भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.245

12.245.1

इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम् ।
मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे ॥
शुक उवाच ।

12.245.2

प्रजावाञ्श्रोत्रियो यज्वा कृतप्रज्ञोऽनसूयकः ।
अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति ॥

12.245.3

तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
साङ्ख्ये वा यदि वा योग एतत्पृष्टो वदस्व मे ॥

12.245.4

मनसश्चेन्द्रियाणां च यथैकाग्र्यमवाप्यते ।
येनोपायेन पुरुषैस्तत्त्वं व्याख्यातुमर्हसि ॥
व्यास उवाच ।

12.245.5

नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र लोभसन्त्यागात्सिद्धिं विन्दति कश्चन ॥

12.245.6

महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयम्भुवः ।
भूयिष्ठं प्राणभृत्काये निविष्टानि शरीरिषु ॥

12.245.7

भूमेर्देहो जलास्त्रोतो ज्योतिषश्चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुः स्वेष्वाकाशं शरीरिणाम् ॥

12.245.8

क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक् सरस्वती ॥

12.245.9

कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥

12.245.10

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।
इन्द्रियाणि पृथक्स्वार्थान्मनसा दर्शयन्त्युत ॥

12.245.11

इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः ।
मनश्चापि सदा भुक्ते भूतात्मा हृदयाश्रितः ॥

12.245.12

इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मानसस्तथा ॥

12.245.13

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥

12.245.14

आश्रयो नास्ति सत्वस्य गुणः सत्त्वस्य चेतना ।
सत्वं हि तेजः सृजति न गुणान्वै कथञ्चन ॥

12.245.15

एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः ।
मनीषीमनसा विप्रः पश्यत्यात्मानमात्मनि ॥

12.245.16

न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः ।
मनसा दीपभूतेन महानात्मा प्रकाशते ॥

12.245.17

अशब्दस्पर्शरूपं तदरसागन्धमव्ययम् ।
अशरीरं शरीरेषु निरीक्षते निरिन्द्रियम् ॥

12.245.18

अव्यक्तं सर्वदेहेषु मर्त्येष्वमृतमाहितम् ।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे ॥

12.245.19

विद्याभिजनसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

12.245.20

स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥

12.245.21

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥

12.245.22

यावानात्मनि मे ह्यात्मा तावानात्मा परात्मनि ।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥

12.245.23

सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥

12.245.24

शकुन्तानामिवाकाशे मत्स्यानामिव चोदके ।
यथा गतिर्न दृश्येत तथा ज्ञानविदां गतिः ॥

12.245.25

कालः पचति भूतानि सर्वाण्येवात्मनाऽत्मनि ।
यस्मिंस्तु पच्यते कालस्तं वेदेह न कश्चन ॥

12.245.26

न स ऊर्ध्वं न तिर्यक्च नाधश्चरति यः पुनः ।
न मध्ये प्रतिगृह्णीते नैव किञ्चित्कुतश्चन ॥

12.245.27

सर्वेऽन्तस्था इमे लोका बाह्यमेषां न किञ्चन ।
यः सहस्र समा गच्छेद्यथा बाणो गुणच्युतः ॥

12.245.28

नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।
तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः ॥

12.245.29

सर्वतः पाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृरत्य तिष्ठति ॥

12.245.30

तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥

12.245.31

अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।
क्षरः सर्वेषु भूतेषु दिवि ह्यमृतमक्षरम् ॥

12.245.32

नवद्वारं पुरं गत्वा हंसो हि नियतो वशी ।
ईशः सर्वस्य भूतस्य स्थावरस्य चरस्य च ॥

12.245.33

हानिभङ्गविकल्पानां नवानां सञ्चयेन च ।
शरीराणामजस्याहुर्हंसत्वं पारदर्शिनः ॥

12.245.34

हंसोक्तं चाक्षरं चैव कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc