भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.308

12.308.1

किं तदक्षरमित्युक्तं यस्मान्नावर्तते पुनः ।
किञ्च तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥

12.308.2

अक्षरधरयोर्व्यक्तिं पृच्छाम्यरिनिषूदन ।
उपलब्धुं महाबाहो तत्त्वेन कुरुनन्दन ॥

12.308.3

त्वं हि ज्ञाननिधिर्विप्रैरुच्यसे वेदपारगैः ।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥

12.308.4

शेषमत्यं दिनानां ते दक्षिणायनभास्करे ।
आवृत्ते भगवत्यर्के गन्तासि परमां गतिम् ॥

12.308.5

त्वयि प्रतिगते श्रेयः कुतः श्रोष्यामहे वयम् ।
कुरुवंशप्रदीपस्त्वं ज्ञानदीपेन दीप्यसे ॥

12.308.6

तदेतच्छ्रोतुमिच्छामि त्वत्तः कुरुकुलोद्वह ।
न तृष्यामीह राजेन्द्र शृण्वन्नमृतमीदृशम् ॥
भीष्म उवाच ।

12.308.7

अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥

12.308.8

वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥

12.308.9

परमध्यात्मकुशलमध्यात्मगतिनिश्चयम् ।
मैत्रावरुणिमासीनमभिवाद्य कृताञ्जलिः ॥

12.308.10

स्वक्षरं प्रश्रितं वाक्यं मधुरं चाप्यनुल्वणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥

12.308.11

भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
यस्मान्न पुनरावृत्तिमाप्नुवन्ति मनीषिणः ॥

12.308.12

यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेम्यमनामयम् ॥
वसिष्ठ उवाच ।

12.308.13

श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यन्न क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥

12.308.14

युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावृत्तमहस्तद्ब्राह्ममुच्यते ॥

12.308.15

रात्रिश्चैतावती राजन्यस्यान्ते प्रतिबुध्यते ।
सृजत्यनन्तकर्माणं महान्तं भूतमग्रजम् ॥

12.308.16

मूर्तिमन्तममूर्तात्मा विश्वं शम्भुः स्वयम्भुवम् ।
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ॥

12.308.17

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥

12.308.18

हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतः ।
महानिति च योगेषु विरिञ्चिरिति चाप्यजः ॥

12.308.19

साङ्ख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ।
विचित्ररूपो विश्वात्मा एकाक्षर इति स्मृतः ॥

12.308.20

वृतं नैकात्मकं येन कृतं त्रैलोक्यमात्मना ।
तथैव बहुरूपत्वाद्विश्वरूप इति स्मृतः ॥

12.308.21

एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ।
अहन्कारं महातेजाः प्रजापतिरन्कृतम् ॥

12.308.22

अव्यक्ताद्व्यक्तमापन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्यहन्कारमविद्यासर्गमेव च ॥

12.308.23

अपरश्च परश्चैव समुत्पन्नौ तथैकतः ।
विद्याविद्येति विख्याते श्रुतिशास्त्रार्थचिन्तकैः ॥

12.308.24

भूतसर्गमहन्कारात्तृतीयं विद्धि पार्थिव ।
अहन्कारेषु सर्वेषु चतुर्थं विद्धि वैकृतम् ॥

12.308.25

वायुर्ज्योतिरथाकाशमापोऽथ पृथिवी तथा ।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ॥

12.308.26

एवं युगपदुत्पन्नं दशवर्गमसंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थवत् ॥

12.308.27

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥

12.308.28

बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
सम्भूतानीह युगपन्मनसा सह पार्थिव ॥

12.308.29

एषा तत्त्वचतुर्विशत्सर्वाकृतिषु वर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥

12.308.30

एतद्देहं समाख्यानं त्रैलोक्ये सर्वदेहिषु ।
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे ॥

12.308.31

सयक्षभूतगन्धर्वे सकिन्नरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥

12.308.32

सदंशकीटमशक्रे सपूतिकृमिमूषिके ।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥

12.308.33

हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
यच्च मूर्तिमयं किचित्सर्वत्रैतन्निदर्शनम् ॥

12.308.34

जले भुवि तथाऽकाशे नान्यत्रेति विनिश्चयः ।
स्थानं देहवतामस्ति इत्येवमनुशुश्रुम ॥

12.308.35

कृत्स्नमेतावतस्तात क्षरते व्यक्तसञ्ज्ञितम् ।
अहन्यहनि भूतात्मा ततः क्षर इति स्मृतः ॥

12.308.36

एतद्धि क्षरमित्युक्तं क्षरतीदं यथा जगत् ।
जगन्मोहात्मकं प्राहुरव्यक्तं व्यक्तसञ्ज्ञकम् ॥

12.308.37

महांश्चैवाग्रजो नित्यमेतत्क्षरनिदर्शनम् ।
कथितं ते महाराजन्यस्मान्नावर्तते पुनः ॥

12.308.38

पञ्चर्विशतिमो विष्णुर्निस्तत्त्वस्तत्त्वसञ्ज्ञितः ।
तत्त्वसंश्रयणादेतत्तत्वमाहुर्मनीषिणः ॥

12.308.39

यन्मर्त्यमसृजद्व्यक्तं तत्तन्मूर्त्यधितिष्ठति ।
चतुर्विशतिमोऽव्यक्तो ह्यमूर्तः पञ्चविंशकः ॥

12.308.40

स एव हृदि सर्वासु मूर्तिष्वात्मावतिष्ठते ।
चेतयंश्चेतनान्नित्यं सर्वमूर्तिरमूर्तिमान् ॥

12.308.41

सर्वप्रत्ययधर्मिण्यां स सर्गः प्रत्ययात्मकः ।
गोचरे वर्तते नित्यं निर्गुणो गुणसञ्ज्ञिते ॥

12.308.42

एवमेष महानात्मा सर्गप्रलयकोविदः ।
विकुर्वाणः प्रकृतिमानभिमन्यत्यबुद्धिमान् ॥

12.308.43

तमः सत्वरजोयुक्तस्तासु तास्विह योनिषु ।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥

12.308.44

सहवासनिवासात्मा नान्योऽहमिति मन्यते ।
योऽहं सोहमिति ह्युक्त्वा गुणानेवानुवर्तते ॥

12.308.45

तमसा तामसान्भावान्विविधान्प्रतिपद्यते ।
रजसा राजसांश्चैव सात्विकान्सत्वसंश्रयात् ॥

12.308.46

शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।
सर्वाण्येतानि रूपाणि यानीह प्राकृतानि वै ॥

12.308.47

तामसा निरयं यान्ति राजसा मानुपानथ ।
सात्विका देवलोकाय गच्छन्ति सुखभागिनः ॥

12.308.48

निष्कैवल्येन पापेन तिर्यग्योनिमवाप्नुयात् ।
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः ॥

12.308.49

एवमव्यक्तविषयं क्षरमाहुर्मनीषिणः ।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc