भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.312

12.312.1

साङ्ख्यदर्शनमेतावदुक्तं ते नृपसत्तम् ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥

12.312.2

अविद्यामाहुरव्यक्तं सर्गप्रलयधर्मिणीम् ।
सर्गप्रलयनिर्मुक्तो विद्यो वै पञ्चविंशकः ॥

12.312.3

एकत्वं च बहुत्वं च प्रकृतेरनु तत्त्ववित् । परस्परं तु विद्यां वै त्वं निबोधानुपूर्वशः ।
यथोक्तमृषिभिस्तात साङ्ख्यस्यास्य निदर्शनम् ॥

12.312.4

कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशेषा इति नः श्रुतम् ॥

12.312.5

विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ॥

12.312.6

अहन्कारस्तु भूतानां पञ्चानां नात्र संशयः ।
अहन्कारस्य च तथा बुद्धिर्विद्या नरेश्वर ॥

12.312.7

बुद्धेः प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरम् ।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥

12.312.8

अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् ।
सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ॥

12.312.9

ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकः ।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशक ॥

12.312.10

विद्याविद्यार्थितत्त्वेन मयोक्ता ते विशेषतः ।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥

12.312.11

उभावेतौ क्षरावुक्तावुभावेतौ क्षराक्षरौ ।
कारणं तु प्रवक्ष्यामि यथाख्यातो न जानतः ॥

12.312.12

अनादिनिधनावेतावुभावेवेश्वरौ मतौ ।
तत्त्वसञ्ज्ञावुभावेतौ प्रोच्यते ज्ञानचिन्तकैः ॥

12.312.13

सर्गप्रलयधर्मत्वादव्यक्तं प्राहुरक्षरम् ।
तदेतद्गुणसर्गाय विकुर्वाणं पुनःपुनः ॥

12.312.14

गुणानां महदादीनामुत्पद्यन्ते परम्पराः ।
अधिष्ठानं क्षेत्रमाहुरेतत्तत्पञ्चविंशकम् ॥

12.312.15

यदा तु गुणजालं तदव्यक्तात्मनि सन्क्षिपेत् ।
तदा सह गुणैस्तैस्तु पञ्चविंशो विलीयते ॥

12.312.16

गुणा गुणेषु लीयन्ते तदैका प्रकृतिर्भवेत् ।
क्षेत्रज्ञोऽपि यदा तात तत्क्षेत्रे सम्प्रलीयते ॥

12.312.17

तदाऽक्षरत्वं प्रकृतिर्गच्छते गुणसञ्ज्ञिता ।
निर्गुणत्वं च वैदेह गुणेष्वप्रतिवर्तनात् ॥

12.312.18

एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥

12.312.19

क्षरो भवत्येष यदा तदा गुणवती मिथः ।
प्रकृतिं त्विभजानाति निर्गुणत्वं तथाऽत्मनः ॥

12.312.20

तदा विशुद्धो भवति प्रकृतेः परिवर्जनात् ।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥

12.312.21

तदैषा त्वन्यतामेति न च मिश्रत्वतां व्रजेत् ।
प्रकृत्या चैव राजेन्द्र मिश्रोऽनन्यश्च दृश्यते ॥

12.312.22

यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।
पश्यते चापरं पश्यं तदा पश्यन्न संस्वजेत् ॥

12.312.23

किमहं कृतवानेवं योहं कालमिमं जनम् । यदा मत्स्योदकं ज्ञानमनुवर्तितवांस्तदा ।
मत्स्यो जालं ह्यविज्ञानादनुवर्तितवानिह ॥

12.312.24

अहमेव हि सम्मोहादन्यमन्यं जनाज्जनम् ।
मत्स्यो यथोदकज्ञानादनुवर्तितवानहम् ॥

12.312.25

मत्स्योऽन्यत्वं यथा ज्ञानादुदकान्नाभिमन्यते ।
आत्मानं तद्वदज्ञानादन्यत्वं चैव वेदयहम् ॥

12.312.26

ममास्तु धिगबुद्धस्य योऽहमज्ञ इमं पुनः ।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥

12.312.27

अयमत्र भेवद्बन्धुरनेन सह मे क्षमम् ।
साम्यमेकत्वतां यास्ये यादृशस्तादृशस्त्वहम् ॥

12.312.28

तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
अयं हि विमलोऽव्यक्तमहमीदृशकस्तथा ॥

12.312.29

योऽहमज्ञानसम्मोहादज्ञया सम्प्रवृत्तवान् ।
ससङ्गयाऽहं निःसङ्गः स्थितः कालमिमं त्वहम् ॥

12.312.30

अनयाऽहं वशीभूतः कालमेतं न बुद्धवान् ।
उच्चमध्यमनीचानां तामहं कथमावसे ॥

12.312.31

समानया न याचेह सहवासमहं कथम् ।
गच्छाम्यबुद्धभावत्वादेषेदानीं स्थिरो भवे ॥

12.312.32

सहवासं न यास्यामि कालमेतद्धि वञ्चनात् ।
वञ्चितोस्म्यनया यद्धि निर्विकारो विकारया ॥

12.312.33

न चायमपराधोऽस्या ह्यपराधो ह्ययं मम ।
योऽहमत्राभवं सक्तः पराङ्भुखमुपस्थितः ॥

12.312.34

ततोस्मि बहुरूपासु स्थितो मूर्तिष्वमूर्तिमान् ।
अमूर्तश्चापि मूर्तात्मा ममत्वेन प्रधर्षितः ॥

12.312.35

प्रकृतेरनयत्वेन तासु तास्विह योनिषु ।
निर्ममस्य ममत्वेन किं कृतं तासु तासु च ॥

12.312.36

योनीषु वर्तमानेन नष्टसञ्ज्ञेन चेतसा ।
न ममात्रानया कार्यमहन्कारकृतात्मना ॥

12.312.37

आत्मानं बहुधा कृत्वा येयं भूयो युनक्ति माम् ।
इदानीमेष बुद्धोस्मि निर्ममो निरहन्कृतः ॥

12.312.38

ममत्वमनया नित्यमहन्कारकृतात्मकम् ।
अपेत्याहमिमां हित्वा संश्रयिष्ये निरामयम् ॥

12.312.39

अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।
क्षणं मम सहानेन नैकत्वमनया सह ॥

12.312.40

एवं परमसम्बोधात्पञ्चविंशोऽनुबुद्धवान् ।
अक्षरत्वं नियच्छेत त्यक्त्वा क्षरमनामयम् ॥

12.312.41

अव्यक्तं व्यक्तकर्माणं सगुणं निर्गुणं तथा ।
निर्गुणं परमं दृष्ट्वा तादृग्भवति मैथिल ॥

12.312.42

अक्षरक्षरयोरेतदुक्तं तत्वनिदर्शनम् ।
मयेह ज्ञानसम्पन्नं यथाश्रूतिनिदर्शनात् ॥

12.312.43

निःसन्दिग्धं च सूक्ष्मं च विबुद्धं विमलं यथा ।
प्रवक्ष्यामि तुते भूयस्तन्निबोध यथाश्रुतम् ॥

12.312.44

साङ्ख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् ।
यदेव शास्त्रं साङ्ख्योक्तं योगदर्शनमेव तत् ॥

12.312.45

प्रबोधनकरं ज्ञानं साङ्ख्यानामवनीपते ।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥

12.312.46

पृथक्चैवमिदं शास्त्रमित्याहुः कुशला जनाः ।
अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ॥

12.312.47

पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप ।
साङ्ख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥

12.312.48

बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc