भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.200

12.200.1

अक्षरात्खं ततो वायुस्ततो ज्योतिस्ततो जलम् ।
जलात्प्रसूता जगती जगत्या जायते जगत् ॥

12.200.2

इमे शरीरैर्जलमेव गत्वा जलाच्च तेजः पवनान्तरिक्षम् ।
खाद्वै निवर्तन्ति न भाविनस्ते ये भाविनस्ते परमाप्नुवन्ति ॥

12.200.3

नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम् ।
न शब्दवन्नापि च गन्धवत्त न्न रूपवत्तत्परमस्वभावम् ॥

12.200.4

स्पर्शं तनुर्वेद रसं च जिह्वा घ्राणं च गन्धाञ्श्रवणे च शब्दान् ।
रूपाणि चक्षुर्नच तत्परं य द्गृह्णन्त्यनध्यात्मविदो मनुष्याः ॥

12.200.5

निवर्तयित्वा रसनां रसेभ्यो घ्राणं च गन्धाच्छ्रवणे च शब्दात् ।
स्पर्शात्तनुं रूपगुणात्तु चक्षु स्ततः परं पश्यति तत्स्वभावम् ॥

12.200.6

यतो गृहीत्वा हि करोति यच्च यस्मिंश्च यामारभते प्रवृत्तिम् ।
यस्मै च यद्येन च यश्च कर्ता यत्कारणं तं स्वमुपेयमाहुः ॥

12.200.7

यद्वाऽप्यभूद्व्यापकं साधकं च यन्मन्त्रवत्स्थास्यति चापि लोके ।
यः सर्वहेतुः परमार्थकारी तत्कारणं कार्यमतो यदन्यत् ॥

12.200.8

यथा हि कश्चित्सुकृतैर्मनुष्यः शुभाशुभं प्राप्नुते चाविरोधात् ।
एवं शरीरेषु शुभाशुभेषु स्वकर्मभिर्ज्ञानमिदं निवद्धम् ॥

12.200.9

यथा प्रदीप्तः पुरतः प्रदीपः । प्रकाशमन्यस्य करोति दीप्यन् ।
तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव ॥

12.200.10

यथा च राज्ञो बहवो ह्यमात्याः पृथक् प्रमाणं प्रवदन्ति युक्ताः ।
तद्वच्छरीरेषु भवन्ति पञ्च ज्ञानैकदेशाः परमः स तेभ्यः ॥

12.200.11

यथार्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चापः ।
गच्छन्ति चायान्ति च संयताश्च तद्वच्छरीराणि शरीरिणां तु ॥

12.200.12

यथा च कश्चित्परशुं गृहीत्वा धूमं न पश्येज्ज्वलनं च काष्ठे ।
तद्वच्छरीरोदरपाणिपादं छित्त्वा न पश्यन्ति ततो यदन्य ॥

12.200.13

तान्येव काष्ठानि यथा विमथ्य धूमं च पश्येज्ज्वलनं च योगात् ।
तद्वत्सुबुद्धिः सममिन्द्रियार्थै र्बुद्धः परं पश्यति तत्स्वभावम् ॥

12.200.14

यथात्मनोऽङ्गं पतितं पृथिव्यां स्वप्नान्तरे पश्यति चात्मनोऽन्यत् ।
श्रोत्रादियुक्तः सुमनाः सुबुद्धि र्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ॥

12.200.15

उत्पत्तिवृद्धिक्षयमसन्निपातै र्न युज्यतेऽसौ परमः शरीरी ।
अनेन लिङ्गेन तु लिङ्गमन्य द्गच्छत्यदृष्टः प्रतिसन्धियोगात् ॥

12.200.16

न चक्षुषा पश्यति रूपमात्मनो न चापि संस्पर्शमुपैति किञ्चित् ।
न चापि तैः साधयते स्वकार्यं ते तं न पश्यन्ति स पश्यते तान् ॥

12.200.17

यथा समीपे ज्वलतोऽनलस्य सन्तापजं रूपमुपैति कश्चित् ।
न चान्तरा रूपगुणं बिभर्ति तथैव तद्दृश्यते रूपमस्य ॥

12.200.18

तथा मनुष्यः परिमुच्य काय मदृश्यमन्यद्विशते शरीरम् ।
विसृज्य भूतेषु महत्सु देहं तदाश्रयं चैव बिभर्ति रूपम् ॥

12.200.19

खं वायुमग्निं सलिलं तथोर्वी समन्ततोऽभ्याविशते शरीरी ।
नान्याश्रयाः कर्मसु वर्तमानाः श्रोत्रादयः पञ्चगुणाञ्श्रयन्ते ॥

12.200.20

श्रोत्रं नभो घ्राणमथो पृथिव्या स्तेजोमयं रूपमथो विपाकः ।
जलाश्रयं तेज उक्तं रसं च वाय्वात्मकः स्पर्शकृतो गुणश्च ॥

12.200.21

महत्सु भूतेषु च सन्ति पञ्च पञ्चेन्द्रियार्थेषु तथेन्द्रियाणि ।
सर्वाणि चैतानि मनोनुगानि बुद्धिं मनोऽन्वेति मतिः स्वभावम् ॥

12.200.22

शुभाशुभं कर्म कृतं यदस्य तदेव प्रेत्याददतेऽन्यदेहे ।
मनोऽनुवर्तन्ति परावराणि जलौकसः स्रोत इवानुकूलम् ॥

12.200.23

चलं यथा दृष्टिपथं परैति सूक्ष्मं महद्रूपमिवावभाति ।
तातप्यमानो न पतेच्च धीरः परं तथा बुद्धिपथं परैति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc