भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.333

12.333.1

स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ।
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ॥

12.333.2

मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे ।
यथा मे मनसः शान्तिः परमा सम्भवेत्प्रभो ॥

12.333.3

श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम् ।
अधीहि पुत्र मोक्षं वै धर्मांश्च विविधानपि ॥

12.333.4

पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः ।
योगशास्त्रं च निखिलं कापिलं चैव भारत ॥

12.333.5

स तं ब्राह्नया श्रियः युक्तं ब्रह्मतुल्यपराक्रमम् ।
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम् ॥

12.333.6

उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ।
स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरः ॥

12.333.7

पितुर्नियोगादगमन्मैथिलं जनकं नृपम् ।
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥

12.333.8

उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः ।
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥

12.333.9

आर्जवेनैव गन्तव्यं न सुखान्वेषिणा तथा ।
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥

12.333.10

अहन्कारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ।
स्यातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ॥

12.333.11

स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ।
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ॥

12.333.12

एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ।
पद्भ्यां शक्तोन्तरिक्षेण क्रान्तुं पृथ्वीं ससागराम् ॥

12.333.13

स गिरींश्चाप्यतिक्रम्य नदीतीर्थसरांसि च ।
बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च ॥

12.333.14

मेहोर्हरेश्च द्वे वर्षे वर्षं हैमवतं ततः ।
क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत् ॥

12.333.15

स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् ।
आर्यावर्तमिमं देशमाजगाम महामुनिः ॥

12.333.16

पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् ।
अध्वानं सोऽतिचक्राम खचरः खे पतविव ॥

12.333.17

पत्तनानि च रम्याणि स्फीतानि नगराणि च ।
रत्नानि च विचित्राणि पश्यन्नपि न पश्यति ॥

12.333.18

उद्यावानि च रम्याणि तथैवायतनानि च ।
पुण्यानि चैव तीर्थानि सोत्यक्रामदथाध्वगः ॥

12.333.19

सोचिरेणैव कालेन विदेहानाससाद ह ।
रक्षितान्धर्मराजेन जनकेन महात्मना ॥

12.333.20

तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् ।
पल्लीघोषान्समृद्धांश्च बहुगोकुलसन्कुलान् ॥

12.333.21

स्फीतांश्च शालियवसर्हंससारससेवितान् ।
पद्मिनीभिश्च शतशः श्रीमतीभिरलकृतान् ॥

12.333.22

स विदेहानतिक्रम्य समृद्धजनसेवितान् ।
मिथिलोपवनं रम्यमाससाद समृद्धिमत् ॥

12.333.23

हस्त्यश्वरथसन्कीर्णं नरनारीसमाकुलम् ।
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ॥

12.333.24

मनसा तं बहन्भारं तमेवार्थं विचिन्तयन् ।
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ॥

12.333.25

तस्या द्वारं समासाद्य द्वारपालैर्निवारितः ।
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ॥

12.333.26

स राजमार्गमासाद्य समृद्धजनकसन्कुलम् ।
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ॥

12.333.27

तत्रापि द्वारपलास्तमुग्रवाचा न्यषेधयन् ।
तथैव च शुक्रस्तत्र निर्मन्युः समतिष्ठत ॥

12.333.28

न चातपाध्वसन्तप्तः क्षुत्पिपासाश्रमान्वितः ।
प्रताम्यति ग्लायति वा नापैति च तथाऽतपात् ॥

12.333.29

तेषां तु द्वारपालानामेकः शोकसमन्वितः ।
मध्यन्गतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥

12.333.30

पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ।
प्रावेशयत्ततः कक्ष्यां प्रथमां राजवेश्मनः ॥

12.333.31

तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत् ।
छायायामातपे चैव समदर्शी समद्युतिः ॥

12.333.32

तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः ।
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ॥

12.333.33

तत्रान्तः पुरसम्बद्धं महच्चैत्ररथोपमम् ।
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥

12.333.34

तं दर्शयित्वा स शुकं मन्त्री जनकमुत्तमम् ।
अर्हमासनमादिश्य निश्चक्रामः ततः पुनः ॥

12.333.35

तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः ।
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥

12.333.36

संलापालापकुशला नृत्तगीतविशारदाः ।
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ॥

12.333.37

भावोपचारकुशला भावज्ञाः सत्वकोविदाः ।
परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन् ॥

12.333.38

पाद्यादीनि प्रतिग्राह्य पूजया परयाऽर्चयन् ।
कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन् ॥

12.333.39

तस्य भुक्तवतस्तात तदन्तः पुरकाननम् ।
सुरम्यं दर्शयामासुरेकैकश्येन भारत ॥

12.333.40

क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापि ताः शुभम् ।
उदारसत्वं सत्वज्ञाः स्त्रियः पर्यचरंस्तथा ॥

12.333.41

आरणेयस्तु शुद्धात्मा निःसन्देहस्त्रिकर्मकृत् ।
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ॥

12.333.42

तस्मै शय्यासनं दिव्यं वरार्हः रत्नभूषितम् ।
स्पर्ध्यास्तरणसन्कीर्णं ददुस्ताः परमस्त्रियः ॥

12.333.43

पादशौचं तु कृत्वैव शुक्रः सन्ध्यामुपास्य च ।
निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ॥

12.333.44

पूर्वरात्रे तु तत्रासौ हुत्वा ध्यानपरायणः । मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः ।

12.333.45

ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् ।
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥

12.333.46

अनेन विधिना कर्ष्णिस्तदहः शेषमच्युतः ।
तां च रात्रिं नृपकुले वर्तयामास भारत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc