भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.313

12.313.1

अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु ।
गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥

12.313.2

अजस्रं त्विह क्रीडार्थं विकरोति जनाधिप ।
आत्मानं बहुधा कृत्वा तान्येव प्रविचक्षते ॥

12.313.3

एतदेवं विकुर्वाणं बुध्यमानो न बुध्यते ।
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥

12.313.4

न त्वेव बुध्यतेऽव्यक्तं सगुणं वाऽथ निर्गुणम् ।
कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥

12.313.5

बुध्यते यदि वाऽव्यक्तमेतद्वै पञ्चविंशकम् । बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ।
अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् ॥

12.313.6

अव्यक्तोबोधनाच्चापि बुध्यमानं वदन्त्युत ।
पञ्चविंशं महात्मानं न चासावपि बुध्यते ॥

12.313.7

षङ्विशं विमलं बुद्धमप्रमेयं सनातनम् ।
स तु तं पञ्चविंशं च चतुर्विशं च बुध्यते ॥

12.313.8

दृश्यादृश्यौ ह्यनुगतावुभावेव महाद्युती ।
अव्यक्तं तत्तु तद्ब्रह्म बुध्यते तात केवलम् ॥

12.313.9

केवलं पञ्चविंशं च चतुर्विशं च पश्यति ।
बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ॥

12.313.10

तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ।
बुध्यते च परां बुद्धिं विमलाममलां यदा ॥

12.313.11

षङ्विंशं राजशार्दूल तथा बुद्धत्वमाव्रजेत् ।
ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मि वै ॥

12.313.12

निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ।
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥

12.313.13

केवलेन समागम्य विमुक्तोऽत्मानमाप्नुयात् ।
एतं वै तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥

12.313.14

तत्त्वसंश्रयणादेष तत्त्ववान्न च मानद ।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥

12.313.15

न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् ।
एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धत्वलक्षणम् ॥

12.313.16

षाङ्विंशोऽहमिति प्राज्ञो गृह्यमाणोऽजरामरः ।
केवलेन बलेनैव समतां यात्यसंशयम् ॥

12.313.17

षङ्विंशेन प्रबुद्धेन बुध्यमानो ह्यबुद्धिमान् ।
एवं नानात्वमित्युक्तं साङ्ख्यश्रुतिनिदर्शनात् ॥

12.313.18

चेतनेन समेतस्य पञ्चविंशतिकस्य च ।
एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥

12.313.19

बुध्यमानोप्रबुद्धेन समतां याति मैथिल ।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥

12.313.20

निःसङ्गात्मानमासाद्य षङ्विंशकमजं विभुम् ।
विभुस्त्यजति चाव्यक्तं यदा त्वेताद्विबुध्यते ॥

12.313.21

चतुर्विशं महाभाग षङ्विंशस्य प्रबोधनात् ।
एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ॥

12.313.22

प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥

12.313.23

मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः ।
मत्स्योदके यथा तद्वदन्यत्वमुपलभ्यते ॥

12.313.24

एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः ।
एतद्धि मोक्ष इत्युक्तमव्यक्तज्ञानसञ्ज्ञितम् ॥

12.313.25

पञ्चविंशतिकस्यास्य योऽयं देहेषु वर्तते ।
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ॥

12.313.26

सोयमेवं विमुच्येत नान्यथेति विनिश्चयः ।
परेण परधर्मा च भवत्येष समेत्य वै ॥

12.313.27

विशुद्धर्मा शुद्धेन बुद्धेन च स बुद्धिमान् ।
विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥

12.313.28

वियोगधर्मिणा चैव वियोगात्मा भवत्यथ ।
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥

12.313.29

शुद्धधर्मा शुचिश्चैव भवत्यमितदीप्तिमान् ।
विमलात्मा च भवति समेत्य विमलात्मना ॥

12.313.30

केवलात्मा तथा चैव केवलेन समेत्य वै ।
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥

12.313.31

एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।
अमत्सरत्वं प्रतिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम् ॥

12.313.32

नावेदनिष्ठस्य जनस्य राज न्प्रदेयमेतत्परमं त्वया भवेत् ।
विवित्समानाय विबोधकारणं प्रबोधहेतोः प्रणतस्य शासनम् ॥

12.313.33

न देयमेतच्च तथाऽनृतात्मने शठाय क्लीबाय न जिह्नबुद्धये ।
न पण्डितज्ञानपरोपतापिने देयं त्वयेदं विनिबोध यादृशे ॥

12.313.34

श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम् ।
विशुद्धयोगाय बुधाय चैव क्रियावते च क्षमिणे हिताय ॥

12.313.35

विविक्तशीलाय विधिप्रियाय विवादहीनाय बहुश्रुताम् ।
विजानते चैव दमक्षमावते शक्ताय चैकात्मशमाय देहिनाम् ॥

12.313.36

एतैर्गुणैर्हीनतमे न देय मेतत्परं ब्रह्म विशुद्धमाहुः ।
न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात् ॥

12.313.37

पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्न देयं त्विदमव्रताय ।
जितेन्द्रियायैतदसंशयं ते भवेत्प्रदेयं परमं नरेन्द्र ॥

12.313.38

कराल मा ते भयमस्तु किञ्चि देतच्छ्रुतं ब्रह्म परं त्वयाऽद्य ।
यथावदुक्तं परमं पवित्रं विशोकमत्यन्तमनादिमध्यम् ॥

12.313.39

अगाधजन्मामरणं च राज न्निरामयं वीतभयं शिवं च ।
समीक्ष्य मोहं त्यज बाऽद्य सर्व ज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥

12.313.40

अवाप्तमेतद्धि मया सनातना द्धिरण्यगर्भाद्यजतो नराधिप ।
प्रसाद्य यत्नेन तमुग्रतेजसं सनातनं ब्रह्म यथाऽद्य वै त्वया ॥

12.313.41

पृष्टस्त्वया चास्मि यथा नरेन्द्र तथा मयेदं त्वयि चोक्तमद्य ।
तथाऽवाप्तं ब्रह्मणो मे नरेन्द्र महाज्ञानं मोक्षविदां परायणम् ॥
भीष्म उवाच ।

12.313.42

एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः ।
पञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥

12.313.43

पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च ।
नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥

12.313.44

एतन्निः श्रेयसकरं ज्ञानं ते परमं मया ।
कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥

12.313.45

हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना ।
वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥

12.313.46

नारदाद्विदितं मह्यमेतद्ब्रह्म सनातनम् ।
मा शुचः कौरवेन्द्र त्वं श्रुत्वैतत्परमं पदम् ॥

12.313.47

येन क्षराक्षरे वित्ते भयं तस्य न विद्यते ।
विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥

12.313.48

अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत् ।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥

12.313.49

देवलोकं तथा तिर्यङ्भनुष्यमपि चाश्नुते ।
यदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥

12.313.50

उत्तीर्णोऽस्मादगाधात्स परमाप्नोति शोभनम् । अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते ।
अहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥

12.313.51

यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् ।
तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc