भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.281

12.281.1

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं देवलस्यासितस्य च ॥

12.281.2

आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरम् ।
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम् ॥
नारद उवाच ।

12.281.3

कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे ॥
असित उवाच ।

12.281.4

येभ्यः सृजति भूतानि कालो भावप्रचोदितः ।
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः ॥

12.281.5

तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः ।
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम् ॥

12.281.6

विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान् ।
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः ॥

12.281.7

आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ ।
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम् ॥

12.281.8

नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम् ।
वेत्थैतानभिनिर्वृत्तान्षडेते यस्य राशयः ॥

12.281.9

पञ्चैव तानि कालश्च भावाभावौ च केवलौ ।
अष्टौ भूतानि भूतानां शाश्वतानि भवाव्ययौ ॥

12.281.10

अभावभावितेष्वेव तेभ्यश्च प्रभवन्त्यपि ।
विनष्टोऽप्यनुतान्येव जन्तुर्भवति पञ्चधा ॥

12.281.11

तस्य भूमिमयो देहः श्रोत्रमाकाशसम्भवम् ।
सूर्याच्चक्षुरसुर्वायोरद्भ्यस्तु खलु शोणितम् ॥

12.281.12

चक्षुषी नासिकाकर्णौ त्वक् जिह्वेति च प़ञ्चमी ।
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः ॥

12.281.13

दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा ।
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु धातुषु ॥

12.281.14

रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः ।
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः ॥

12.281.15

रूपं गन्धं रसं स्पर्शं शब्दं चैवाथ तद्गुणान् ।
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते ॥

12.281.16

चित्तमिन्द्रियसन्घातात्परं तस्मात्परं मनः ।
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः ॥

12.281.17

पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक् । विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति ।
इन्द्रियैरुपसृष्टार्थान्मत्वा यस्त्वध्यवस्यति ॥

12.281.18

चित्तमिन्द्रियसन्घातं मनो बुद्धिस्तथाऽष्टमी ।
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः ॥

12.281.19

पाणिं पादं च पायुं च मेहनं पञ्चमं मुखम् ।
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि ॥

12.281.20

जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते ।
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ ॥

12.281.21

पायूपस्थं विसर्गार्थमिन्द्रिये तुल्यकर्मणी ।
विसर्गे च पुरीषस्य विसर्गे चापि कामिके ॥

12.281.22

मनः षष्ठान्यथैतानि वाचा सम्यग्यथागमम् ।
ज्ञानचेष्टेन्द्रियगुणाः सर्वेषां शब्दिता मया ॥

12.281.23

इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा ।
भवतीन्द्रियसन्न्यासादथ स्वपिति वै नरः ॥

12.281.24

इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि ।
सेवते विषयानेव तं विद्यात्स्वप्नदर्शनम् ॥

12.281.25

सात्विकाश्चैव ये भावास्तथा राजसतामसाः ।
कर्मयुक्ताः प्रशंसन्ति सात्विकान्नेतरांस्तथा ॥

12.281.26

आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः ।
सात्विकस्य निमित्तानि भावान्संश्रयसे स्मृतिः ॥

12.281.27

जन्तुष्वेकतमेष्वेवं भावं यो वा समास्थितः ।
भावयोरीप्सितं नित्यं प्रत्यक्षं गमनं द्वयोः ॥

12.281.28

इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः ।
तेषामष्टादशो देही यः शरीरे स शाश्वतः ॥

12.281.29

अथवा सशरीरास्ते गुणाः सर्वे शरीरिणाम् ।
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते ॥

12.281.30

अथवा संविभागेन शरीरं पाञ्चभौतिकम् । एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम् ।
ऊष्मणा सह विशो वा सन्घातः पाञ्चभौतिकः ॥

12.281.31

महान्सन्धारयत्येतच्छरीरं वायुना सह ।
सत्यप्रभावयुक्तस्य निमित्तं देहभेदने ॥

12.281.32

तथैवोत्पद्यते किञ्चित्पञ्चत्वं गच्छते तथा । पुण्यपापविनाशान्ते पुण्यपापसमीरितः ।
देहं विशति कालेन ततोऽयं कर्मसम्भवम् ॥

12.281.33

हित्वाहित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः ।
कालसञ्चोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम् ॥

12.281.34

तं तु नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः ।
कृपणास्त्वनुतप्यन्ते जनाः सम्बन्धिमानिनः ॥

12.281.35

न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते ।
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखकृत् ॥

12.281.36

नैव सञ्जायते जन्तुर्न च जातु विपद्यते ।
याति देहमयं मुक्त्वा कदाचित्परमां गतिम् ॥

12.281.37

पुण्यपापमयं देहं क्षपयन्कर्मसन्क्षयात् ।
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति ॥

12.281.38

पुण्यपापक्षयार्थं हि साङ्ख्यज्ञानं विधीयते ।
तत्क्षये हृदि पश्यन्ति ब्रह्मभावे परां गतिम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc