भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.29

12.29.1

स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् ।
पर्वतेन किमथे वा दत्तस्तेन ममार च ॥

12.29.2

यदा वर्षसहस्रायुस्तदा भवति मानवः ।
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ॥

12.29.3

उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् ।
कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ॥
श्रीकृष्ण उवाच ।

12.29.4

अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर ।
नारदः पर्वतश्चैव द्वावृवी लोकसत्तमौ ॥

12.29.5

मातुलो भागिनेयश्च देवलोकादिहागतौ ।
विहर्तुकामौ सम्प्रीत्या मानुषेषु पुरा विभो ॥

12.29.6

हविःपवित्रभोज्येन देवभोज्येन चैव हि ।
नारदो मातुलस्तत्र भागिनेयश्च पर्वतः ॥

12.29.7

तावुभौ तपसोपेताववनीतलचारिणौ ।
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ॥

12.29.8

प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः ।
यो भवेद्धृदि सन्कल्पः शुभो वा यदि वाऽशुभः ॥

12.29.9

अन्योन्यस्य च आख्येयो मृषा शापोऽन्यथा भवेत् ।
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ ॥

12.29.10

सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ।
आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते ॥

12.29.11

यथावत्पृथिवीपाल आवयोः प्रगुणीभव ।
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह ॥

12.29.12

ततः कदाचित्तौ राजा महात्मानौ तपोधनौ ।
अब्रवीत्परमप्रीतः सुतेयं देवरूपिणी ॥

12.29.13

एकैव मम कन्यैषा युवां परिचरिष्यति । दर्शनीयानवद्याङ्गी शीलवृत्तसमाहिता ।
सुकुमारी कुमारी च पझकिञ्जल्कसुप्रभा ॥

12.29.14

परमं सौम्यमित्युक्तं ताभ्यां राजा शशास ताम् ।
कन्ये विप्रावुपचर देववत्पितृवच्च ह ॥

12.29.15

सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी ।
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ॥

12.29.16

तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च ।
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत ॥

12.29.17

ववृधे हि ततस्तस्य हृदि कामो महात्मनः ।
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥

12.29.18

न च तं भागिनेयाय पर्वताय महात्मने ।
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ॥

12.29.19

तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम् ।
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ॥

12.29.20

कृत्वा समयमव्यग्रो भवान्वै सहितो मया ।
यो भवेद्धृदि सन्कल्पः शुभो वा यदि वाऽशुभः ॥

12.29.21

अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् ।
भवता वचनं ब्रह्मंस्तस्मादेष शपाम्यहम् ॥

12.29.22

न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा ।
सुकुमार्यां कुमार्यां ते तस्मान्नैष क्षमाम्यहम् ॥

12.29.23

ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् ।
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ॥

12.29.24

शप्स्ये तस्मात्सुसन्क्रुद्धो भवन्तं तं निबोध मे ॥

12.29.25

सुकुमारी च ते भार्या भविष्यति न संशयः । वानरत्वं च ते कन्या विवाहात्प्रभृति प्रभो ।
सन्द्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ॥

12.29.26

स तद्वाक्यं तु विज्ञाय नारदः पर्वतं तथा ।
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ॥

12.29.27

तपसा ब्रह्मचर्येण सत्येन च दमेन च ।
युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि ॥

12.29.28

तौ तु शावा भृशं क्रुद्धौ परस्परममर्षणौ ।
प्रतिजग्मतुहृन्योन्यं क्रुद्धाविव गजोत्तमौ ॥

12.29.29

पर्वतः पृथिवीं कृत्स्नां विचचार महामतिः ।
पूज्यमानो यथान्यांयं तेजसा स्वेन भारत ॥

12.29.30

अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् ।
धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम् ॥

12.29.31

सा तु कन्या यथाशापं नारदं तं ददर्श ह ।
पाणिग्रहणमन्त्राणां नियोगादेव नारदम् ॥

12.29.32

सुकुमारी च देवर्षि वानरप्रतिमाननम् ।
नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ॥

12.29.33

उपतस्थे च भर्तारं न चान्यं मनसाऽप्यगात् ।
देवं मुनीं वा यक्षं वा पतित्वे पतिवत्सला ॥

12.29.34

ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह ।
वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् ॥

12.29.35

ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा ।
भवान्प्रसादं कुरुतात्स्वर्गादेशाय ये प्रभो ॥

12.29.36

तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तथा ।
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ॥

12.29.37

त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि ।
इत्युक्तेन मया पश्चाच्छप्तस्तवमपि मत्सरात् ॥

12.29.38

अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ।
तव नैतद्विसदृशं पुत्रस्थाने हि मे भवान् ॥

12.29.39

निवर्तयेतां तौ शापावन्योन्येन तदा मुनी ॥

12.29.40

श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् ।
सुकुमारी प्रदुद्राव परपुंसविशङ्कया ॥

12.29.41

तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् ।
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥

12.29.42

ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः ।
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ॥

12.29.43

सानुनीता बहुविधं पर्वतेन महात्मना । शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता ।
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान् ॥
वासुदेव उवाच ।

12.29.44

प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः ।
एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc