भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.261

12.261.1

भूतानां गुणसङ्ख्यानं भूयः पुत्र निशामय ।
द्वैपायनमुखाद्धष्टं श्लाघया परयाऽनघ ॥

12.261.2

दीप्तानलनिभः प्राह भगवान्धूमवत्सलः ।
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम् ॥

12.261.3

भूमेः स्थैर्यं गुरुत्वं च काठिन्यं प्रसवात्मता ।
गन्धो भारश्च शक्तिश्च सन्घातः स्थापना धृतिः ॥

12.261.4

अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता ।
जिह्वाविस्यन्दनं चापि भौमानां श्रपणं तथा ॥

12.261.5

अग्नेर्दुर्धर्षता ज्योतिस्तापः पाकः प्रकाशनम् ।
शौचं रागो लघुस्तैक्ष्ण्यं सततं चोर्ध्वभागिता ॥

12.261.6

वायोरनियमस्पर्शो वादस्थानं स्वतन्त्रता ।
बलं शैध्यं च मोक्षं च कर्म चेष्टात्मता भवः ॥

12.261.7

आकाशस्य गुणः शब्दो व्यापित्वं छिद्रताऽपि च ।
अनाश्रयमनालम्बमव्यक्तमविकारिता ॥

12.261.8

अप्रतीघातिता चैव श्रोतत्वं विवराणि च ।
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतविभाविताः ॥

12.261.9

फलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा ।
सदसच्चाशुता चैव मनसो नव वै गुणाः ॥

12.261.10

इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता ।
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान्विदुः ॥
युधिष्ठिर उवाच ।

12.261.11

कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः ।
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह ॥
भीष्म उवाच ।

12.261.12

आहुः षष्टिं भूतगुणान्वै भूतविषक्तान्प्रकृतिविसृष्टान् ।
नित्यविषक्तांश्चाक्षरसृष्टा न्पुत्र न नित्यं तदिह वदन्ति ॥

12.261.13

तत्पुत्रचिन्ताकलिलं तदुक्त मनागतं वै तव सम्प्रतीह ।
भूतार्थवत्त्वं तदवाप्य सर्वं भूतप्रभावाद्भव शान्तबुद्धिः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc