भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.280

12.280.1

मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत ॥
भीष्म उवाच ।

12.280.2

त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् ।
यदुपायेन सर्वार्थं नित्यं मृगयसेऽनघ ॥

12.280.3

करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता ।
एवं धर्माभ्यपायेषु नान्यद्धर्मेषु कारणम् ॥

12.280.4

पूर्वे समुद्रे यः पन्थाः स न गच्छति पश्चिमम् ।
एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु ॥

12.280.5

क्षमया क्रोधमुच्छिन्द्यात्कामं सन्कल्पवर्जनात् ।
सत्वसंसेवानद्धीरो निद्रामुच्छेत्तुमर्हति ॥

12.280.6

अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् ।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥

12.280.7

भ्रमं सम्मोहमावर्तमभ्यासाद्विनिवर्तयेत् ।
निद्रां चाप्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ॥

12.280.8

उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् ।
लोभं मोहं च सन्तोषाद्विषयांस्तत्त्वदर्शनात् ॥

12.280.9

अनुक्रोशादधर्मं च जयेद्धर्ममवेक्षया ।
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात् ॥

12.280.10

अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ।
कारुण्येनात्मनो मानं तृष्णां च परितोषतः ॥

12.280.11

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् ।
मौनेन बहुभाषां च शौर्येण च भयं जयेत् ॥

12.280.12

यच्छेद्वाङ्भनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ।
ज्ञानमात्मा महान्यच्छेत्तं यच्छेज्ज्ञानमात्मनः ॥

12.280.13

तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिद्यात्पञ्च यान्कवयो विदुः ॥

12.280.14

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ।
परित्यज्य निषेवेत तथेमान्योगसाधनान् ॥

12.280.15

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः ॥

12.280.16

एतैर्विवर्धते तेजः पाप्मानमपहन्ति च ।
सिध्यन्ति चास्य सन्कल्पा विज्ञानं च प्रवर्तते ॥

12.280.17

धूतपापः स तेजस्वी लध्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम् ॥

12.280.18

अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ।
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः ॥

12.280.19

एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ।
तथा वाक्कायमनसां नियमः कामतोऽन्यथा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc