भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.221

12.221.1

जनको नरदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ साम्पराये भवाभवौ ॥

12.221.2

भगवन्यदिदं प्रेत्य सञ्ज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥

12.221.3

विवादादेव सिद्धोऽसौ कारणस्येव वेदना ।
चेतनो विद्यते ह्यत्र हैतुकं च मनोगतम् ॥

12.221.4

आगमादेव सिद्धोऽसौ स्वताः सिद्धा इति श्रुतिः ।
वर्तते पृथगन्योन्यं न ह्यपःश्रित्य कर्मसु ॥

12.221.5

चेतनो ह्यंशवस्तत्र स्वमूर्तं धारयन्त्यतः । स्वभावं पौरुषं कर्म ह्यात्मानं तमुपाश्रितम् ।
तमाश्रित्य प्रवर्तन्ते देहिनो देहबन्धनाः ॥

12.221.6

गुणज्ञानमभिज्ञानं तस्य लिङ्गानुशब्दयत् ।
पृथिव्यादिषु भूतेषु तत्तदाहुर्निदर्शनम् ॥

12.221.7

आत्माऽसौ वर्तते भिन्नस्तत्रतत्र समन्वितः ।
परमात्मा तथीवैको देवेऽस्मिन्निति वै श्रुतिः ॥

12.221.8

आकाशं वायुरूष्भा च स्नेहो यच्चापि पार्थिवम् ।
यथा त्रिधा प्रवर्तन्ते तथाऽसौ पुरुषः स्मृतः ॥

12.221.9

पपस्यन्तर्हितं यद्वत्तद्वद्व्याप्तं महात्मकम् ।
पूर्वं नैश्चर्ययोगेन तस्मादेतन्न शेपवान् ॥

12.221.10

शब्दाः कालः क्रिया देहो ममैकस्वैव कल्पना ।
स्वभावं तन्मयं त्वेदं मायारूपं तु भेदवत् ॥

12.221.11

नानाख्यं परं शुद्धं निर्विकल्पं परात्मकम् ।
लिङ्गादि देवमध्यास्ते ज्ञानं देवस्य तत्तथा ॥

12.221.12

चिन्मयोऽयं हि नादाख्यः शब्दश्चासौ मनो महान् ।
गतिमानुत सन्धत्ते वर्णमत्तत्पदान्वितम् ॥

12.221.13

कायो नास्ति च तेषां वै अवकाशस्तथा परम् ।
एतेनोढा इति चाख्याताः सर्वे ते धर्मदूषकाः ॥

12.221.14

अवन्धनमविज्ञानाज्ज्ञानं तद्भुवमव्ययम् ।
नानाभेदविकल्पने येषामात्मा स्मृतः सदा ॥

12.221.15

प्रकृतेरपरस्तेषां बहवोऽप्यात्मवादिनः । विरोधो ह्यात्मसन्मायां न तेषां सिद्ध एव हि ।
अन्यदा च गृहीतै-----वेदबाह्यास्ततः स्मृताः ॥

12.221.16

एकानेकात्मकं तेषां प्रतिषेधो हि भेदनुत् ।
तस्माद्वेदस्य हृदयमद्वैध्यमिति विद्धि तत् ॥

12.221.17

वेदादृष्टेरयं लोकः सर्वार्थेषु प्रवर्तते ।
तस्माच्च स्मृतयो जाताः सेतिहासाः पृथग्विधाः ॥

12.221.18

न यन्न साध्यं तद्ब्रह्म नादिमध्यं न चान्तवत् ।
इन्द्रियाणि च भूरीणि परा च प्रकृतिर्मनः ॥

12.221.19

आत्मा च परमः शुद्धः प्रोक्तोऽसौ परमः पुमान् ॥

12.221.20

उत्पत्तिलक्षणं चेदं विपरीतमथोभयोः । यो वेत्ति प्रकृतिं नित्यं तथा चैवात्मनस्तु ताम् ।
प्रदहत्येष कर्माख्यं दावोद्भूत इवानलः ॥

12.221.21

चिन्मात्रपरमः शुद्धः सर्वाकृतिषु वर्तते ॥

12.221.22

आकाशकल्पं विमलं नानाशक्तिसमन्वितम् । तापनं सर्वभूतानां ज्योतिषां मध्यमस्थितिम् ।
दुःखमस्ति न निर्दुःखं तद्विद्वान्न च लिप्यति ॥

12.221.23

असावश्नाति यद्वत्तद्वमरोऽश्नाति यन्मधु ।
एवमेव महानात्मा नात्मानमवबुध्यते ॥

12.221.24

एवम्भूतस्त्वमित्यत्र स्वाधितो बुद्ध्यते परम । बुधस्य बोधनं तत्र क्रियते सद्भिरित्युत ।
न बुधस्येति वै कश्चिन्न तथावच्छृणुष्व मे ॥

12.221.25

शोकमस्य न गत्वा ते शास्त्राणां शास्त्रदस्यवः ।
लोकं निध्नन्ति सम्भिन्ना ज्ञातिनोत्र वदन्त्युत ॥

12.221.26

एवं तस्य विभोः कृत्यं धातुरस्य महात्मनः ।
क्षमन्ति ते महात्मानः सर्वद्वन्द्वविवर्जिताः ॥

12.221.27

अतोऽन्यथा महात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥

12.221.28

तस्य संयोगयोगेन शुचिरप्यशुचिर्भवेत् ।
अशुचिश्च शुचिश्चापि ज्ञानाद्देहादयो यथा ॥

12.221.29

दृश्यं न चैव दृष्टं स्याद्दृष्टं दृश्यं तु नैव च ॥

12.221.30

अतीतत्रितयाः सिद्धा ज्ञानरूपेण सर्वदा ।
एवं न प्रतिपद्यन्ते रागमोहमदान्विताः ॥

12.221.31

वेदबाह्या दुरात्मानः संसारे दुःखभागिनः ।
आगमानुगतज्ञाना बुद्धियुक्ता भवन्ति ते ॥

12.221.32

बुद्ध्या भवति बुद्ध्या त्वं यद्बुद्धं चात्मरूपवत् ।
तमस्यन्धे न सन्देहात्परं यान्ति न संशयः ॥

12.221.33

नित्यनैमित्तिकान्कृत्वा पापहानिमवाप्य च ।
शुद्धसत्वा महात्मानो ज्ञाननिर्धूतकल्मषाः ॥

12.221.34

असक्ताः परिवर्तन्ते संसरन्त्यथ वायुवत् ।
न युज्यन्तेऽथवा क्लेशैरहम्भावोद्भवैः सह ॥

12.221.35

इतस्ततः समाहृत्य ज्ञानं निर्वर्णयन्त्युत ।
ज्ञानान्वितस्तमो हन्यादर्कवत्स महामतिः ॥

12.221.36

एवमात्मानमन्वीक्ष्य नानादुःखसमन्वितम् ।
देहं पङ्कमले मग्नं निर्मलं परमार्थतः ॥

12.221.37

तमेवं सर्वदुःखात्तु मोचयेत्परमात्मवान् । ब्रह्मचर्यव्रतोपेतः सर्वसङ्गबहिष्कृतः ।
लघ्वाहारो विशुद्धात्मा परं निर्वाणमृच्छति ॥

12.221.38

इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ।
आनुपूर्व्याद्विनश्यन्ति स्वं धातुमुपयान्ति च ॥

12.221.39

कारणानुगतं कार्यं यदि तच्च विनश्यति ।
अलिङ्गस्य कथं लिङ्गं युज्यते तन्मृषा दृढम् ॥

12.221.40

न त्वेव हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः ।
अमर्त्यस्य च मर्त्येन सामान्यं नोपपद्यते ॥

12.221.41

लोकदृष्टो यथा जातेः स्वेदजः पुरुषः स्त्रियाम् ।
कृतानुस्मरणात्सिद्धो वेदगम्यः परः पुमान् ॥

12.221.42

प्रत्यक्षानुगतो वेदो नामहेतुभिरिष्यते ॥

12.221.43

यथा शाखा हि वै शाखा तरोः सम्बध्यते तदा । श्रुत्या तथापरोप्यात्मा दृश्यते सोऽप्यलिङ्गवान् ।
अलिङ्गसाध्यं तद्ब्रह्म बहवः सन्ति हेतवः ॥

12.221.44

लोकयात्राविधानं च दानधर्मफलागमः ।
तदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥

12.221.45

इति सम्यङ्भनस्येते बहवः सन्ति हेतवः ।
एतदस्तीदमस्तीति न किञ्चित्प्रतिदृश्यते ॥

12.221.46

तेषां विमृशतामेवं तत्तत्समभिधावताम् ।
क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥

12.221.47

एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ।
आगमैरपकृष्यन्ति हस्तिनो हस्तिपैर्यथा ॥

12.221.48

न जातु कामः कामामामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिर्वधते ॥

12.221.49

अर्थांस्तथाऽत्यन्तदुःखाबहांश्च लिप्सन्त एके बहवो विशुष्काः ।
महत्तरं दुःखमभिप्रपन्ना हित्वा सुखं मृत्युवशं प्रयान्ति ॥

12.221.50

विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मन्त्रपरिग्रहैश्च ।
विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥

12.221.51

स्वं भूमितोयानलवायवो हि सदा शरीरं प्रतिपालयन्ति ।
इतीदमालक्ष्य कुतो रतिर्भवे द्विनाशिनो ह्यस्य न कर्म विद्यते ॥

12.221.52

इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ।
नरपतिरनुवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc