भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.257

12.257.1

---गन्धान्रसान्नानुरुन्ध्यात्सखं वा --------कीर्ति च यशश्च नच्छ- ।
----- वै प्राचरः पश्यतो ब्राह्मणस्य ॥

12.257.2

----नधीयीत शुश्रूषुर्ब्रह्मचर्यवान् ।
ऋवो यजूंषि सामानि वेदवेदाङ्गपारगः ॥

12.257.3

ज्ञानी यः सर्वभूतानां सर्ववित्सर्वभूतवित् ।
नाकामो म्रियते जातु------------- ॥

12.257.4

इष्टी------श्राप्य क्रतूश्चवाप्तदाक्षणान् ।
प्राप्नोति नैव ब्राह्मण्यमविज्ञानात्कथञ्चन ॥

12.257.5

यदा चायं न बिभेति यदा चास्मान्न बियति ।
यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा ॥

12.257.6

यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥

12.257.7

कामबन्धनमेवेदं नान्यदस्तीह बन्धनम् ।
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते ॥

12.257.8

कामतो मुच्यमानस्तु धूमाभ्रादिव चन्द्रमाः ।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते ॥

12.257.9

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामः ॥

12.257.10

क कामकान्तो न तु कामकामः स वै कामात्स्वर्गमुपैति देही ॥

12.257.11

वेदस्योपनिपद्दानं दानस्योपनिषद्दमः ।
दमस्योपनिपद्दानं दानस्योपनिपत्तपः ॥

12.257.12

तपसोपनिपत्त्यागस्त्यागस्योपनिपत्सुखम् ।
सुखस्योपनिपत्स्वर्गः स्वर्गस्योपनिपच्छमः ॥

12.257.13

क्लेदनं शोकमनसोः सन्तीर्णं तृष्णया सह ।
सत्वमृच्छति सन्तोपाच्छान्तिलक्षणमुत्तमम् ॥

12.257.14

विशोको निर्ममः शान्तः प्रशान्तात्माऽत्मविच्छुचिः ।
पङ्गिर्लक्षणवानेतैः समग्रः पुनरेष्यति ॥

12.257.15

पङ्भिः सत्वगुणोपेतैः प्राज्ञैरधिगतं त्रिभिः ।
ये विदुः प्रत्यगात्मानमिहस्थानमृतान्विदुः ॥

12.257.16

अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम् ।
अध्यात्मवित्कृतप्रज्ञः सुखमव्ययमश्नुते ॥

12.257.17

निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।
यामयं लभते तुष्टिं सा न शक्याऽत्मनोन्यथा ॥

12.257.18

येन तृप्यत्यभुञ्जानो येन तृप्यत्यवित्तवान् ।
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित् ॥

12.257.19

असङ्गो ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन् ।
यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते ॥

12.257.20

समाहितं परे तत्त्वे क्षीणकाममवस्थितम् ।
सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा ॥

12.257.21

अविशेषाणि भूतानि गुणांश्च जहतो मुनेः ।
सुखेनापोह्यते दुःखं भास्करेण तमो यथा ॥

12.257.22

तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम् ।
ब्राह्मणं विपयाश्लिष्टं जरामृत्यू न विन्दतः ॥

12.257.23

स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते ।
इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते ॥

12.257.24

कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम् ।
पुनरावर्तनं नास्ति सम्प्राप्तस्य परात्परम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc