भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.176

12.176.1

ईहमानः समारम्भान्यदि नासादयेद्धनम् ।
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥
भीष्म उवाच ।

12.176.2

सर्वसाम्यमनायासः सत्यवाक्यं च भारत ।
निर्वेदश्चाविधित्सा च यस्य स्यात्स सखी नरः ॥

12.176.3

एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये ।
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥

12.176.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥

12.176.5

ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः ।
केनचिद्धनलेशेन क्रीतवान्दम्यगोयुगम् ॥

12.176.6

सुसम्बद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ ।
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥

12.176.7

तयोः सम्प्राप्तयोरुष्ट्रः स्कन्धदेशममर्पणः ।
उत्थायोत्क्षिप्य तौ दम्यौ पससार महाजवः ॥

12.176.8

ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना ।
प्रियमाणौ च सम्प्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥

12.176.9

न जात्वविहितं शक्यं दक्षेणाषीहितुं धनम् ।
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥

12.176.10

पूर्वमर्यैर्विहीनस्य युक्तस्याप्युतिष्ठतः ।
इमं पश्यत सन्गत्या मम दैवमुपप्लवम् ॥

12.176.11

उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः ।
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥

12.176.12

मणीवोष्ट्रस्य लम्वेते प्रियौ वत्सतरौ मम ।
शुद्वं हि दैवमेवेदं हठे नैवास्ति पौरुषम् ॥

12.176.13

यदि वाऽप्युपपद्येत पौरुषं नाम कर्हिचित् ।
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥

12.176.14

तस्मान्निर्वेद एवेह गन्तव्यः सुखभीप्सता ।
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥

12.176.15

अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता ।
प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥

12.176.16

यः कामानाप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् ।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥

12.176.17

नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन ।
शरीरे जीविते चैव तृष्णा मर्त्यस्य वर्धते ॥

12.176.18

निवर्तस्य विधित्साभ्यः शाम्य निर्विद्य कामुक ।
असकृच्चासि निकृतो न च निर्विद्यसे मनः ॥

12.176.19

यदि नाहं विनाश्यस्ते यद्येवं रमसे मया ।
मा मां योजय लोभेन वृथाऽत्वं वित्तकामुक ॥

12.176.20

सञ्चितं सञ्चितं द्रव्यं नष्टं तव पुनः पुनः ।
कदा तां मोक्ष्यसे मूढ धनेहां धनकामुक ॥

12.176.21

अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव । क्लेशैर्नानाविधैर्नित्यं संयोजयसि निर्घृणः ।
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात् ॥

12.176.22

न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् ।
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥

12.176.23

नूनं मे हृदयं कामं वज्रसारमयं दृढम् ।
यदनर्थशताविष्टं शतधा न विदीर्यते ॥

12.176.24

त्यजामि काम त्वां चैव यच्च किञ्चित्प्रियं तव ।
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम् ॥

12.176.25

काम जानामि ते मूलं सन्कल्पात्किल जायसे ।
न त्वां सन्कल्पयिष्यामि समूलो नभविष्यसि ॥

12.176.26

ईहा धनस्य न सुखा लुब्ध्वा चिन्ता च भूयसी ।
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ॥

12.176.27

परित्यागे न लभते ततो दुःखतरं नु किम् ।
न च तुष्यति लब्धेन भूय एव च मार्गति ॥

12.176.28

अनुतर्पुल एवार्थः स्वादु गाङ्गभिवोदकम् ।
मद्विलापनमेततु प्रतिबुद्धोऽस्मि सन्त्यज ॥

12.176.29

य इमं मामकं देहं भूतग्रामः समाश्रितः ।
स यात्वितो यथाकामं वसतां वा यथासुखम् ॥

12.176.30

न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु ।
तस्मादुत्सृज्य वः सर्वान्सत्वमेवाश्रयाम्यहम् ॥

12.176.31

सर्व भूतान्यहं देहे पश्यन्मनसि चात्मनः ।
योगे बुद्धिं श्रुते सत्वं मनो ब्रह्मणि धारयन् ॥

12.176.32

विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः ।
यथा मां त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥

12.176.33

त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते ।
तृष्णा शोकश्रमाणां हि त्वं काम प्रभवः सदा ॥

12.176.34

धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम् ॥

12.176.35

अवज्ञानसहस्रैस्तु दोषाः कष्टतराऽधने ।
धने सुखकला या तु साऽपि दुःखैर्विधीयते ॥

12.176.36

धनमस्येति पुरुषं पुरो निघ्नन्ति दस्यवः ।
क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ॥

12.176.37

धनलोलुपता दुःखमिति बुद्धं चिरान्मया ।
यद्यदालम्बसे कामं तत्तदेवानुरुध्यसे ॥

12.176.38

अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥

12.176.39

पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि ।
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ॥

12.176.40

निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया ।
निवृत्तिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥

12.176.41

अतिक्लेशान्सहामीह नाहं बुद्ध्याम्यबुद्धिमान् ।
निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥

12.176.42

परित्यजामि काम त्वां हित्वा सर्वं मनोगतम् ।
न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ॥

12.176.43

क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः ।
द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥

12.176.44

तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् ।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥

12.176.45

निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् ।
सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥

12.176.46

तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च ।
त्यजन्तु मां प्रतिष्ठन्तं सत्वस्थो ह्यस्मि साम्प्रतम् ॥

12.176.47

प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च ।
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥

12.176.48

यद्यस्त्यजति कामानां तत्सुखस्याभिपूर्यते ।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥

12.176.49

कामानुबन्धं नुदते यत्किञ्चित्पुरुषो रजः ।
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥

12.176.50

एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम् ।
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥

12.176.51

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥

12.176.52

आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् ।
प्राप्यावध्यं ब्रह्मपुरं राजेव च वसाम्यहम् ॥

12.176.53

एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः ।
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥

12.176.54

दम्यनाशकृते मङ्किरमृतत्वं किलागमत् ।
अच्छिनत्काममूलं स तेन प्राप परां गतिम् ॥

12.176.55

अत्राप्युदाहरन्तीमं श्लोकं मोक्षोपसंहितम् ।
गीतं विदेहराजेन जनकेन प्रशाम्यता ॥

12.176.56

अनन्तमिव मे वित्तं यस्य मे नास्ति किञ्चन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन ॥

12.176.57

अत्रैवोदाहरन्तीमं बोध्यस्य पदसञ्चयम् ।
निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर ॥

12.176.58

बोध्यं शान्तमृषिं राजा नाहुषः पर्यपृच्छत ।
निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम् ॥

12.176.59

उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे ।
कां बुद्धिं समनुप्राप्य शान्तश्चरसि निर्वृतः ॥
बोध्य उवाच ।

12.176.60

उपदेशेन वर्तामि नानुशास्मीह कञ्चन ।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृष्यताम् ॥

12.176.61

पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने ।
इषुकारः कुमारी च षडेते गुरवो मम ॥
[*भीष्म उवाच ।

12.176.62

आशा बलवती राजन्नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥

12.176.63

सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ।
आमिषस्य परित्यागात्कुररः सुखमेधते ॥

12.176.64

गृहारम्भो हि दुःखाय न सुखाय कदाचन ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥

12.176.65

सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः ।
अद्रोहणैव भूतानां सारङ्ग इव पक्षिणः ॥

12.176.66

अल्पेभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः । सर्वतः सारमादद्यात्पुष्पेभ्य इव षट््पदः ॥

12.176.67

इषुकारो नरः कश्चिदिपावासक्तमानसः ।
समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥

12.176.68

बहूनां कलहो नित्यं द्वयोः सन्कथनं ध्रुवम् । एकाकी विचरिष्यानि कुमारीशङ्खको यथा ॥ ] ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc