भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.332

12.332.1

स लब्ध्वा परमं देवाद्वरं सत्यवतीसुतः ।
अरणीं तु ततो गृह्य ममन्थाग्निचिकीर्षया ॥

12.332.2

अथ रूपं परं राजन्बिभ्रतीं स्वेन तेजसा ।
घृताचीं नामाप्सरसमपश्यद्भगवानृषिः ॥

12.332.3

ऋषिरप्सरसं दृष्ट्वा सहसा काममोहितः ।
अभवद्भगवान्व्यासो वने तस्मिन्युधिष्ठिर ॥

12.332.4

सा च दृष्ट्वा तदा व्यासं कामसंविग्नमानसम् ।
शुकी भूत्वा महाराज घृताची समुपागमत् ॥

12.332.5

स तामप्सरसं दृष्ट्वा रूपेणान्येन संवृताम् ।
शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥

12.332.6

स तु धैर्येण महता निगृह्णन्हृच्छयं मुनिः । न शशाक नियन्तुं तद्व्यासः प्रविसृतं मनः ।
भावित्वाच्चैव भावस्य घृताच्या वपुषा हृतः ॥

12.332.7

यत्नान्नियच्छतस्तस्य मुनेरग्निचिकीर्षया ।
अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥

12.332.8

सोऽविशङ्केन मनसा तथैव द्विजसत्तमः ।
अरणीं ममन्थ ब्रह्मर्षिस्तस्यां जज्ञे शुको नृप ॥

12.332.9

शुक्रे निर्मथ्यमाने स शुको जज्ञे महातपाः ।
परमर्षिर्महायोगी अरणीगर्भसम्भवः ॥

12.332.10

यथाऽध्वरे समिद्धोऽग्निर्भाति हव्यमुदावहन् ।
तथारूपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥

12.332.11

विभ्रत्पितुश्च कौरव्य रूपवर्णमनुत्तमम् ।
बभौ तदा भावितात्मा विधूमोऽग्निरिवज्वलन् ॥

12.332.12

तं गङ्गा सरितां श्रेष्ठा मेरुपृष्ठे जनेश्वर ।
स्वरूपिणी तदाऽभ्येत्य स्नापयामास वारिणा ॥

12.332.13

अन्तरिक्षाच्च कौरव्य दण्डः कृष्णाजिनं च ह ।
पपात भुवि राजेन्द्र शुकस्थार्थे महात्मनः ॥

12.332.14

जेगीयन्ते स्म गन्धर्वा ननृतुश्चाप्सरोगणाः ।
देवदुन्दुभयश्चैव प्रावाद्यन्त सहस्रशः ॥

12.332.15

विश्वासुश्च गन्धर्वस्तथा तुम्बुरुनारदौ ।
हाहा हूहूश्च गन्धर्वौ तुष्टुवुः शुकसम्भवम् ॥

12.332.16

तत्र शक्रपुरोगाश्च लोकपालाः समागताः ।
देवा देवर्षयश्चैव तथा ब्रह्मर्षयोऽपि च ॥

12.332.17

दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ।
जङ्गमं स्थावरं चैव प्रहृष्टमभवज्जगत् ॥

12.332.18

तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ।
जतामात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥

12.332.19

तस्य देवेश्वरः शक्रो दिव्यमद्भुतदर्शनम् ।
ददौ कमण्डलुं प्रीत्या देववासांसि चाभिभो ॥

12.332.20

हंसाश्च शतपत्राश्च सारसाश्च सहस्रशः ।
प्रदक्षिणमवर्तन्त शुकाश्चाषाश्च भारत ॥

12.332.21

आरणेयस्ततो दिव्यं प्राप्य जन्म महाद्युतिः ।
तत्रैवोवास मेधावी ब्रह्मचारी समाहितः ॥

12.332.22

उत्पन्नमात्रं तं वेदाः सरहस्याः ससन्ग्रहाः ।
उपतस्थुर्महाराज यथाऽस्य पितरं तथा ॥

12.332.23

बृहस्पतिं च वव्रे स वेदवेदाङ्गभाष्यवित् ।
उपाध्यायं महाराज धर्ममेवानुचिन्तयन् ॥

12.332.24

सोऽधीत्य निखिलान्वेदान्सरहस्यान्ससन्ग्रहान् ।
इतिहासं च कार्त्स्न्येन धर्मशास्त्राणि चाभिभो ॥

12.332.25

गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ।
उग्रं तपः समारेभे ब्रह्मचारी समाहितः ॥

12.332.26

देवतानामृषीणां च बाल्येऽपि स महातपाः ।
सम्मन्त्रणीयो मान्यश्च ज्ञानेन तपसा तथा ॥

12.332.27

न त्वस्य रमते बुद्धिराश्रमेषु नराधिप ।
त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc