भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.201

12.201.1

यदिन्द्रियैस्तूपगतैः पुरस्ता त्प्राप्तान्गुणान्संस्मरते चिराय ।
तेष्विन्द्रियेषूपहतेषु पश्चा त्स बुद्धिरूपः परमः स्वभावः ॥

12.201.2

य इन्द्रियार्थान्युगपत्समन्ता न्नावेक्षते कृत्स्नशस्तुल्यकालम् ।
यथाक्रमं सञ्चरते स विद्वां स्तस्मात्स एकः परमः शरीरी ॥

12.201.3

रजस्तमः सत्वमथो तृतीयं गच्छत्यसौ ज्ञानगुणान्विरूपान् ।
न तैर्निबद्धः स तु बध्नाति विश्वं न चानुयातीहागुणान्परात्मा । तथेन्द्रियाण्याविशते शरीरी हुताशनं वायुरिवेन्धनस्थम् ॥

12.201.4

न चक्षुषा पश्यति रूपमात्मनो न पश्यति स्पर्शनमिन्द्रियेन्द्रियम् ।
न श्रोत्रलिङ्गं श्रवणेन दर्शनं तथा कृतं पश्यति तद्विनश्यति ॥

12.201.5

श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना ।
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥

12.201.6

यथा हिमवतः पार्श्वे पृष्ठं चन्द्रमसो यथा ।
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता ॥

12.201.7

तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ ।
अदृष्टपूर्वश्चक्षुर्म्यां न चासौ नास्ति तावता ॥

12.201.8

पश्यन्नपि यथा लक्ष्म जनः सोमेन विन्दति ।
एवमस्ति न चोत्पन्नं न च तन्न परायणम् ॥

12.201.9

रूपवन्तमरूपत्वादुदयास्तमने बुधाः ।
धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम् ॥

12.201.10

तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः ।
प्रत्यासन्नं निषीदन्ति ज्ञेयं ज्ञानाभिसंहितम् ॥

12.201.11

न हि स्वल्वनुपायेन कश्चिदर्थोऽभिसिद्ध्यति ।
सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः ॥

12.201.12

मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा ।
गजानां च गजैरेव ज्ञेयं ज्ञानेन गृह्यते ॥

12.201.13

अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम् ।
तद्वन्मूर्तिषु मूर्तिस्थं ज्ञेयं ज्ञानेन पश्यति ॥

12.201.14

नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि ।
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति ॥

12.201.15

यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते ।
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम् ॥

12.201.16

क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते ।
तद्वन्मूर्तिविमुक्तोऽसौ शरीरी नोपलभ्यते ॥

12.201.17

यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः ।
तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः ॥

12.201.18

जन्म बुद्धिः क्षयश्चास्य प्रत्यक्षेणोपलभ्यते ।
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः ॥

12.201.19

उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते ।
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान् ॥

12.201.20

नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः ।
विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम् ॥

12.201.21

यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते ।
तद्वच्छरीरसंयुक्तं ज्ञानं तदुपलभ्यते ॥

12.201.22

यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते ।
तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते ॥

12.201.23

यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः ।
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc