भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.264

12.264.1

विनीय दुःखमबला साऽत्मनैवायतेक्षणा ।
उवाच प्राञ्जलिर्भूत्वा तमेवावर्जिता तदा ॥

12.264.2

त्वया सृष्टा कथं नारी मादृशी वदतां वर ।
रौद्रकर्माभिजायेत सर्वप्राणिभयन्करी ॥

12.264.3

विभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे ।
त्वं मां भीतामवेक्षस्व शिवेनेश्वरचक्षुषा ॥

12.264.4

बालान्वृद्धान्वयस्थांश्च न हरेयमनागसः ।
प्राणिनः प्राणिनामीश नमस्तेऽस्तु प्रसीद मे ॥

12.264.5

प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितृनपि ।
अपध्यास्यन्ति यद्येवं मृतास्तेभ्यो विभेम्यहम् ॥

12.264.6

कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः ।
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता ॥

12.264.7

यमस्य भवने देव पात्यन्ते पापकर्मिणः ।
प्रसादये त्वां वरद प्रसादं कुरु मे प्रभो ॥

12.264.8

एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह ।
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं महेश्वर ॥
पितामह उवाच ।

12.264.9

त्वं हिं संहारबुद्ध्या मे चिन्तिता रुषितेन च ।
तस्मात्संहर सर्वास्त्वं प्रजा मा च विचारय ॥

12.264.10

एतदेवमवश्यं हि भविता नैतदन्यथा ।
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे ॥

12.264.11

एवमुक्ता महाबाहो मृत्युः परपुरञ्जय ।
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी ॥

12.264.12

पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी ।
तूष्णीमासीत्ततो देवो लोकानामीश्वरेश्वरः ॥

12.264.13

प्रससाद किल ब्रह्मा स्वयमेवात्मनाऽत्मनि ।
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत ॥

12.264.14

निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्याऽथ जगामास्य समीपादिति नःश्रुतम् ॥

12.264.15

अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्यगात् ॥

12.264.16

सा तत्र परमं देवी तपोऽचरत दुश्चरम् ।
समा ह्येकपदे तस्थौ दशपद्मानि पञ्च च ॥

12.264.17

तां तथा कुर्वतीं तत्र तपः परमदुश्चरम् ।
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत् ॥

12.264.18

कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा ।
तथैवैकपदे तात पुनरन्यानि सप्त सा ॥

12.264.19

तस्थौ पद्मानि षट् चैव पञ्च द्वे चैव मानद ।
भूयः पद्मायुतं तात मृगैः सह चचार सा ॥

12.264.20

द्वे चायुते नरश्रेष्ठ वाय्वाहारा महामते ।
पुनरेव ततो राजन्मौनमातिष्ठदुत्तमम् ॥

12.264.21

अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव ।
ततो जगाम सा कन्या कौशिकीं नृपसत्तम ॥

12.264.22

तत्र वायुजलाहारा चचार नियमं पुनः ।
ततो ययौ महाभागा गङ्गां मेरुं च केवलम् ॥

12.264.23

तस्थौ दार्विव निश्चेष्टा प्रजानां हितकाम्यया ।
ततो हिमवतो मूर्ध्निं यत्र देवाः समीजिरे ॥

12.264.24

तत्राङ्गुष्ठेन राजेन्द्र निखर्वमचरत्तपः ।
तस्थौ पितामहं चैव तोषयामास यत्नतः ॥

12.264.25

ततस्तामब्रवीत्तत्र लोकानां प्रपितामहः ।
किमिदं वर्तसे पुत्रि क्रियतां मम तद्वचः ॥

12.264.26

ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ।
न हरेयं प्रजा देव पुनस्त्वाऽहं प्रसादये ॥

12.264.27

तामधर्मभयाद्भीतां पुनरेव प्रयाचतीम् ।
तदाऽब्रवीद्देवदेवो निगृह्येदं वचस्ततः ॥

12.264.28

अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे ।
मयाऽप्युक्तं मृषा भद्रे भविता नेह किञ्चन ॥

12.264.29

धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यति ।
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा ॥

12.264.30

इमन्यं च ते कामं ददानि मनसेप्सितम् ।
न त्वां दोषेण यास्यन्ति व्याधिसम्पीडिताः प्रजाः ॥

12.264.31

पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि ।
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम् ॥

12.264.32

सैवमुक्ता महाराज कृताञ्जलिरुवाच ह ।
पुनरेव महात्मानं नेति देवेशमव्ययम् ॥

12.264.33

तामब्रवीत्तदा देवो मृत्यो संहर मानवान् ।
अधर्मस्ते न भविता यथा ध्यास्याम्यहं शुभे ॥

12.264.34

त्वं हि शक्ता च युक्ता च पूर्वोत्पन्ना च भामिनि ।
अनुशिष्टा च निर्दोषा तस्मात्त्वं कुरु मे मतम् ॥

12.264.35

यानश्रुबिन्दून्पतितानपश्यं ये पाणिभ्यां धारितास्ते पुरस्तात् ।
ते व्याधयो मानवान्घोररूपाः प्राप्ते काले पीडयिष्यन्ति मृत्यो ॥

12.264.36

सर्वेषां त्वं प्राणिनामन्तकाले कामक्रोधौ सहितौ योजयेथाः ।
एवं धर्मस्त्वामुपैष्यत्यमोघो न चाधर्मं लप्स्यसे तुल्यवृत्तिः ॥

12.264.37

एवं धर्मं पालयिष्यस्यथो त्वं न चात्मानं मञ्जयिष्यस्यधर्मे ।
तस्मात्कामं रोचयाभ्यागतं त्वं सा त्वं साधो संहरस्वेह जन्तून् ॥

12.264.38

सा वै तदा मृत्युसञ्ज्ञा कृतास्त्री शापाद्भीता बाढमित्यब्रवीत्तम् ।
अथो प्राणान्प्राणिनामन्तकाले कामक्रोधौ प्राप्य नित्यं निहन्ति ॥

12.264.39

मृत्योर्ये ते व्याधयश्चाश्चुपाता मनुष्याणां युज्यते यैः शरीरम् ।
सर्वेषां वै प्राणिनां प्राणनान्ते तस्माच्छोकं मा कृथा बुद्ध्य बुद्ध्या ॥

12.264.40

सर्वे देवाः प्राणिनां प्राणनान्ते गत्वा वृत्ताः सन्निवृत्तास्तथैव ।
एवं सर्वे मानवाः प्राणनान्ते गत्वा वृत्ता देववद्राजसिंह ॥

12.264.41

वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः ।
अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः ॥

12.264.42

सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टाः सर्वे मर्त्या देवसञ्ज्ञाविशिष्टाः ।
तस्मात्पुत्रं मा शुचो राजसिंह पुत्रः स्वर्गं प्राप्यते मोदते हे ॥

12.264.43

एवं मृत्युर्देवसृष्टा प्रजानां प्राप्ते काले संहरन्ती यथावत् ।
तस्याश्चैव व्याधयस्तेऽश्रुपाताः प्राप्ते काले संहरन्तीह जन्तून् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc