भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.324

12.324.1

ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ ।
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ॥

12.324.2

तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ ॥
भीष्म उवाच ।

12.324.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ॥

12.324.4

वैदेहो जनको राजा महर्षि वेदवित्तमम् ।
यर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् ॥

12.324.5

केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ ।
तपसा वाऽथवा बुद्ध्या कर्मणा वा श्रुतेन वा ॥

12.324.6

एवमुक्तः स वैदेहं प्रत्युवाचापरेक्षवित् ।
निवृत्तिर्नैतयोरस्ति नातिवृत्तिः कथञ्चन ॥

12.324.7

न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः ।
सोयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ॥

12.324.8

सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा ।
ऊह्यमानं निमज्जन्तमप्लवे कालसागरे ॥

12.324.9

जरामृत्युमहाग्राहे न कश्चिदतिवर्तते ।
नैवास्य कश्चिद्भवति नासौ भवति कस्यचित् ॥

12.324.10

पथि सन्गतमेवेदं दारैरन्यैश्च बन्धुभिः ।
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ॥

12.324.11

क्षिप्यन्ते तेनतेनैव निष्टनन्तः पुनः पुनः ।
कालेन जाता याता हि वायुनेवाभ्रसञ्चयाः ॥

12.324.12

जरामृत्यू हि भूतानां खादितारौ वृकाविव ।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥

12.324.13

एवम्भूतेषु भूतेषु नित्यभूताध्रवेषु च ।
कथं हि हृष्येज्जातेषु मृतेषु च न सञ्ज्वरेत् ॥

12.324.14

कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा ।
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ॥

12.324.15

द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च ।
आगमास्त्वनतिक्रम्य दद्याच्चैव यजेत च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc