भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.244

12.244.1

एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते ।
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिद्ध्यति ॥

12.244.2

तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये ।
किन्तु कर्मस्वभावोऽयं ज्ञानं कर्मेति वा पुनः ॥

12.244.3

तत्र वेदविवित्सायां ज्ञानं चेत्पुरुषं प्रति ।
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छॄणु ॥

12.244.4

पौरुषं कारणं केचिदाहुः कर्मसु मानवाः ।
दैवमेके प्रशंसन्ति स्वभावमपरे जनाः ॥

12.244.5

पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः ।
त्रयमेतत्पृथग्भूतमविवेकं तु केचन ॥

12.244.6

एतदेवं च नैवं न च चोभे नानुभे तथा ।
कर्मस्था विषयं ब्रूयुः सत्वस्थाः समदर्शिनः ॥

12.244.7

त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः ।
तपस्विनः प्रशान्ताश्च सत्वस्थाश्च कृते युगे ॥

12.244.8

अपृथग्दर्शनाः सर्वे ऋक्सामसु यजुःषु च ।
कामद्वषौ पृथग्दृष्ट्वा तपः कृत उपासते ॥

12.244.9

तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः ।
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥

12.244.10

तपसा तदवाप्नोति यद्भूतं सृजते जगत् ।
तद्भूतश्च ततः सर्वभूतानां भवति प्रभुः ॥

12.244.11

तदुक्तं वेदवादेषु गहनं वेददर्शिभिः ।
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते ॥

12.244.12

आरम्भयज्ञाः क्षव्राश्च हविर्यज्ञा विशः स्मृताः ।
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः ॥

12.244.13

परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत् ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥

12.244.14

त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा ।
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे ॥

12.244.15

द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा ।
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः किल ॥

12.244.16

उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः ।
गवां भूमेश्च ये चापामोषधीनां च ये रसाः ॥

12.244.17

अधर्मान्तर्हिता वेदा वेदधर्मास्तथाऽश्रमाः ।
विक्रियन्ते स्वधर्माश्च स्थावराणि चराणि च ॥

12.244.18

यथा सर्वाणि भूतानि वृष्टथा तृप्यन्ति प्रावृषि ।
सृजन्ते सर्वतोऽङ्गानि तथा वेदा युगेयुगे ॥

12.244.19

विहितं कालनानात्वमनादिनिधनं च यत् ।
कीर्तितं यत्पुरस्तात्ते यतः संयान्ति च प्रजाः ॥

12.244.20

यच्चेदं प्रभवः स्थानं भूतानां संयमो यमः ।
स्वभावेनैव वर्तन्ते द्वन्द्वसृष्टानि भूरिशः ॥

12.244.21

सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रियाफलम् ।
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc