भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.28

12.28.1

अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे ।
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥
अर्जुन उवाच ।

12.28.2

ज्ञातिशोकाभिसन्तप्तो धर्मपुत्रः परन्तपः ।
एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥

12.28.3

सर्वे स्म ते संशयिताः पुनरेव जनार्दन ।
अस्य शोकं महाप्राज्ञ प्रणाशयितुमर्हसि ॥
वैशम्पायन उवाच ।

12.28.4

एवमुक्तस्तु गोविन्दो विजयेन महात्मना ।
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥

12.28.5

अनतिक्रमणीयो हि धर्मराजस्य केशवः ।
बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोर्जुनात् ॥

12.28.6

सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् ।
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥

12.28.7

शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् ।
व्याकोचमिव विस्पष्टं पझं सूर्यविबोधितम् ॥
वासुदेव उवाच ।

12.28.8

मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् ।
न हि ते सुलभा भूयो ये हताऽस्मिन्रणाजिरे ॥

12.28.9

स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने ।
तथा ते क्षत्रिया राजन्ये व्यतीता महारणे ॥

12.28.10

सर्वे ह्यभिमुखाः शूरा निहता रणशोभिनः ।
नैषां कश्चित्पृष्ठतो वा पलायन्वा निपातितः ॥

12.28.11

सर्वे त्यक्त्वाऽत्मनः प्राणान्युद्ध्वा वीरा महामृधे ।
शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि ॥

12.28.12

क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः । प्राप्ता वीरगतिं पुण्यां तान्न शोचितुमर्हसि ।
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् ॥

12.28.13

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृञ्जयं पुत्रशोकार्तं यथाऽयं नारदोऽब्रवीत् ॥
नारद उवाच ।

12.28.14

सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय ।
अविमुक्ता मरिष्यामस्तत्र का परिदेवना ॥

12.28.15

महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु ।
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥

12.28.16

मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् । शममानय सन्तापं शृणु विस्तरशश्च मे ।
क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम् ॥

12.28.17

अग्रिमाणां क्षितिभुजामुदारं च मनोहरम् ।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥

12.28.18

यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ।
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥

12.28.19

यः स्पर्धामानयच्छक्रं देवराजं पुरन्दरम् ।
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ॥

12.28.20

संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥

12.28.21

यस्मिन्प्रशासति महीं नृपतौ राजसत्तम ।
अकृष्टपच्या पृथिवी विबभौ सस्यमालिनी ॥

12.28.22

आविक्षितस्य वै सत्रे विश्वेदेवाः सभासदः ।
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥

12.28.23

मरुद्गण मरुत्तस्य यत्सोममपिबंस्ततः ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥

12.28.24

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.25

सुहोत्रं च द्वतिथिनं मृतं सृञ्जय शुश्रुम ।
यस्मे हिरण्यं ववृषे मघवा परिवत्सरम् ॥

12.28.26

सत्यनामा वसुमती यं प्राप्यासीञ्जनाधिपम् ।
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥

12.28.27

मत्स्यान्कर्कटकान्नक्रान्मकराञ्छिंशुकानपि ।
नदीष्ववासृजद्राजन्मघवा लोकपूजितः ॥

12.28.28

हैरण्यान्पातितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् ।
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ॥

12.28.29

तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समार्पयत् ॥

12.28.30

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।
अदक्षिणमयज्वानं श्वैत्य संशाम्य माशुचः ॥

12.28.31

अङ्गं बृहद्रथं चैव मृतं सृञ्जय शुश्रुम ।
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजात् ॥

12.28.32

सहस्रं च सहस्राणां कन्या हमपरिष्कृताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥

12.28.33

यः सहस्रं सहस्राणां गजानां पझमालिनाम् ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥

12.28.34

शतं शतसहस्राणि वृषाणां हेममालिनाम् ।
गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥

12.28.35

अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥

12.28.36

यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुरा ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥

12.28.37

न जातो जनिता नान्यः पुमान्यः सम्प्रदास्यति ।
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥

12.28.38

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.39

शिबिमौशीनरं चैव मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टयत् ॥

12.28.40

महता रथघोषेण पृथिवीमनुनादयन् ।
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥

12.28.41

यावदस्य गवाश्वं स्यादारण्यैः पशुभिः सह ।
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥

12.28.42

न वोढारं धुरं तस्य कञ्चिन्मेने प्रजापतिः । न भूतं न भविष्यं च सर्वराजसु सृञ्जय ।
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥

12.28.43

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.44

अदक्षिणमयज्वानं पुत्रं संस्मृत्य मा शुचः ॥

12.28.45

भरतं चैव दौष्यन्तिं मृतं सृञ्जय शुश्रुम ।
शाकुन्तलं महात्मानं भूरिद्रविणतेजसम् ॥

12.28.46

योऽबध्नात्रिशतं चाश्वान्देवेभ्यो यमुनामनु ।
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥

12.28.47

अश्वमेधसहस्रेण राजसूयशतेन च ।
इष्टवान्स महातेजा दौष्यन्तिर्भरतः पुरा ॥

12.28.48

भरतस्य महत्कर्म सवराजसु पार्थिवाः ।
स्वं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥

12.28.49

परं सहस्राद्योऽबध्नाद्धयान्वेदीर्वितत्य च ।
सहस्रं यत्र पझानां कण्वाय भरतो ददौ ॥

12.28.50

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.51

रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम ।
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥

12.28.52

नाधनो यस्य विषये नानर्थः कस्यचिद्भवेत् ।
सर्वस्यासीत्पितृसमो रामो राज्यं यदन्वशात् ॥

12.28.53

कालवर्षी च पर्जन्यः सस्यानि समपादयत् ।
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥

12.28.54

प्राणिनो नाप्सु मञ्जन्ति नानर्थे पावकोऽदहत् ।
न व्यालतो भयं चासीद्रामे राज्यं प्रशासति ॥

12.28.55

आसन्वर्षसहस्रिण्यस्तथा वर्षसहस्रकाः ।
अरोगाः सर्वसिद्धार्था रामे राज्यं प्रशासति ॥

12.28.56

नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् ।
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥

12.28.57

सन्तुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः ।
नराः सत्यव्रताश्चासन्रामे राज्यं प्रशासति ॥

12.28.58

नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः ।
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥

12.28.59

स चतुर्दश वर्षाणि वने प्रोष्य महातपाः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥

12.28.60

युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥

12.28.61

दशवर्षसहस्राणि दशवर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥

12.28.62

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः ॥

12.28.63

भगीरथं च राजानं मृतं सृञ्जय शुश्रुम् ।
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥

12.28.64

असुराणां सहस्राणि बहूनि सुरसत्तमः ।
अजयद्वाहुवीर्येण भगवान्पाकशासनः ॥

12.28.65

यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥

12.28.66

सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
शतंशतं रथे नागाः पझिनो हेममालिनः ॥

12.28.67

सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः ।
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥

12.28.68

उपह्वरे निवसतो यस्याङ्के निषसाद ह ।
गङ्गा भागीरथी तस्मादुर्वशी चाभवत्पुरा ॥

12.28.69

भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् ।
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥

12.28.70

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.71

दिलीपं च महात्मानं मृतं सृञ्जय शुश्रुम ।
प्रस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥

12.28.72

य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः ।
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥

12.28.73

यस्येह यजमानस्य यज्ञेयज्ञे पुरोहितः ।
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥

12.28.74

यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः ।
ते देवां कर्म कुर्वाणाः शक्रज्येष्ठा उपासत ॥

12.28.75

चषाले यस्य सौवर्णे तस्मिन्यूपे हिरण्मये ।
ननृतुर्देवगन्धर्वाः षट््सहस्राणि सप्तधा ॥

12.28.76

अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् ।
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥

12.28.77

एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे ।
यस्येभा हेमसञ्छन्नाः पथि मत्ताः स्म शेरते ॥

12.28.78

राजानं शतधन्वानं दिलीपं सत्यवादिनम् ।
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥

12.28.79

त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने ।
स्वाध्यायशब्दः ज्याशब्दः शब्दो वै दीयतामिति ॥

12.28.80

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.81

मान्धातारं यौवनाश्वं मृतं सृञ्जय शुश्रुम ।
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥

12.28.82

समृद्धो युवनाश्वस्य जठरे यो महात्मनः ।
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥

12.28.83

यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् ।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥

12.28.84

मामेव धास्यतीत्येवमिन्द्रोऽथाभ्युपपद्यत ।
मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः ॥

12.28.85

ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः ।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥

12.28.86

तं पिवन्पाणिमिन्द्रस्य शतमह्ना व्यवर्धत ।
स आसीद्द्वादशसमो द्वादशाहेन पार्थिवः ॥

12.28.87

तमिमं पृथिवी सर्वा एकाह्ना समपद्यत ।
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥

12.28.88

यश्चाङ्गारं तु नृपतिं मरुत्तमसितं गयम् ।
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥

12.28.89

यौवनाश्वो यदाङ्गारं समरे प्रत्ययुध्यत ।
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥

12.28.90

यत्र सूर्य उदेति स्म यत्र च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥

12.28.91

अश्वमेधशतेनेष्ट्वा राजसूयशतेन च ।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते ॥

12.28.92

हैरण्यान्यो जनोत्सेधानायतान्दशयोजनम् ।
अतिरिक्तान्द्विजातिभ्यो व्यभजंस्त्वितरे जनाः ॥

12.28.93

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.94

ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं कृत्स्नां विजित्य सहसागराम् ॥

12.28.95

शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्महीम् ।
ईजानः क्रतुभिर्मुख्यैः पर्यगच्छद्वसुन्धराम् ॥

12.28.96

इष्ट्वा क्रतुसहस्रेण वाजपेयशतेन च ।
तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः ॥

12.28.97

व्यूढेनासुरयुद्धेन हत्वा दैतेयदानवान् ।
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥

12.28.98

अन्त्येषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् ।
पुरुं राज्येऽभिषिच्याथ सदारः प्राविशद्वनम् ॥

12.28.99

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.100

अम्बरीषं च नाभागं मृतं सृञ्जय शुश्रुम ।
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम् ॥

12.28.101

यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम् ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यस्त्वमन्यत ॥

12.28.102

नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।
इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः ॥

12.28.103

शतं राजसहस्राणि शतं राजशतानि च ।
सर्वेऽश्वमेधैरीजानास्तेऽन्वयुर्दक्षिणायनम् ॥

12.28.104

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.105

शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय ।
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥

12.28.106

सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवाः ।
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥

12.28.107

शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः ।
कन्यान्कन्यां शतं नागा नागन्नागं शतं रथाः ॥

12.28.108

रथेरथे शतं चाश्वा देशजा हेममालिनः ।
अश्वेअश्वे शतं गावो गान्गां तद्वदजाविकम् ॥

12.28.109

एतद्धनमपर्यन्तमश्वमेधे महामखे ।
शशबिन्दुर्महाराज ब्राह्मणेभ्यो ह्यमन्यत ॥

12.28.110

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.111

गयं चाधूर्तरजसं मृतं शुश्रुम सृञ्जय ।
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥

12.28.112

यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः ।
ददतो मे क्षयो मा भूद्धर्मे श्रद्धा च वर्धताम् ॥

12.28.113

मनो मे रभतां सत्ये त्वत्प्रसादाद्धुताशन ।
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥

12.28.114

दर्शेन पूर्णमासेन चातुर्मास्यैः पुनः पुनः ।
अयजद्धयमेधेन सहस्रं परिवत्सरान् ॥

12.28.115

शतं गवां सहस्राणि शतमश्वशतानि च ।
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥

12.28.116

तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि ।
पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥

12.28.117

सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् ।
दक्षिणामददद्राजा वाजिमेधे महाक्रतौ ॥

12.28.118

यावत्यः सिकता राजन्गङ्गायां पुरुषर्षभ ।
तावतीरेव गाः प्रादादाधूर्तरजसो गयः ॥

12.28.119

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.120

रन्तिदेवं च सान्कृत्यं मृतं सृञ्जय शुश्रुम ।
सम्यगाराध्य यः शक्राद्वरं लेभे महातपाः ॥

12.28.121

अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन ॥

12.28.122

उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् ।
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥

12.28.123

महानदी चर्मराशेरुत्क्लेदात्ससृजे यतः ।
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥

12.28.124

ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः ।
तुभ्यन्तुभ्यं निष्कमिति यदा क्रोशन्ति वै द्विजाः ॥

12.28.125

सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्सम्प्रपद्य ते ॥

12.28.126

अन्वाहार्योपकरणं द्रव्योपकरणं च यत् । घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च ।
नासीत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ॥

12.28.127

सान्कृते रन्तिदेवस्य यां रात्रिमवसन्गृहे ।
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥

12.28.128

तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ।
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥

12.28.129

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.130

सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ।
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥

12.28.131

षष्टिः पुत्रसहस्राणि यं यान्तमनुजग्मिरे ।
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥

12.28.132

एकच्छत्रा मही यस्य प्रतापादभवत्पुरा ।
योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥

12.28.133

यः प्रादात्कनकस्तम्भं प्रासादं सर्वकाञ्चनम् ।
पूर्णं पझदलाक्षीणां स्त्रीणां शयनसन्कुलम् ॥

12.28.134

द्विजातिभ्योऽनुरूपेभ्यः कामांश्च विविधान्बहून् ।
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥

12.28.135

खानयामास यः कोपात्पृथिवीं सागराङ्किताम् ।
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥

12.28.136

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.137

राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय ।
यमभ्यषिञ्चन्सम्भूयः महारण्ये महर्षयः ॥

12.28.138

प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः ।
क्षताद्यो वै त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥

12.28.139

पृथुं वैन्यं प्रजा दृष्ट्वा रक्तास्मेति यदब्रुवन् ।
ततो राजेति नामास्य अनुरागादजायत ॥

12.28.140

अकृष्टपच्या पृथिवी पुटकेपुटके मधु ।
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ॥

12.28.141

अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः ।
यथाऽभिकाममवसन्क्षेत्रेषु च गृहेषु च ॥

12.28.142

आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
शैलाश्चापाद्व्यदीर्यन्त ध्वजभङ्गश्च नाभवत् ॥

12.28.143

हैरण्यांस्त्रिनरोत्सेधान्पर्वतानेकविंशतिम् ।
ब्राह्मणेभ्यो ददौ राजा योश्वमेधे महामखे ॥

12.28.144

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥

12.28.145

किं वा तूष्णीं ध्यायसे सृञ्जय त्वं न मे राजन्वाचिममां शृणोपि ।
न चेन्मोघं विप्रलप्तं ममेदं पथ्यं मुमूर्षोरिव सुप्रयुक्तम् ॥
सृञ्जय उवाच ।

12.28.146

शृणोमि ते नारद वाचमेनां विचित्रार्थां स्रजमिव पुण्यगन्धाम् ।
राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तानां शोकनिर्नाशनार्थाम् ॥

12.28.147

न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैवाहं नारद त्वां विशोकः ।
शुश्रूषे ते वचनं ब्रह्मवादि न्न ते तृप्याम्यमृतस्येव पानात् ॥

12.28.148

अमोघदर्शिन्मम चेत्प्रसादं सन्तापदग्धस्य विभो प्रकुर्याः ।
सुतस्य सञ्जीवनमद्य मे स्या त्तव प्रसादात्सुतसङ्गमाप्नुयाम् ॥
नारद उवाच ।

12.28.149

यस्ते पुत्रः शयितोयं विजातः स्वर्णष्ठीवी यमदात्पर्वतस्ते ।

12.28.149

पुनस्तं ते पुत्रमहं ददामि हिरण्यनाभं वर्षसबस्रिणं च ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc