भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.34

12.34.1

तपसा कर्मणा चैव प्रदानेन च भारत ।
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ॥

12.34.2

एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् ।
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥

12.34.3

अनसूयुरधः शायी कर्म लोके प्रकाशयन् ।
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ॥

12.34.4

लक्ष्यः शस्त्रभृतां वा स्याद्विदुषामिच्छयाऽत्मनः ।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक््शिराः ॥

12.34.5

जपन्वाऽन्यतमं वेदं योजनानां शतं व्रजेत् ।
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥

12.34.6

धनं वा जीवनायालं गृहं वा सपरिच्छदम् ।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥

12.34.7

षङ्गिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः ।
मासेमासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ॥

12.34.8

संवत्सरेण मासाशी पूयते नात्र संशयः ।
तथैवोपवसन्राजन्स्वल्पेनापि प्रपूयते ॥

12.34.9

क्रतुना चाश्वमेधेन पूयते नात्र संशयः । ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः ।
ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः ॥

12.34.10

ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥

12.34.11

गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत् ।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥

12.34.12

कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् ।
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥

12.34.13

गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये ।
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्विषात् ॥

12.34.14

शतं वै यस्तु काम्भोजान्ब्राह्मणेभ्यः प्रयच्छति ।
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ॥

12.34.15

मनोरथं तु यो दद्यादेकस्मा अपि भारत ।
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥

12.34.16

सुरापानं सकृत्कृत्वा योऽग्निवर्णां सुरां पिबेत् ।
स पावयत्यथात्मानमिह लोके परत्र च ॥

12.34.17

मरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् ।
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ॥

12.34.18

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।
समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः ॥

12.34.19

भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः ।
पुनर्न च पिबेद्राजन्संस्कृतः स च शुध्यति ॥

12.34.20

गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत् ।
अवकृत्यात्मनः शेफं प्रव्रजेदूर्ध्वदर्शनः ॥

12.34.21

शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् ।
कर्मभ्यो विप्रमुच्यन्ते यताः संवत्सरं स्त्रियः ॥

12.34.22

महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु ।
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥

12.34.23

अनृतेनोपवर्ती चेत्प्रतिरोद्धा गुरोस्तथा ।
उपाहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥

12.34.24

अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात् ॥

12.34.25

परदारोपसेवी तु परस्यापहरन्वसु ।
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥

12.34.26

धनं तु यस्यापहरेत्तस्मै दद्यात्समं वसु ।
विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात् ॥

12.34.27

कृच्छ्राद्द्वादशरात्रेण संयतात्मा व्रते स्थितः ।
परिवेत्ता भवेत्पूतः परिवित्तिस्तथैव च ॥

12.34.28

निवेश्यं तु पुनस्तेन भवेत्तारयता पितॄन् ।
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ॥

12.34.29

भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते ।
स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः ॥

12.34.30

स्त्रियस्त्वाशङ्किताः पापे नोपगम्या विजानता ।
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥

12.34.31

पादजोच्छिष्टकांस्यं यद्गवा घ्रातमथापि वा ।
गण्डूषोच्छिष्टमपि वा विशुध्येद्दशभिस्तु तत् ॥

12.34.32

चतुष्पात्सकलो धर्मो ब्राह्मणस्य विधीयते ।
पादोन इष्टो राजन्ये तथा धर्मो विधीयते ॥

12.34.33

तथा वैश्ये च शूद्रे च पादः पादो विधीयते ।
विद्यादेवंविधनैषां गुरुलाघवनिश्चयम् ॥

12.34.34

तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्वोत्तरान्बहून् ।
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयन्नरः ॥

12.34.35

अगम्यागमने राजन्प्रायश्चित्तं विधीयते ।
आर्द्रवस्त्रेण षण्मासान्विभाव्यं भस्मशायिना ॥

12.34.36

एवमेव तु सर्वेषामकार्याणां विधिर्भवेत् ।
ब्रह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥

12.34.37

सावित्रीमप्यधीयानः शुचौ देशे मिताशनः ।
अहिंसो मन्दकं जल्पान्मुच्यते सर्वकिल्बिषात् ॥

12.34.38

अहः सु सततं तिष्ठेदभ्याकाशं निशाः स्वपन् ।
त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत् ॥

12.34.39

स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्ब्रतान्वितः ।
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥

12.34.40

शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम् ।
अतिरिच्येत्तयोर्यस्तु तत्कर्ता लभते फलम् ॥

12.34.41

तस्माद्दानेन तपसा कर्मणा च फलं शुभम् ।
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥

12.34.42

कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् ।
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥

12.34.43

अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् ।
महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥

12.34.44

भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च ।
अज्ञानज्ञानयो राजन्विहितान्यनुजानतः ॥

12.34.45

जानता तु कृतं पापं गुरु सर्वं भवत्युत ।
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ॥

12.34.46

शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् ।
आस्तिके श्रद्दधाने च विधिरेष विधीयते ॥

12.34.47

नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन ।
दम्भद्वेषप्रधानेषु विधिरेष न शिष्यते ॥

12.34.48

शिष्टाचारश्च दिष्टश्च धर्मो धर्मभूतां वर ।
सेवितव्यो नरव्याघ्र प्रेत्येह च हितेप्सुना ॥

12.34.49

स राजन्मोक्ष्यते पापात्तेन पूर्णेन हेतुना ।
त्राणार्थं वा वधे तेषामथवा नृपकर्मणा ॥

12.34.50

अथवा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि ।
मा चैवानार्यजुष्टेन मृत्युना निधनं गमः ॥
वैशम्पायन उवाच ।

12.34.51

एवमुक्तो भगवता धर्मराजो युधिष्ठिरः ।
चिन्तयित्वा मुहूर्तेन प्रत्युवाच तपोधनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc