भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.307

12.307.1

सम्पक्त्वयाऽयं नृपते वर्णितः शिष्टसम्मतः ।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥

12.307.2

साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते ।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥
भीष्म उवाच ।

12.307.3

शृणु मे त्वमिदं कृत्स्नं साङ्ख्यानां विदितात्मनाम् ।
विदितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः ॥

12.307.4

यस्मिन्नविभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥

12.307.5

ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप ।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥

12.307.6

राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा ।
विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥

12.307.7

पितृणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप ।
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥

12.307.8

राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा ।
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥

12.307.9

देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् ।
प्रजापतीनां विषयान्ब्रह्मणो विषयांस्तथा ॥

12.307.10

आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः ।
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥

12.307.11

प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम् ।
तिर्यक्षु पततां दुःखं पततां नरके च यत् ॥

12.307.12

स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत । परिसंख्यानसंख्यानं सत्वं सांख्यगुणात्मकम् ।
वेदवादे येऽपि दोषा गुणा ये चापि वैदिकाः ॥

12.307.13

ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप । साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ।
इतरेषु च ये दोषा गुणास्तेषु च भारत ॥

12.307.14

सत्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ।
तमश्चाष्टगुणं ज्ञात्वा वृद्धिं सप्तगुणां तथा ॥

12.307.15

षङ्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा ।
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा ॥

12.307.16

द्विगुणं च रजो ज्ञात्वा सत्वमेकगुणं पुनः ।
सर्गं विज्ञाय तत्त्वेन प्रलये प्रेक्ष्य चात्मनः ॥

12.307.17

ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताः शुभाः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥

12.307.18

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च ॥

12.307.19

त्वचं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् ।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम् ॥

12.307.20

विष्णौ क्रान्तं बलं शक्रे कोष्ठे सक्तं तथाऽनलम् ।
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः ॥

12.307.21

तेजः सूक्ष्मे च संयुक्तं वायुं नभसि चाश्रितम् ।
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ॥

12.307.22

बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम् ।
रजः सत्वे तथा सक्तं सत्वं सक्तं तथाऽत्मनि ॥

12.307.23

सक्तमात्मानमीशे च देवे नारायणे तथा ।
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥

12.307.24

ज्ञात्वा सत्वयुतं देहं वृतं षोडशभिर्गुणैः ।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते ॥

12.307.25

मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते ।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥

12.307.26

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥

12.307.27

प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ।
आवहं चानिलं ज्ञात्वा प्रवहं चानिलं पुनः ॥

12.307.28

सप्तवातांस्तथा शेषान्सप्तधा विहितान्पुनः ।
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून्वरान् ॥

12.307.29

सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षीश्च परन्तप ।
सुरर्षीन्महतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान् ॥

12.307.30

ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता नृप ।
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव ॥

12.307.31

गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम् ।
वैतरण्यां च यद्दुःखं पतितानां यमक्षये ॥

12.307.32

योनीषु च विचित्रासु संसारानशुभांस्तथा ।
जठरे चाशुभे वासं शोणितोदकभाजने ॥

12.307.33

श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ।
शुक्रशोणितसन्घाते मज्जास्नायुपरिग्रहे ॥

12.307.34

सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ।
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप ॥

12.307.35

तामसानां च जन्तूनां रमणीयावृतात्मनाम् ।
सात्विकानां च जन्तूनां कुत्सितं भरतर्षभ ॥

12.307.36

गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ।
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा ॥

12.307.37

ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपण नृप ॥

12.307.38

अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ।
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् ॥

12.307.39

रागे मोहे च सम्प्राप्ते क्वचित्सत्वं समाश्रितम् ।
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ॥

12.307.40

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ॥

12.307.41

विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ।
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान् ॥

12.307.42

वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥

12.307.43

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
गुरूदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥

12.307.44

जननीषु च वर्तन्ते येन सम्यग्युधिष्ठिर ।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥

12.307.45

तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् तिर्यग्योनिगतानां च विज्ञाय च गतिं पृथक् ॥

12.307.46

वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥

12.307.47

पक्षक्षयं तथा दृष्ट्वा दिवसानां च सन्क्षयम् ।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥

12.307.48

वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥

12.307.49

संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः ।
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥

12.307.50

वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः ।
जरा मृत्युस्तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥

12.307.51

देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः ।
देहविक्लवतां चैव सम्यग्विज्ञाय तत्त्वतः ॥

12.307.52

आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् । स्वदेहादुत्थितान्गब्धांस्तथा विज्ञाय चाशुभान् ।
मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान् ॥
युधिष्ठिर उवाच ।

12.307.53

कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम ।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥
भीष्म उवाच ।

12.307.54

पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः ।
मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन ॥

12.307.55

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ॥

12.307.56

एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ।
छिन्दन्ति क्षमया क्रोधं कामं सन्कल्पवर्जनात् ॥

12.307.57

सत्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ।
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥

12.307.58

गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ।
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥

12.307.59

अपां फेनोपमं लोकं विष्णोर्मायाशतैश्वितम् ।
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ॥

12.307.60

तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसन्निभम् ।
क्लेशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम् ॥

12.307.61

रजस्तमसि सम्मग्नं पङ्के द्वीपमिवावशम् ।
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतं ॥

12.307.62

ज्ञानयोगेन साङ्ख्येन व्यापिना महता नृप ।
राजसानशुभान्गन्धांस्ताम्मसांश्च तथाविधान् ॥

12.307.63

पुण्यांश्च सात्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ।
छित्त्वाऽशु ज्ञानशस्त्रेण तपो दण्डेन भारत ॥

12.307.64

ततो दुःखोदधिं घोरं चिन्ताशोकमहाह्रदम् ।
व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥

12.307.65

तमःकूर्मं रजोमीनं प्रज्ञया सन्तरन्त्युत ।
स्नेहपङ्कं जरादुर्गं ज्ञानदीपमरिन्दम् ॥

12.307.66

कर्मागाधं सत्यतीरं स्थितव्रतमरिन्दम् ।
हिंसाशीघ्रमहावेगं नानारससमाकरम् ॥

12.307.67

नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् ।
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥

12.307.68

अस्थिसन्घातसन्घट्टं श्लेष्मफेनमरिन्दम् ।
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम् ॥

12.307.69

हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् । रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् ।

12.307.70

पुत्रदारजलौकौघं मत्रिबान्धवपत्तनम् ।
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ॥

12.307.71

वेदान्तगमनद्वीपं सर्वभूतदयोदकम् ।
मोक्षदुर्लाभविषयं व़डवामुखसागरम् ॥

12.307.72

तरन्ति मुनयः सिद्धा ज्ञानयानेन भारत ।
तीर्त्वाऽतिदुस्तरं जन्म विशन्ति विमलं नभः ॥

12.307.73

तत्र तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः ।
पद्मतन्तुवदाविश्य प्रसह्य विषयान्नृप ॥

12.307.74

तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत ।
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ॥

12.307.75

सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत । सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ।
स तान्वहति कौन्तेय नभसः परमां गतिम् ॥

12.307.76

नभो वहति लोकेश रजसः परमां गतिम् । तमो वहति लोकेश रजसः परमां गतिम् ।
रजो वहति राजेन्द्र सत्वस्य परमां गतिम् ॥

12.307.77

सत्वं वहति राजेन्द्र परं नारायणं प्रभुम् ।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥

12.307.78

परमात्मानमासाद्य तद्भूता यतयोऽमलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो ॥

12.307.79

परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम् ।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥
युधिष्ठिर उवाच ।

12.307.80

स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ ॥

12.307.81

यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि ।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव ॥

12.307.82

मोक्षे दोषो महानेष प्राप्य सिद्धिगतानृषीन् ।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥

12.307.83

प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप । मग्नस्य हि परे ज्ञाने किं न दुःखतरं भवेत् ।
भीष्म उवाच ।

12.307.84

यथान्यायं त्वया तात प्रश्नः पृष्टः सुसन्कटः ।
बुधानामपि सम्मोहः प्रश्नेऽस्मिन्भरतर्षभ ॥

12.307.85

अत्रापि तत्त्वं परमं शृणु सम्यङ्भयेरितम् ।
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् ॥

12.307.86

इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप ।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥

12.307.87

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
विनश्यन्ति न सन्देहः फेना इव महार्णवे ॥

12.307.88

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन ।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥

12.307.89

स पश्यति यथान्यायं स्पर्शान्स्पृशति वा विभो ।
बुध्यमानो यथापूर्वमखिलेनेह भारत ॥

12.307.90

इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ॥

12.307.91

इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः ।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥

12.307.92

सत्वस्य च गुणान्कृत्स्नान्नजसश्च गुणान्पुनः ।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ॥

12.307.93

गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः ।
गुणान्वायोश्च धर्मात्मंस्तेजसां च गुणान्पुनः ॥

12.307.94

अपां गुणांस्तथा पार्थ पार्थिंवांश्च गुणानपि ।
सर्वात्मना गुणैर्व्याप्तः क्षेत्रज्ञेषु युधिष्ठिर ॥

12.307.95

आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे ।
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो ॥

12.307.96

प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।
परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम् ॥

12.307.97

विमुक्तः सर्वपापेभ्यः प्रविष्टस्तमनामयम् ।
परमात्मानमगुणं न निवर्तति भारत ॥

12.307.98

शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत ।
आगच्छन्ति यथाकालं गुरोः सन्देशकारिणः ॥

12.307.99

शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना ।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥

12.307.100

साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् ।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥

12.307.101

अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।
अक्षरं ध्रुवमव्यक्तं पूर्णं ब्रह्म सनातनम् ॥

12.307.102

अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥

12.307.103

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥

12.307.104

सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः ।
ब्रह्मण्यं परमं देवमनन्तं परमच्युतम् ॥

12.307.105

प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ॥

12.307.106

अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः ।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥

12.307.107

द्विविधानीह भूतानि पृथिव्यां पृथिवीपते ।
जङ्गमाजङ्गमाख्यानि जङ्गमं तु विशिष्यते ॥

12.307.108

ज्ञानं महद्यद्धि महत्सु राज न्वेदेषु साङ्ख्येषु तथैव योगे ।
यच्चापि दृष्टं विविधं पुराणे साङ्ख्यागतं तन्निखिलं नरेन्द्र ॥

12.307.109

यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे ।
ज्ञानं च लोके यदिहास्ति किञ्चि त्साङ्ख्यागतं तच्च महन्महात्मन् ॥

12.307.110

शमश्च दृष्टः परमं बलं च ज्ञानं च साङ्ख्यं च यथावदुक्तम् ।
तपांसि सूक्ष्माणि सुखानि चैव साङ्ख्ये यथावद्विहितानि राजन् ॥

12.307.111

विपर्यये तस्य हि पार्थ देवा न्गच्छन्ति साङ्ख्याः सततं सुखेन ।
तांश्चानुसञ्चार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः ॥

12.307.112

हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसो द्यामिव पार्थ साङ्ख्याः ।
अतोऽधिकं तेऽभिरता महार्थे साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥

12.307.113

तेषां न तिर्यग्गमनं हि दृष्टं नार्वाग्गतिः पापकृताधिवासः ।
च चाबुधानामपि ते द्विजातयो ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥

12.307.114

साङ्ख्यं विशालं परमं पुराणं महार्णवं विमलमुदाहरन्ति
कृत्स्नं च साङ्ख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम् ॥

12.307.115

एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम् ।
स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः ॥

12.307.116

संहृत्य सर्वं निजदेहसंस्थं कृत्वाऽप्सु शेते जगदन्तरात्मा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc