महाभारत · अध्याय 12.33
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः ।
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह ॥
व्यास उवाच ।
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् ।
प्रायश्चित्तीयते ह्येवं नरो मिथ्याऽनुवर्तयन् ॥
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत ।
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥
परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः ।
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा ।
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥
ग्रामयाजी च कौन्तेय मांसस्य परिविक्रयी ।
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी ॥
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ।
वृथा पशुसमालम्भी वनदाहस्य कारकः ॥
अनृतेनोपवर्ती च प्रतिषेद्धा गुरोस्तथा ।
स्वदत्तस्यापहर्ता च परदत्तनिरोधकः ॥
वाग्दत्तं च मनोदत्तं धारादत्तं च यो हरेत् ।
पाकभेदेन भोक्ता च भुञ्जानस्याप्यनादरः ॥
स्वजनैः कलहं चैव आश्रितानामरक्षणम् । एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥
अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे ।
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया ।
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम् ॥
शरणागतसन्त्यागो भृत्यस्याभरणं तथा ।
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥
आधानादीनि कर्माणि शक्तिमान्न करोति यः ।
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत ॥
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् ।
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥
पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः ।
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः ॥
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च ॥
यानि कुर्वन्निकुर्वंश्च प्रायश्चित्तीयते नरः । एतान्येव तु कर्माणि क्रियमाणानि मानवैः ।
येषुयेषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु ॥
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥
इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते ।
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते ॥
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् ।
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥
प्राणात्यये तथा ज्ञानादाचरन्मदिरामपि ।
आदेशितो धर्मपरैः पुनः संस्कारमर्हति ॥
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् ।
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति ॥
गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम् ।
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥
स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते ।
बहुशः कामकारेण न चेद्यः सम्प्रवर्तते ॥
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति ।
स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च ।
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन ।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥
पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा ।
भिक्षिते पारदार्यं च तद्धर्मस्य न दूषकम् ॥
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत् ।
भ्रनुग्रहः पशूनां हि संस्कारो विधिनोदितः ॥
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् ।
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम् ॥
स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका ।
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति ॥
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान् ।
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ॥
वनदाहो गवामर्थे क्रियमाणो न दूषकः ।
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति ॥
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत । यानि कृत्वा नरः पूतो भविष्यति नराधिप ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0