भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.323

12.323.1

अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥

12.323.2

यथार्षेणेह विधिना चरताऽवमतेन ह ।
मयाऽदित्यादवाप्तानि यजूंषि मिथिलाधिप ॥

12.323.3

महता तपसा देवस्तपिष्णुः सेवितो मया ।
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदाऽनघ ॥

12.323.4

वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।
तं ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥

12.323.5

ततः प्रणम्य शिरसा मयोक्तस्तपतांवरः ।
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥

12.323.6

ततो मां भगवानाह वितरिष्यामि ते द्विज ।
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥

12.323.7

ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।
विवृतं च ततो मेऽस्यं प्रविष्टा च सरस्वती ॥

12.323.8

ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदाऽनघ ।
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥

12.323.9

ततो विदह्यमानं मामुवाच भगवान्रविः ।
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यति ॥

12.323.10

शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः ।
प्रतिभास्यति ते वेदः सखिलः सोत्तरो द्विज ॥

12.323.11

कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।
तस्यान्ते चाषुनर्भावे बुद्धिस्तव भविष्यति ॥

12.323.12

प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् ।
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥

12.323.13

ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥

12.323.14

ततः प्रवृत्ताऽतिशुभा स्वरव्यञ्जनभूषिता ।
ओन्कारमादितः कृत्वा मम देवी सरस्वती ॥

12.323.15

ततोऽहमर्ध्यं विधिवत्सरस्वत्यै न्यवेदयम् ।
परं यत्नमवाप्यैव निषण्णस्तत्परायणः ॥

12.323.16

ततः शतपथं कृत्स्नं सरहस्यं ससन्ग्रहम् ।
चक्रे सपरिशेषं च हर्षेण परमेण ह ॥

12.323.17

कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥

12.323.18

ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।
व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः ॥

12.323.19

मिषतो देवलस्यापि ततोऽर्धं हृतवान्वसु ।
स्ववेददक्षिणायार्थे विमर्दे मातुलेन ह ॥

12.323.20

सुमन्तुनाऽथ पैलेन तथा जैमिनिना च वै ।
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥

12.323.21

दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयाऽनघ ।
तथैव रोमहर्षेण पुराणमवधारितम् ॥

12.323.22

बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् ।
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥

12.323.23

कर्तुं शतपथं चेदमपूर्वं च कृतं मया ।
यथाभिलपितं मार्गं तथा तच्चोपपादितम् ॥

12.323.24

शिष्याणामखिलं कृत्स्नमनुज्ञातं ससन्ग्रहम् ।
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥

12.323.25

शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिता ।
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचितयम् ॥

12.323.26

किमत्र ब्रह्मण्यमृतं किञ्च वेद्यमनुत्तमम् ।
चिन्तयंस्तत्र चागत्य गन्धर्वो मामपृच्छत ॥

12.323.27

विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।
चतुर्विशांस्ततोऽपृच्छत्प्रश्नान्वेदस्य पार्थिव ॥

12.323.28

पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तदा । तथैव पुरुषव्याघ्र मित्रं वरुणमेव च ॥

12.323.29

ज्ञानं ज्ञेयं तथा ज्ञोऽज्ञः कस्तपा अतपास्तथा ।
सूर्यातिसूर्य इति च विद्याविद्ये तथैव च ॥

12.323.30

वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।
अव्ययं चाक्षरं क्षेम्यमेतत्प्रश्नमनुत्तमम् ॥

12.323.31

अथोक्तश्च महाराज राजा गन्धर्वसत्तमः ।
पृष्टवानानुपूर्व्येण प्रश्नमर्थवदुत्तमम् ॥

12.323.32

मुहूर्तमुष्यतां तावद्यावदेनं विचिन्तये ।
बाढमित्येव कृत्वा स तूर्ष्णीं गन्धर्व आस्थितः ॥

12.323.33

ततोऽनुचिन्तयमहं भूयो देवीं सरस्वतीम् ।
मनसा स च मे प्रश्नो दध्नो धृतमिवोद्धृतः ॥

12.323.34

तत्रोपनिषदं चैव परिशेषं च पार्थिव ।
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥

12.323.35

चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी ।
उदीरिता मया तुभ्यं पञ्चविंशाऽधितिष्ठता ॥

12.323.36

अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा ।
श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ॥

12.323.37

विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयन्करम् ॥

12.323.38

त्रिगुणं गुणकर्तृत्वाद्विश्वान्यो निष्कलस्तथा ।
विश्वाविश्वेति मिथुनमेवमेवानुदृश्यते ॥

12.323.39

अव्यक्तं प्रकृतिः प्राहुः पुरुषेति च निर्गुणम् ।
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥

12.323.40

ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं पुरुषमेव च ।
अज्ञमव्यक्तमित्युक्तं ज्ञस्तु निष्कल उच्यते ॥

12.323.41

कस्तपा अतपाः प्रोक्तः कोसौ पुरुष उच्यते ।
तपास्तु प्रकृतिं प्राहुरतपा निष्कलः स्मृतः ॥

12.323.42

सूर्यमव्यक्तमित्युक्तमतिसूर्यस्तु निष्कलः । अविद्या प्रोक्तमव्यक्तं विद्या पुरुष उच्यते ॥

12.323.43

तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते ।
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥

12.323.44

चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः ।
अक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥

12.323.45

अज्ञावुभौ ध्रुवौ चैव अक्षयौ चाप्युभावपि ॥

12.323.46

अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः । अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् ।
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥

12.323.47

गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।
एषा तेऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ॥

12.323.48

विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥

12.323.49

जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।
वेदार्थं ये न जानीते वेद्यं गन्धर्वसत्तम ॥

12.323.50

साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।
वेदवेद्यं न जानीते वेदभारवहो हि सः ॥

12.323.51

यो घृतार्थी खराक्षीरं मथेद्गन्धर्वसत्तम ।
विष्ठां तत्रानुपश्येत न मण़्डं न च वै घृतम् ॥

12.323.52

तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति ।
स केवलं मूढमतिर्वेदभारवहः स्मृतः ॥

12.323.53

द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना ।
यथाऽस्य जन्मनिधने न भवेतां पुनः पुनः ॥

12.323.54

अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् ।
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥

12.323.55

यदाऽनुपश्यतेऽत्यन्तमहन्यहनि काश्यप ।
तदा स केवलीभूतः षङ्विंशमनुपश्यति ॥

12.323.56

अन्यश्च शाश्वतो व्यक्तस्तथाऽन्यः पञ्चविंशकः ।
तत्स्थं समनुपश्यन्ति तमेकमिति साधवः ॥

12.323.57

तेनैतं नाभिनन्दन्ति पञ्चविंसकमच्युतम् ।
जन्ममृत्युभयाद्योगाः साख्याश्च परमैषिणः ॥
विश्वावसुरुवाच ।

12.323.58

पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।
तदहं न तथा वेद्मि तद्भवान्वक्तुमर्हति ॥

12.323.59

जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम् ।
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥

12.323.60

भिक्षोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च ।
गौतमस्याष्टिंषेणस्य गर्गस्य च महात्मनः ॥

12.323.61

नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥

12.323.62

कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥

12.323.63

दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः ।
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥

12.323.64

तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥

12.323.65

न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः ।
कथ्यसे देवलोके च पितृलोके च ब्राह्मण ॥

12.323.66

ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।
पतिश्च तपतां शश्वदादित्यस्तव भाषिता ॥

12.323.67

साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।
तथैव योगशास्त्रं च याज्ञवल्क्य विशेषतः ॥

12.323.68

निःसन्दिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥
याज्ञवल्क्य उवाच ।

12.323.69

कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।
जिज्ञासमे च मां राजंस्तन्निबोध यथाश्रुतम् ॥

12.323.70

बुध्यमानो हि प्रकृतिं बुध्यते पञ्चविंशकः ।
न तु बुध्यति गन्धर्वप्रकृतिः पञ्चविंशकम् ॥

12.323.71

अनेन प्रतिबोधेन प्रधानं प्रवदन्ति तत् ।
साङ्ख्ययोगार्थतत्त्वज्ञा यथ्नाश्रुतिनिदर्शनात् ॥

12.323.72

पश्यंस्तथैव चापश्यन्पश्यत्यन्यः सदाऽनघ ।
षङ्विंशं पञ्चविंशं च चतुर्विशं च पश्यति ॥

12.323.73

न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ।
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम ॥

12.323.74

न चतुर्विशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः ।
मत्स्यो वोदकमन्वेति प्रवर्तेत प्रवर्तनात् ॥

12.323.75

यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।
स स्नेहात्सहवासाच्च साभिमानाच्च नित्यशः ॥

12.323.76

स निमज्जति कालस्य यदैकत्वं न बुध्यते ।
उन्मज्जति हि कालस्य समत्वेनाभिसंवृतः ॥

12.323.77

यदा तु मन्यतेऽन्योऽहमन्य एष इति द्वजिः ।
तदा स केवलीभूतः षङ्विंशमनुपश्यति ॥

12.323.78

अन्यश्च राजन्परमस्तथाऽन्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥

12.323.79

तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ।
षङ्विंशमनुपश्यन्तः शुचयस्तत्परायणाः ॥

12.323.80

यदा स केवलीभूतः षङ्विंशमनुपश्यति ।
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥

12.323.81

एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।
बुद्धिश्चोक्ता यथातत्त्वं मया श्रुतिनिदर्शनात् ॥

12.323.82

पश्यापश्यं यो न पश्येत्क्षेम्यं तत्वं च काश्यप ।
केवलाकेवलं चान्यत्पञ्चविंशं परं च यत् ॥
विश्वावसुरुवाच ।

12.323.83

तथ्यं शुभं चैतदुक्तं त्वया विभो । सम्यक्क्षेम्यं दैवताद्यं यथावत् ।
स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ये ॥
याज्ञवल्क्य उवाच ।

12.323.84

एवमुक्त्वा सम्प्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन ।
दृष्टश्च तुष्ट्या परयाऽभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा ॥

12.323.85

ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र ।
तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥

12.323.86

साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च तद्वद्योगा योगधर्मे रताश्च ।
ये चाप्यन्ये मोक्षकामा मनुष्या स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥

12.323.87

ज्ञानान्मोक्षो जायते राजसिंह नास्त्यज्ञानादेवमाहुर्नरेन्द्र ।
तस्माज्ज्ञानं तत्त्वतोऽन्तेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥

12.323.88

प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छ्रद्रादपि नीचादभीक्ष्णम् ।
श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् ॥

12.323.89

सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म ।
येनात्मानं मोक्षयेज्जन्ममृत्यो स्तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि । तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥

12.323.90

ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः ।
नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः ॥

12.323.91

अज्ञानतः कर्मयोनिं भजन्ते तान्तां राजंस्ते यथा यान्त्यभावम् ।
तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम् ॥

12.323.92

तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते ।
तत्स्थो ब्रह्मा तस्थिवांश्चापरो य स्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र ॥

12.323.93

यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भजस्व ।
राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति ते त्वस्तु नित्यम् ॥
भीष्म उवाच ।

12.323.94

स एवमनुशिष्टस्तु याज्ञवल्क्येन धीमता ।
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥

12.323.95

गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणम् ।
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥

12.323.96

गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च ।
रत्नाञ्जलिमथैकैकं ब्राह्मणेभ्यो ददौ तदा ॥

12.323.97

वेदहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै ।
यतिधर्ममुपास्यंश्चाप्यवसन्मिथिलाधिपः ॥

12.323.98

साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।
धर्माधर्मं च राजेन्द्र प्राकृतं परिगर्हयन् ॥

12.323.99

अनन्त इति कृत्वा स नित्यं केवलमेव च ।
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥

12.323.100

जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥

12.323.101

पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः ।
इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम् ॥

12.323.102

नित्यं तदाहुर्विद्वांसः शुचि तस्माच्छुचिर्भव ।
दीयते यच्च लभते दत्तं यच्चानुमन्यते ॥

12.323.103

अव्यक्तेनेति तच्चिन्त्यमन्यथा मा विचन्तय । ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ।
ददात्यव्यक्त इत्येतत्प्रतिगृह्णाति यच्च वै ॥

12.323.104

आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्तस्मात्परो भवेत् ।
एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥

12.323.105

यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।
तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता ॥

12.323.106

न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।
लभतेऽव्यक्तिकं स्थानं ज्ञात्वाऽव्यक्तं महीयते ॥

12.323.107

तथैव महतः स्थानमाहन्कारिकमेव च ।
अहन्कारात्परं चापि स्थानानि समवाप्नुयात् ॥

12.323.108

ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।
जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत् ॥

12.323.109

एतन्मयाऽप्तं जनकात्पुरस्ता त्तेनापि चाप्तं नृप याज्ञवल्क्यात् ।
ज्ञातं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः ॥

12.323.110

दुर्गं जन्म निधनं चापि राज न्न भौतिकं ज्ञानविदो वदन्ति ।
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ ॥

12.323.111

तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम् ।
क्षेत्रं ज्ञात्वा पार्थिव ज्ञानयज्ञ मुपास्य वै तत्त्वमृषिर्भविष्यसि ॥

12.323.112

युदुपनिषदमुपाकरोत्तथाऽसौ जनकनृपस्य पुरा हि याज्ञवल्क्यः ।
यदुपगणितशाश्वताव्ययं त च्छुभममृतत्वमशोकमर्च्छति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc