भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.222

12.222.1

जनको नरदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ साम्पराये भवाभवौ ॥
जनक उवाच ।

12.222.2

भगवन्यदि न प्रेत्य सञ्ज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥

12.222.3

सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम ।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥

12.222.4

असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।
कस्मै क्रियेत तत्वेन निश्चयः कोऽत्र तत्त्वतः ॥
भीष्म उवाच ।

12.222.5

तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् ।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥

12.222.6

उच्छेदनिष्ठा नेहास्ति भा निष्ठा न विद्यते । अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥

12.222.7

धावतः पञ्च तेषां तु खं वायुर्ज्योतिरम्बु भूः ।
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥

12.222.8

आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः ।
एष पञ्चसमाहारः शरीरमपि नैकधा ॥

12.222.9

अहं वाच्यं द्विजानां यद्विशिष्टं बुद्धिरूपवत् ।
वाचामगोचरं नित्यं ज्ञेयमेवं भविष्यति ॥

12.222.10

ज्ञानं ज्ञेयं तथा ज्ञानं त्रिविधं ज्ञानमुच्यते । ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसन्ग्रहः ॥

12.222.11

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥

12.222.12

प्राणादयस्तथा स्पर्शा न सम्बाधगतास्तथा ।
पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान् ॥

12.222.13

श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।
इन्द्रियाणीति पञ्चैते चित्तपूर्वगमा गुणाः ॥

12.222.14

तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ।
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥

12.222.15

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्तयः ।
एते ह्यामरणात्पञ्च षङ्गुणा ज्ञानसिद्धये ॥

12.222.16

तेषु कर्मविसर्गश्च सर्वतत्वार्थनिश्चयः ।
तमाहुः परमं शुक्रं पारे च रजसः प्रभुम् ॥

12.222.17

विरागाद्वर्तते तस्मिन्मतो रजसि नित्यगम् ।
तस्मिन्प्रसन्ने सम्पश्ये द्वुद्धिरित्यव्ययं महत् ॥

12.222.18

इमं गुणसमाहारमात्मभावेन पश्यतः ।
असम्यद्गर्शिनो दुःखमनन्तं नोपशाम्यति ॥

12.222.19

तस्मादेतेषु मेधावी न प्रसज्येत बुद्धिमान् । अनात्मेति च यद्दृष्टं तन्नाहं न ममेत्यपि ।
वर्तते किमधिष्ठाना प्रसक्ता दुःखसन्ततिः ॥

12.222.20

यत्र सम्यङ्भनो नाम त्यागमात्रमनुत्तमम् ।
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥

12.222.21

त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम् ।
नित्यदुःखविनीतानां श्लेषो दुःखवहो हतः ॥

12.222.22

द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि ।
सुखत्यागे तपोयोगं सर्वत्यागे समापना ॥

12.222.23

तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत् ॥

12.222.24

शेते जरामृत्युभयैर्विमुक्तः क्षीणे पुण्ये विगते च पापे ।
तपोनिमित्ते विगते च निष्ठे फले यथाऽकाशमलिङ्ग एव ॥

12.222.25

पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि ।
मनःषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु ॥

12.222.26

हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ।
प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम् ॥

12.222.27

वाक्च शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः ।
एवमेकादशैतानि बुद्ध्या तूपहतं मनः ॥

12.222.28

कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसन्ग्रहे ।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥

12.222.29

एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये ।
येनायं त्रिविधो भावः पर्यायात्समुम्पस्थितः ॥

12.222.30

सात्विको राजसश्चापि तामसश्चापि ते त्रयः ।
त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः ॥

12.222.31

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।
अकुतश्चित्कुतश्चिद्वा चिन्तितः सात्विको गुणः ॥

12.222.32

अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥

12.222.33

अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।
कथञ्चिदपि वर्तन्ते विविधास्तामसा गुणाः ॥

12.222.34

तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्यपेक्षेत तत्तथा ॥

12.222.35

यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत् ॥

12.222.36

अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥

12.222.37

श्रोत्रं व्योमाश्रितं भूतं शब्दः श्रोत्रं समाश्रितः ।
नोभयं शब्दविज्ञाने विज्ञानस्तेतरस्य वा ॥

12.222.38

एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी ।
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥

12.222.39

स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति ।
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥

12.222.40

तेषामयुगपद्भाव उच्छेदो नास्ति तामसः ।
आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥

12.222.41

इन्द्रियाण्युपसृत्यापि दृष्ट्वा पूर्वं श्रुतागमात् ।
चिन्तयन्ननुपर्येति त्रिभिरेवान्वितो गुणैः ॥

12.222.42

यत्तमोपहतं चित्तमाशुसञ्चारमध्रुवम् ।
करोत्युपरमं काये तदाहुस्तामसं सुखम् ॥

12.222.43

यद्यदागमसंयुक्तं न कृच्छ्रादुपशाम्यति ।
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥

12.222.44

एवमेव प्रसङ्ख्यातः स्वकर्मप्रत्ययो गुणः ।
कथञ्चिद्वर्तते सम्यक्केषाञ्चिद्वा निवर्तते ॥

12.222.45

अहमित्येष वै भावो नान्यत्र प्रतितिष्ठति ।
यस्य भावो दृढो नित्यं स वै विद्वांस्तथेतरः ॥

12.222.46

देहधर्मस्तथा नित्यं सर्वभूतेषु वै दृढः ।
एतेनैवानुमानेन त्याज्यो धर्मस्तथा ह्यसौ ॥

12.222.47

ज्ञानेन मुच्यते जन्तुर्धर्मात्मा ज्ञानवान्भवेत् ।
धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम् ॥

12.222.48

सर्वार्थजनकश्चैव धर्मः सर्वस्य कारणम् ।
सर्वो हि दृश्यते लोके न सर्वार्थः कथञ्चन ॥

12.222.49

सर्वत्यागे कृते तस्मात्परमात्मा प्रसीदति । व्यक्तादव्यक्तमतुलं लोकेषु परिवर्तते ॥

12.222.50

एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः ।
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥

12.222.51

एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् ।
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुषु ॥

12.222.52

यथार्णवगता नद्यो व्यक्तीर्जहति नाम च ।
नतु स्वतां नियच्छन्ति तादृशः सत्वसन्क्षयः ॥

12.222.53

एवं सति कुतः सञ्ज्ञा प्रेत्यभावे पुनर्भवेत् ।
प्रतिसम्मिश्रिते जीवे गृह्यमाणे च सर्वतः ॥

12.222.54

इमां च यो वेद विमोक्षबुद्धि मात्मानमन्विच्छति चाप्रमत्तः ।
न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् ॥

12.222.55

दृढैर्हि पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ॥

12.222.56

श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादभीतः ।
क्षीणे च पुण्ये विगते च पापे ततो निमित्ते च फले विनष्टे । अलेपमाकाशमलिङ्गमेव मास्थाय पश्यन्ति महत्यसक्ताः ॥

12.222.57

यथोर्णनाभिः परिवर्तमान स्तन्तुक्षये तिष्ठति पात्यमानः ।
तथा विमुक्तः प्रजहाति दुःखं बिध्वंसते लोष्ठ इवाद्रिमृच्छन् ॥

12.222.58

यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाऽप्युरगो यथा च ।
विहाय गच्छत्यनवेक्षमाण स्तथा विमुक्तो विजहाति दुःखम् ॥

12.222.59

द्रुमं यथावाऽप्युदकै पतन्त मुत्सृज्य पक्षी निपतत्यसक्तः ।
तथा ह्यसौ सुखदुःखे विहाय मुक्तः पराद्धर्यां गतिमेत्यलिङ्गः ॥

12.222.60

इमान्स्वलोकाननुपश्य सर्वा न्व्रजन्यथाऽकाशमिवाप्नुकामः ।
इमां हि गाथां प्रलपन्यथाऽस्ति समस्तसङ्कल्पविशेषमुक्तः । अहं हि सर्वं किल सर्वभावे ह्यहं तदन्तर्ह्यहमेव भोक्ता ॥

12.222.61

अपिच भवति मैथिलेन गीतं नगरमुपाहितमग्निनाऽभिवीक्ष्य ।
न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः ॥
भीष्म उवाच ।

12.222.62

इदममृतपदं विदेहराजा स्वयमिह पञ्चशिखेन भाष्यमाणम् ।
निखिलमभिसमीक्ष्य निश्चितार्थः परमसुखी विजहार वीतशोकः ॥

12.222.63

इमं हि यः पठति विमोक्षनिश्चयं महीपते सततमवेक्षते तथा ।
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc