भारे परं पारमभीप्सतः ।
उत्पन्ना मे मतिरियं कुतो धर्ममयः प्लवः ॥

12.364.6

संयुज्यमानानि निशाम्य लोके निर्यात्यमानानि च सात्विकानि ।
दृष्ट्वा तु धर्मध्वजकेतुमालां प्रकीर्यमाणामुपरि प्रजानाम् ॥

12.364.7

न मे मनो रज्यति भोगरागै र्दृष्ट्वा गतिं प्रार्थयतः परत्र ।
तेनातिथे बुद्धिबलाश्रयेण धर्मेण धर्मे विनियुङ्क्ष्व मां त्वम् ॥

12.364.8

सोऽतिथिर्वचनं तस्य श्रुत्वा धर्माभिभाषिणः ।
प्रोवाच वचनं श्लक्षणं प्राज्ञो मधुरया गिरा ॥

12.364.9

अहमप्यत्र मुह्यामि ममाप्येष मनोरथः ।
न च सन्निश्चयं चामि बहुद्वारे त्रिविष्टये ॥

12.364.10

केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः ।
वानप्रस्थाश्रयाः केचिद्गार्हस्थ्यं केचिदाश्रिताः ॥

12.364.11

राजधर्माश्रयाः केचित्केचिदात्मफलाश्रयाः ।
गुरुधर्माश्रयाः केचित्केचिद्वाक्संयमाश्रयाः ॥

12.364.12

मातरं पितरं केचिच्छुश्रूषन्तो दिवं गताः ।
अहिंसया परे स्वर्गं सत्येन च तथाऽपरे ॥

12.364.13

आहवेऽभिमुखः केचिन्निहतास्त्रिदिवं गताः ।
केचिदुञ्छव्रतैः सिद्धाः स्वर्गमार्गं समाश्रिताः ॥

12.364.14

केचिदध्ययने युक्ता वेदव्रतपराः शुभाः ।
बुद्धिमन्तो गताः स्वर्गं तुष्टात्मानो जितेन्द्रियाः ॥

12.364.15

आर्जवेनापरे युक्ता निहतानार्जवैर्जनैः ।
ऋजवो नाकपृष्ठे वै शुद्धात्मानः प्रतिष्ठिताः ॥

12.364.16

एवं बहुविधैर्लोकैर्धर्मद्वारैरनावृतैः ।
ममापि मतिराविद्धा मेघलेखेव वायुना ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc