भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.365

12.365.1

उपदेशं तु ते विप्र करिष्येऽहं यथाक्रमम् ।
गुरुणा मे यथाख्यातमर्थतत्त्वं तु मे शृणु ॥

12.365.2

यत्र पूर्वाभिसर्गे वै धर्मचक्रं प्रवर्तितम् ।
नैमिषे गोमतीतीरे तत्र नागह्रदो महान् ॥

12.365.3

समग्रैस्रिदशैस्तत्र इष्टमासीद्द्विजर्षभ ।
यत्रेन्द्रातिक्रमं चक्रे माधाता राजसत्तमः ॥

12.365.4

कृताधिवासो धर्मात्मा तत्र चक्षुःश्रवा महान् ।
पद्मनाभो महानागः पद्म इत्येव विश्रुतः ॥

12.365.5

स वाचा कर्मणा चैव मनसा च द्विजर्षभः ।
प्रसादयति भूतानि त्रिविधे वर्त्मनि स्थितः ॥

12.365.6

साम्ना भेदेन दानेन दणडेनेति चतुर्विधम् ।
पिपमस्थं समस्थं च चक्षुर्ध्यानेन रक्षति ॥

12.365.7

तमतिक्रम्य विधिना प्रष्टुमर्हसि काङ्क्षित्तम् ।
स ते परमकं धर्मं न मिथ्या दर्शयिष्यरति ॥

12.365.8

स हि सर्वातिथिर्नाणो बुद्धिशास्त्रविशारदः ।
गुणैरनुपमैर्युक्तः समस्तैराभिकामिकैः ॥

12.365.9

प्रकृत्या नित्यसलिलो नित्यमध्ययने रतः ।
तपोदमाभ्यां संयुक्तो वृत्तेनानवरेण च ॥

12.365.10

यज्वा दानपतिः क्षान्तो वृत्ते च परमे स्थितः ।
सत्यवागनसूयुश्च शीलवान्नियतेन्द्रियः ॥

12.365.11

शेषान्नभोक्ता वचनानुकूलो हितार्जवोत्कृष्टकृताकृतज्ञः ।
अवैरकृद्भूतहिते नियुक्तो गङ्गाह्रदाम्भोभिजनोपपन्नः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc