भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.258

12.258.1

द्वन्द्वासि मोक्षजिज्ञासुरर्थधर्मानुतिष्ठतः ।
वक्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत् ॥

12.258.2

आकाशं मारुतो ज्योतिरा--पृथ्वी च पञ्चमी ।
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु ॥

12.258.3

अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम् ।
तस्य शब्दं गुणं विद्यान्मुनिः शास्त्रविधानवित् ॥

12.258.4

चरणं मारुतात्मेति प्राणापानौ च तन्मयौ ।
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम् ॥

12.258.5

तापः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम् ।
तस्य रूपं गुणं विद्यात्तमोनाशकमात्मवान् ॥

12.258.6

प्रक्लेदो द्रवता स्नेह इत्यपामुपदिश्यते । [असृङ्भज्जा च यच्चान्यत्स्निग्धं विद्यात्तदात्मकम् ॥ ]
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः ॥

12.258.7

सन्घातः पार्थिवो धातुरस्थिदन्तनखानि च ।
श्मश्चु रोम च केशाश्च सिरा स्नायु च चर्म च ॥

12.258.8

इन्द्रियं घ्राणसञ्ज्ञातं नासिकेत्यभिसञ्ज्ञिता ।
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः ॥

12.258.9

उत्तरेषु गुणाः सर्वे सन्ति पूर्वेषु नोत्तराः ।
पञ्चानां भूतसङ्घानां सन्ततिं मुनयो विदुः ॥

12.258.10

मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता ।
एकादशस्त्वन्तरात्मा स सर्वः पर उच्यते ॥

12.258.11

व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम् ।
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसञ्ज्ञकः ॥

12.258.12

एभिः कालात्मकैर्भावैर्यः सर्वैः सर्वमन्वितम् ।
पश्यत्यकलुयं बुद्ध्या स मोहं नानुवर्तते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc