महाभारत · अध्याय 12.177
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥
चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् ।
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥
प्रह्लाद उवाच ।
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः ।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।
नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥
स्रोतसा ह्रियमाणासु प्रजासु विमना इव ।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥
भीष्म उवाच ।
अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः ।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥
स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः ।
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥
पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् ।
सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः । उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये ।
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥
जङ्गमस्थावराणां च भूतानामसुराधिप ।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥
अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम् ।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च ।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना ।
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥
आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु ।
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे ।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥
शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥
धारयामि च चीराणि शाणक्षौमाजिनानि च ।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया ।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥
अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते प्रविष्टम् ।
अनभिमतमसेवितं विमूढै र्व्रतमिदमाजगरं शुचिश्चरामि ॥
अचलितमतिरच्युतः स्वधर्मा त्परिमितसंसरणः परावरज्ञः ।
विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥
अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् ।
हृदयसुखमसेवितं कदर्यै र्व्रतमिदमाजगरं सुचिश्चरामि ॥
इदमिदमिति तृष्णयाऽभिभूतं जनमनवाप्तधनं विषीदमानम् ।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥
बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयं तम् ।
उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥
सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च ।
विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥
अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।
उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥
अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः ।
अपगतफलसञ्चयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥
अपगतमसुखार्थमीहनार्थै रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् ।
तृपितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥
न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च ।
तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥
बहु कथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम् ।
इदमिदमिति तत्रतत्र हन्त स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥
तदिदमनुनिशाम्य विप्रपातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।
अनवसितमनन्तदोषपारं नृपु विहरामि विनीतदोषतृष्णः ॥
भीष्म उवाच ।
अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः ।
अपगतभयलोभमोहमन्युः स खलु सुखी विचरेदिमं विहारम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0