भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.360

12.360.1

बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु ।
को ह्यत्र पुरुषः श्रेष्ठः को वा योनिरिहोच्यते ॥
वैशम्पायन उवाच ।

12.360.2

बहवः पुरुषा लोके साङ्ग्ययोगविचारणे ।
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ॥

12.360.3

बहनां पुरुषाणां च यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वं व्याख्यास्यामि गुणाधिकम् ॥

12.360.4

नमस्कृत्वा च गुरवे व्यासाय विदितात्मने ।
तपोयुक्ताय दान्ताय वन्द्याय परमपये ॥

12.360.5

इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ।
ऋतं सत्यं च विख्यातमृपिसिंहेन चिन्तितम् ॥

12.360.6

उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः ।
अध्यान्मचिन्तामाश्रित्य शास्त्राण्युक्तानि भारत ॥

12.360.7

समासतेस्तु यद्व्यासः पुरुषैकत्वमुक्तवान् ।
तत्तेऽहं सम्प्रवक्ष्यामि प्रसादादमितौजसः ॥

12.360.8

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्रह्मणा सह संवादं त्र्यम्बकस्य विशाम्पते ॥

12.360.9

क्षीरोदस्य समुद्रस्य मध्ये हाटकसप्रभः ।
वैजयन्त इति ख्यातः पर्वतप्रवरो नृप ॥

12.360.10

तत्राध्यात्मगतिं देव एकाकी प्रविचिन्तयन् ।
वैराजसदनान्नित्यं वैजयन्तं निपेवते ॥

12.360.11

अथ तत्राऽसतस्तस्य चतुर्वक्रस्य धीमतः । ललाटप्रभवः पुत्रः शिव आगाद्यदृच्छया ।
आकाशेन महायोगी पुरा त्रिनयनः प्रभुः ॥

12.360.12

ततः खान्निपपाताशु धरणीधरमूर्धनि ।
अग्रतश्चाभवत्प्रीतो ववन्दे चापि पादयोः ॥

12.360.13

तं पादयोनिम्पतितं दृष्ट्वा सव्येन पाणिना । अत्थापयामास तदा प्रभुरेकः प्रजापतिः ।
उवाच चैनं भगवांश्चिरस्यागतमात्मजम् ॥
पितामह उवाच ।

12.360.14

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोसि मेऽन्तिकम् । कच्चित्ते कुशलं पुत्र स्वाध्यायतपसोः सदा ।
नित्यमुग्रतपास्त्वं हि ततः पृच्छामि ते पुनः ॥
रुद्र उवाच ।

12.360.15

त्वत्प्रसादेन भगवन्स्वाध्यायतपसोर्मम ।
कृशलं चाव्ययं चैव सर्वस्य जगतस्त्वथ ॥

12.360.16

चिरदृष्टोमि भगवन्वैराजसदने मया ।
ततोऽहं पर्वतं प्राप्तस्त्विमं त्वत्पादसेवितम् ॥

12.360.17

कौतूहलं चापि हि मे एकान्तगमनेन ते ।
नैतत्कारणमल्पं हि भविष्यति पितामह ॥

12.360.18

किन्नु तत्सदनं श्रेष्ठं क्षुत्पिपासाविवर्जितम् ।
सुरासुरैरध्युपितमृषिभिश्चामितप्रभैः ॥

12.360.19

गन्धर्वैरेप्सरोभिश्च सततं सन्निषेवितम् ।
उत्सृज्येमं गिरिवरमेकाकी प्राप्तवानसि ॥
ब्रह्मोवाच ।

12.360.20

वैजयन्तो गिरिवरः सततं सेव्यते मया ।
अत्रैकाग्रेण मनसा पुरुषश्चिन्त्यते विराट् ॥
रुद्र उवाच ।

12.360.21

बहवः पुरुषा ब्रह्मंस्त्वया सृष्टाः स्वयम्भुव ।
सृज्यन्ते चापरे ब्रह्मन्स चैकः पुरुषो विराट् ॥

12.360.22

को ह्यसौ चिन्त्यते ब्रह्मंस्त्वयैकः पुरुषोत्तमः ।
एतन्मे संशयं छिन्धि महत्कौतूहलं हि मे ॥
ब्रह्मोवाच ।

12.360.23

बहवः पुरुषाः पुत्र त्वया ये समुदाहृताः ।
एवमेतदतिक्रान्तं द्रष्टव्यं नैवमित्यपि ॥

12.360.24

आधारं तु प्रवक्ष्यामि एकस्य पुरुषस्य ते ।
बहूनां पुरुषाणां स यथैका योनिरुच्यते ॥

12.360.25

तथा तं पुरुषं विश्वं परमं सुमहत्तमम् ।
निर्गुणं निर्गुणा भूत्वा प्रविशन्ति सनातनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc