भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.260

12.260.1

हृदि कामद्रुमश्चित्रो मोहसञ्चयसम्भवः ।
क्रोधमानमहास्कन्धो विवित्सापरिवेषणः ॥

12.260.2

तस्य चाज्ञानमाधारः प्रमादः परिषेचनम् ।
सोऽभ्यसूयापलाशो हि पुरा दुष्कृतसारवान् ॥

12.260.3

सम्मोहचिन्ताविटपः शोकशाखो भयाङ्कुरः ।
मोहनीभिः पिपासाभिर्लताभिरनुवेष्टितः ॥

12.260.4

उपासते महावृक्षं सुलुब्धास्तत्फलेप्सवः ।
आयतैः संयुताः पाशैः फलदं परिवेष्ट्य तम् ॥

12.260.5

यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति ।
गतः स दुःखयोरन्तं जरामरणयोर्द्वयोः ॥

12.260.6

संरोहत्यकृतप्रज्ञः ससत्वो हन्ति पादपम् ।
स तमेवाहतो हन्ति विषं ग्रस्तमिवातुरम् ॥

12.260.7

तस्यानुगतमूलस्य मूलमुद्भियते बलात् ।
योगप्रसादात्कृतिना साम्येन परमासिना ॥

12.260.8

एवं यो वेद कामस्य केवलं परिसर्पणम् ।
एतच्च कामशास्त्रस्य सुदुःखान्यतिवर्तते ॥

12.260.9

शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते ।
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम् ॥

12.260.10

इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः । तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा ।
तदर्थमुपजीवन्ति पौराः सह पुरेश्वरैः ॥

12.260.11

अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः ।
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते ॥

12.260.12

पौराश्चापि मनस्तृप्तास्तेषामपि चला स्थितिः ।
यदर्थं बुद्धिरध्यास्ते सोऽनर्थः परिषीदति ॥

12.260.13

पौरमन्त्रवियुक्तायाः सोऽर्थः संसीदति क्रमात् ।
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति ॥

12.260.14

पृथग्भूतं मनो बुद्ध्या मनो भवति केवलम् ।
तत्रैनं विकृतं शून्यं रजः पर्यवतिष्ठते ॥

12.260.15

तन्मनः कुरुते सख्यं रजसा सह सन्गतम् ।
तं चादाय जनं पौरं रजसे सम्प्रयच्छति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc