भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.271

12.271.1

शरीरमापदश्चैव न विदन्त्यविहिंसकाः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥
भीष्म उवाच ।

12.271.2

यथा शरीरं न म्लायेन्नैव मृत्युवशं भवेत् । तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥

12.271.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्युना ॥

12.271.4

छिन्नस्थूणं वृपं दृष्ट्वा विरावं च गवां भृशम् ।
गोगृहे यज्ञवाटे च प्रेक्षमाणः स पार्थिवः ॥

12.271.5

स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम् ।
हिंसायां हि प्रवृत्तायामाशीरेषा तु कल्पिता ॥

12.271.6

अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः ।
संशयात्मभिरव्यक्तैर्हिंसा समनुदर्शिता ॥

12.271.7

सर्वकर्मग्वहिंसां हि धर्मात्मा मनुरब्रवीत् ।
कामकाराद्विहिंसन्ति बहिर्वेद्यां पशून्नराः ॥

12.271.8

तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता ।
अहिंसा ह्येव सर्वेभ्यो धर्मेभ्यो ज्यायसी मता ॥

12.271.9

उपोष्य संशितो भूत्वा हित्वा वेदकृतां शुचिः ।
आचार इत्यनाचारः कृपणाः फलहेतवः ॥

12.271.10

यदि च्छिन्दन्ति वृक्षांश्च यूपांश्चोद्दिश्य मानवाः ।
वृथा मांसानि खादन्ति नैप धर्मः प्रशस्यते ॥

12.271.11

सुरां मत्स्यान्मधु मांसमासवं कृसरौदनम् । धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम् ।
कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् ॥

12.271.12

विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः ।
पायसैः सुमनोभिश्च तस्यैव यजनं स्मृतम् ॥

12.271.13

यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः । यच्चापि किञ्चित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम् ।
महासत्वैः शुद्धभावैः सर्वं देवार्हमेव तत् ॥
युधिष्ठिर उवाच ।

12.271.14

शरीरमापदश्चापि विवदन्त्यविहंसतः ।
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यते ॥
भीष्म उवाच ।

12.271.15

यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा ।
तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc