भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.361

12.361.1

शृणु पुत्र यथाह्येष पुरुषः शाश्वतोऽव्ययः ।
अक्षयश्चाप्रमेयश्च सर्वगश्च निरुच्यते ॥

12.361.2

न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम ।
सगुणैर्निर्गुणैर्विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥

12.361.3

अशरीरः शरीरेषु सर्वेषु निवसत्यसौ ।
वसन्नपि शरीरेषु न स लिप्यति कर्मभिः ॥

12.361.4

ममान्तरात्मा तव च ये चान्ये देहसञ्ज्ञिताः ।
सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचिक्वचित् ॥

12.361.5

विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः ।
एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् ॥

12.361.6

क्षेत्राणि हि शरीराणि बीजं चापि शुभाशुभम् ।
तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते ॥

12.361.7

नागतिर्न गतिस्तस्य ज्ञेया भूतेषु केनचित् ।
साङ्ख्येन विधिना चैव योगेन च यथाक्रमम् ॥

12.361.8

चिन्तयामि गतिं चास्य न गतिं वेद्मि चोत्तराम् ।
यथाज्ञानं तु वक्ष्यामि पुरुषं तु सनातनम् ॥

12.361.9

तस्यैकत्वं महत्त्वं च स चैकः पुरुषः स्मृतः ।
महापुरुषशब्दं स बिभर्त्येकः सनातनः ॥

12.361.10

एको हुताशो बहुधा समिध्यते एकः सूर्यस्तपसो योनिरेका ।
एको वायुर्बहुधा वाति लोके महोदधिश्चाम्भसां योनिरेकः । पुरुषश्चैको निर्गुणो विश्वरूप स्तं निर्गुणं पुरुषं चाविशन्ति ॥

12.361.11

हित्वा गुणमयं सर्वं कर्मं हित्वा शुभाशुभम् ।
उभे सत्यानृते त्यक्त्वा एवं भवति निर्गुणः ॥

12.361.12

अचिन्त्यं चापि तं ज्ञात्वा भावसूक्ष्मं चतुष्टयम् ।
विचरेद्योऽसमुन्नद्धः स गच्छेत्पुरुषं शुभम् ॥

12.361.13

एकं हि परमात्मानं केचिदिच्छन्ति पण्डिताः ।
एकात्मानं तथाऽत्मानमपरेध्यात्मचिन्तकाः ॥

12.361.14

तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः ।
स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः ॥

12.361.15

न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ।
कर्मात्मा त्वपरो योसौ मोक्षबन्धैः स युज्यते ॥

12.361.16

ससप्तदशकेनापि राशिना युज्यते च सः ।
एवं बहुविधः प्रोक्तः पुरुषस्ते यथाक्रमम् ॥

12.361.17

यत्तत्कृत्स्नं लोकतन्त्रस्य धाम वेद्यं परं बोधनीयं च वेदैः ।
मन्ता मन्तव्यं प्राशिता प्राशनीयं घ्राता घ्रेयं स्पर्शिता स्पर्शनीयम् ॥

12.361.18

द्रष्टा द्रष्टव्यं श्राविता श्रावणीयं ज्ञाता ज्ञेयं सगुणं निर्गुणं च ।
यद्वै प्रोक्तं तात सम्यक्प्रधानं नित्यं चैतच्छाश्वतं चाव्ययं च ॥

12.361.19

यद्वै सूते धातुराद्यं विधानं तद्वै विप्राः प्रवदन्तेऽनिरुद्धम् ।
यद्वै लोके वैदिकं कर्म साधु आशीर्युक्तं तद्धि तस्योपभोग्यम् ॥

12.361.20

देवाः सर्वे मनुयः साधु दान्ता स्तं प्राग्वंशे यज्ञभागं भजन्ते ।
अहं ब्रह्मा आद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः ॥

12.361.21

मत्तो जगज्जङ्गमं स्थावरं च सर्वे वेदाः सरहस्या हि पुत्र ॥

12.361.22

चतुर्विभक्तः पुरुषः स क्रीडति यथेच्छति ।
एवं स भगवान्देवः स्वेन ज्ञानेन बोधयत् ॥

12.361.23

एतत्ते कथितं पुत्र यथावदनुपृच्छतः ।
साङ्ख्यज्ञाने तथा योगे यथावदनुवर्णितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc