भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.263

12.263.1

प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो ।
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह ॥

12.263.2

तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः ।
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो ॥
प्रजापतिरुवाच ।

12.263.3

न कुप्ये न च मे कामो नभवेयुः प्रजा इति ।
लाघवार्थं धरण्यास्तु ततः संहार इष्यते ॥

12.263.4

इयं हि मां सदा देवी भारार्ता समचोदयत् ।
संहारार्थं महादेव भारेणाप्सु निमज्जती ॥

12.263.5

यदाऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् ।
संहारमासां वृद्धानां ततो मां क्रोध आविशत् ॥
स्थाणुरुवाच ।

12.263.6

संहारात्त्वं निवर्तस्य मा क्रुधो विवुधेश्वर ।
मा प्रजाः स्थावरं चैव जङ्गमं च व्यनीनशः ॥

12.263.7

पल्वलानि च सर्वाणि सर्वं चैव तृणीलपम् ।
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम् ॥

12.263.8

अकाले भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् ।
प्रसीद भगवन्साधो वर एष वृतो मया ॥

12.263.9

नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथञ्चन ।
तस्मान्निवर्ततामेतत्तेन स्वेनेव तेजसा ॥

12.263.10

उपायमन्यं सम्पश्य भूतानां हितकाम्यया ।
यथामी जन्तवः सर्वे न दह्येरन्पितामह ॥

12.263.11

अभावं हि न गच्छेयुरुत्सन्नप्रजनाः प्रजाः । पुत्रत्वेनानुसन्कल्प्ये तदाऽहं तप्य दानवैः ।
अधिदैवे नियुक्तोस्मि त्वया लोकहितेप्सुना ॥

12.263.12

त्वद्भवं हि जगन्नाथ एतत्स्थावरजङ्गमम् ।
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः ॥
नारद उवाच ।

12.263.13

श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्भनाः ।
तेजस्तत्सन्निजग्राह पुनरेवान्तरात्मनि ॥

12.263.14

ततोऽग्निमुपसन्गृह्य भगवाँल्लोकपूजितः ।
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः ॥

12.263.15

उपसंहरतस्तस्य तमग्निं रोषजं तदा ।
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः ॥

12.263.16

कृष्णरक्ताम्बरधरा कृष्णनेत्रतलान्तरा ।
दिव्यकुण्डलसम्पन्ना दिव्याभरणभूषिता ॥

12.263.17

सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् ।
ददृशाते च तां कन्यां देवौ विश्वेश्वरावुभौ ॥

12.263.18

तामाहूय तदा देवो लोकानामादिरीश्वरः ।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥

12.263.19

त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च ।
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥

12.263.20

अविशेषेण चैव त्वं प्रजाः संहर कामिनि ।
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि ॥

12.263.21

एवमुक्ता तु या देवी मृत्युः कमलमालिनी ।
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव च ॥

12.263.22

पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः ।
मानवानां हितार्थाय ययाचे पुनरेव ह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc