भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.272

12.272.1

कथं कार्यं परीक्षेत शीघ्रं वाऽथ चिरेण वा ।
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः ॥
भीष्म उवाच ।

12.272.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसां कुले ॥

12.272.3

गौतमस्य सुता ह्यासन्वीयांश्चिरकारिकः । चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।
चिरकारी हि मेधावी नापराध्यति कर्मसु ॥

12.272.4

चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः ।
चिरेण सर्वकार्याणि विमृश्यार्थान्प्रपद्यते ॥

12.272.5

चिरं स चिन्तयत्यर्थांश्चिरं जाग्रच्चिरं स्वपन् ।
चिरं कार्याभिषत्तिं च चिरकारी तथोच्यते ॥

12.272.6

अलसग्रहणं प्राप्तो दुर्मेधावीति चोच्यते ।
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥

12.272.7

व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् ।
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥

12.272.8

इत्युक्त्वा स तदा विप्रो गौतमो जपतां वरः ।
अविमृश्य महाभागो वनमेव जगाम सः ॥

12.272.9

स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः ।
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम् ॥

12.272.10

पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् ।
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ॥

12.272.11

पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम् ।
अस्वतन्त्रं च पुत्रत्वं किन्तु मां नानुपीडयेत् ॥

12.272.12

स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत् ।
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥

12.272.13

अनवज्ञा पितुर्युक्ता स्वधर्मो मातृरक्षणम् ।
युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम् ॥

12.272.14

पिता ह्यात्मानमाधत्ते जायायां जायतामिति ।
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥

12.272.15

सोऽहं मात्रा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः ।
विज्ञानं मे कथं न स्याद्द्वौ बुद्ध्ये चात्मसम्भवम् ॥

12.272.16

जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ।
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये ॥

12.272.17

गुरुरग्र्यः परो धर्मः पोषणाध्यापनान्वितः ।
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः ॥

12.272.18

प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता ।
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति ॥

12.272.19

तस्मात्पितुर्वचः कार्यं न विचार्यं कदाचन ।
पातकान्यपि पूयन्ते पितुःर शासनकारिणः ॥

12.272.20

भाग्यभोगे प्रसवने सर्वलोकनिदर्शने ।
धात्र्याश्चैव समायोगे सीमन्तोन्नयने तथा ॥

12.272.21

पिता धर्मः पिता स्वर्गः पिता हि परमं तपः ।
पितरि प्रीतिमापन्ने सर्वाः प्रीणन्ति देवताः ॥

12.272.22

आशिषस्ता भजन्त्यनं पुरुषं प्राह यत्पिता ।
निष्कृतिः सर्वपापानां पिता यच्चाभिनन्दति ॥

12.272.23

मुच्यते बन्धनात्पुरुषं फलं वृक्षान्प्रमुच्यते ।
क्लिश्यन्नपि सुतस्नेहैः पिता पुत्रं न मुञ्चति ॥

12.272.24

एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम् ।
पिता नाल्पतरं स्थानं चिन्तयिष्यामि मातरम् ॥

12.272.25

यो ह्ययं मयि सन्घातो मर्त्यत्वे पाञ्चभौतिकः ।
अस्य मे जननी हेतुः पावकस्य यथाऽरणिः ॥

12.272.26

माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः ।
मातृलाभे सनाथत्वमनाथत्वं विपर्यये ॥

12.272.27

न च शोचति नाप्येनं स्थाविर्यमपकर्षति ।
श्रिया हीनोऽपि यो गेहमम्बेति प्रतिपद्यते ॥

12.272.28

पुत्रपौत्रोपपन्नोपि जननीं यः समाश्रितः ।
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत् ॥

12.272.29

समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा ।
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः ॥

12.272.30

तदा स वृद्धो भवति तदा भवति दुःखितः ।
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ॥

12.272.31

नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः ।
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रिया ॥

12.272.32

कुक्षौ सन्धारणाद्धात्री जननाज्जननी स्मृता ।
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः ॥

12.272.33

शिशोः शुश्रूषणाच्छुश्रूर्माता देहमनन्तरम् ।
चेतनावान्स को हन्याद्यस्य नासुषिरं शिरः ॥

12.272.34

दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल ।
तं माता च पिता चेति भूतार्थो मातरि स्थितः ॥

12.272.35

माता जानाति यद्गोत्रं माता जानाति यस्य सः ।
मातुर्भरणमात्रेण प्रीतिः स्नेहः पितुः प्रजाः ॥

12.272.36

पाणिबन्धं स्वयं कृत्वा सहधर्ममुपेत्य च ।
यदा यास्यन्ति पुरुषाः स्त्रियो नार्हन्ति याप्यतां ॥

12.272.37

भरणाद्धि स्त्रियो भर्ता पालनाद्धि पतिस्तथा ।
गुणस्यास्य निवृत्तौ तु न भर्ता न पुनः पतिः ॥

12.272.38

एवं स्त्री नापराघ्नोति नर एवापराध्यति ।
व्युच्चरंश्च महादोषं नर एवापराध्यति ॥

12.272.39

स्त्रिया हि परमो भर्ता दैवतं परमं स्मृतम् ।
तस्मात्मना तु सदृशमात्मानं परमं ददौ ॥

12.272.40

नापराधोऽस्ति नारीणां नर एवापराध्यति ।
सर्वकार्यापराध्यत्वान्नापराध्यन्ति चाङ्गनाः ॥

12.272.41

यश्चनोक्तोऽथ निर्देशः स्त्रिया मैथुनवृद्धये ।
तस्य स्मारयतो व्यक्तमधर्मो नास्ति संशयः ॥

12.272.42

एवं नारीं मातरं च गौरवे चाधिके स्थिताम् ।
अवध्यां तु विजानीयुः पशवोऽप्यविचक्षणाः ॥

12.272.43

देवतानां समावायमेकस्थं पितरं विदुः ।
मर्त्यानां देवतानां च स्नेहादभ्येति मातरम् ॥

12.272.44

एवं विमृशतस्तस्य विरकारितया बहु ।
दीर्घः कालो व्यतिक्रान्तस्ततोस्याभ्यागमत्पिता ॥

12.272.45

मेधातिथिर्महाप्राज्ञो गौतमस्तपसि स्थितः ।
विमृश्य तेन कालेन पत्न्याः संस्थाव्यतिक्रमम् ॥

12.272.46

सोऽब्रवीद्भृशसन्तप्तो दुःखेनाश्रूणि वर्तयन् ।
श्रुतधैर्यप्रसादेन पश्चात्तापमुपागतः ॥

12.272.47

आश्रमं मम सम्प्राप्तस्त्रिलोकेशः पुरन्दरः ।
अतिथिव्रतमास्थाय ब्राह्मण्यं रूपमास्थितः ॥

12.272.48

स मया सान्त्वितो वाग्भिः स्वागतेनाभिषूजितः ।
अर्ध्यं पाद्यं यथान्यायं मया च प्रतिपादितः ॥

12.272.49

परवानस्मि चेत्युक्तः प्रणयिष्यति तेन च ।
अत्र चाकुशले जाते स्त्रिया नास्ति व्यतिक्रमः ॥

12.272.50

एवं न स्त्री न चैवाहं नाध्वगस्त्रिदशेश्वरः ।
अपराध्यति धर्मस्य प्रमादस्त्वपराध्यति ॥

12.272.51

ईर्ष्याजं व्यसनं प्राहुस्तेन चैवोर्ध्वरेतसः ।
ईर्ष्यया त्वहमाक्षिप्तो मग्नो दुष्कृतसागरे ॥

12.272.52

हत्वा साध्वीं च नारीं च व्यसनित्वाच्च वासिताम् ।
भर्तव्यत्वेन भार्यां च को नु मां तारयिष्यति ॥

12.272.53

अन्तरेण मयाऽज्ञप्तश्चिरकारीत्युदारधीः ।
यद्यद्य चिरकारी स्यात्स मां त्रायेत पातकात् ॥

12.272.54

चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।
यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥

12.272.55

त्राहि मां मातरं चैव तपो यच्चार्जितं त्वया ।
आत्मानं पातकेभ्यश्च भवाद्य चिरकारिकः ॥

12.272.56

सहजं चिरकारित्वमतिप्रज्ञतया तव ।
सफलं तत्तथा तेऽस्तु भवाद्य चिरकारिकः ॥

12.272.57

चिरमांशसितो मात्रा चिरं गर्भेण धारितः ।
सफलं चिकारित्वं कुरु त्वं चिरकारिक ॥

12.272.58

चिरायते च सन्तापाच्चिरं स्वपिति धारितः ।
आवयोश्चिरसन्तापादवेक्ष्य चिरकारिक ॥
भीष्म उवाच ।

12.272.59

एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा ।
चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥

12.272.60

चिरकारी तु पितरं दृष्ट्वा परमदुःखितः ।
शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥

12.272.61

गौतमस्तं ततो दृष्ट्वा शिरसा पतितं भुवि ।
पत्नीं चैव निराकारां परामभ्यागमन्मुदम् ॥

12.272.62

न हि सा तेन सम्भेदं पत्नी नीता महात्मना ।
विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥

12.272.63

हन्या इति समादेशः शस्त्रपाणौ सुते स्थिते ।
विनीते प्रसवत्यर्थे विवासे चात्मकर्मसु ॥

12.272.64

बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ।
शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥

12.272.65

ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि ।
चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥

12.272.66

एवं स गौतमः पुत्रं प्रीतिहर्षगुणैर्युतः ।
अभिनन्द्य महाप्रज्ञ इदं वचनमब्रवीत् ॥

12.272.67

चिरकारिक भद्रं ते चिरकारी चिरं भव ।
चिराय यदि ते सौम्य चिरमस्मि न दुःखितः ॥

12.272.68

गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः ।
चिरकारिषु धीरेषु गुणोद्देशसमाश्रयाः ॥

12.272.69

चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् ।
चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥

12.272.70

रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।
अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥

12.272.71

बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ।
अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥

12.272.72

एवं स गौतमस्तत्र प्रीतः पुत्रस्य भारत ।
कर्मणा तेन कौरव्य चिरकारितया तथा ॥

12.272.73

एवं सर्वेषु कार्येषु विमृश्य पुरुषस्ततः ।
चिरेण निश्चयं कृत्वा चिरं न परितप्यते ॥

12.272.74

चिरं धारयते रोषं चिरं कर्म नियच्छति ।
पश्चात्तापकरं कर्म न किञ्चिदुपपद्यते ॥

12.272.75

चिरं वृद्धानुपासीत चिरमन्यांश्च पूजयेत् ।
चिरं धर्मं निषेवेत कुर्याच्चान्वेषणं चिरम् ॥

12.272.76

चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च ।
चिरं विनीय चात्मानं चिरं चात्यनवज्ञताम् ॥

12.272.77

ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् ।
चिरं पृष्टोऽपि च ब्रूयाच्चिरं न परितप्यते ॥

12.272.78

उपास्य बहुलास्तस्मिन्नाश्रमो सुमहातपाः ।
समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc