महाभारत · अध्याय 12.171
अथ तत्र महार्चिष्माननलो वातसारथिः ।
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतोऽभवत् ॥
स चापि पार्श्वे सुष्वाप विश्वस्तो बकराट् तदा ।
कृतघ्नस्तु स दुष्टात्मा तं जिघांसुरजागरीत् ॥
ततोऽलातेन दीप्तेन स सुप्तं निजघान तम् ।
निहत्य च मुदा युक्तः सोऽनुबन्धं न दृष्टवान् ॥
स तं विपक्षरोमाणं कृत्वाऽग्नावपचत्तदा ।
तं गृहीत्वा सुवर्णं च ययौ द्रुततरं द्विजः ॥
ततो दाक्षायणीपुत्रं नागतं तं तु भारत । विरूपाक्षश्चिन्तयन्वै हृदयेन विदूयता ॥
ततोऽन्यस्मिन्गते चाह्नि विरूपाक्षोऽब्रवीत्सुतम् । न प्रेक्षे राजधर्माणमद्य पुत्र खगोत्तमम् ।
स पूर्वसन्ध्यां ब्रह्माणं वन्दितुं याति सर्वदा ।
मां चादृष्ट्वा कदाचित्स न गच्छति गृहं खगः ॥
द्विरात्रमुभयोः सन्ध्योर्नाभ्यगच्छन्ममालयम् ।
तस्मान्न शुद्ध्यते भावो मम स ज्ञायतां सुहृत् ॥
स्वाध्यायेन वियुक्तो हि ब्रह्मवर्चसवर्जितः ।
स गतस्तत्र मे शङ्का हन्यात्तं स द्विजाधमः ॥
दुराचारः स दुर्बुद्धिरिङ्गितैर्लक्षितो मया । निष्कृपो दारुणाकारो दुष्टो दस्युरिवाधमः ।
गौतमः स गतस्तत्र तेनोद्विग्नं मनो मम ॥
पुत्र शीघ्रमितो गत्वा राजधर्मनिवेशनम् ।
ज्ञायतां स विशुद्धात्मा यदि जीवति वा चिरम् ॥
स एवमुक्तस्त्वरितो रक्षोभिः सहितो ययौ ।
* न्यग्रोधे राजधर्माणमपश्यन्निहतं ततः ॥
रुदित्वा बहुशस्तस्मै विलप्य च स राक्षसः ।
गतो रोषसमाविष्टो गौतमग्रहणाय वै ॥
गृहीतो गौतमः पापो रक्षोभिः क्रोधमूर्च्छितैः ।
राजधर्मशरीरस्य कङ्कालश्चाप्यथो धृतः ॥
मनुव्रजं तु नगरं यातुधानास्ततो गताः ।
क्रोधरक्तेक्षणा घोरा गौतमस्य वधे धृताः ॥
पार्थिवस्वाग्रतो न्यस्तः कङ्कालो राजधर्मणः ।
तं दृष्ट्वा विमना राजा सामात्यः सगणोऽभवत् ॥
आर्तरावो महानासीद्गृहे तस्य महात्मनः ।
समुत्थितः स्रीसङ्घस्य निहते काश्यपात्मजे ॥
राजा चैवाब्रवीत्पुत्रं पापोऽयं वध्यतामिति ॥
राक्षमा ऊचुः ।
अस्य मांसं वयं सर्वे खादिष्यामः समागताः । पापकृत्पापकर्मा च पापात्मा पापमास्थितः ।
हन्तव्य एव पापात्मा कृतघ्नो नात्र संशयः ॥
विरूपाक्ष उवाच ।
कृतघ्नं पापकर्माणां न भक्षयितुमुत्सहे ।
दासेभ्यो दीयतामेप मित्रध्रुक्पुरुपाधमः ॥
भीष्म उवाच ।
दासाः सर्वे समाहूता यातुधानास्तथा परे ।
नेच्छन्ति स्म कृतघ्नं तं खादितुं पुरुषोत्तम ॥
शिरोभिश्चागता भूमिं महाराज ततो बलात् ।
मानार्थं जातु निर्बन्धं किल्विषं दातुमर्हसि ॥
यातुधाना नृपेणोक्ताः पापकर्मा विशस्यताम् ।
दह्यतां त्यज्यतां वाऽयं दर्शनादपनीयताम् ॥
ततस्ते रुपिता दासाः शूलपट्टसपाणयः ।
खण्डशो विकृतं हत्वा क्रव्याद्भ्यो ह्यददुस्तदा ॥
क्रव्यादास्त्वपि राजेन्द्र नेच्छन्ति पिशिताशनाः ।
मृतानपि हि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥
ब्रह्मस्वहरणे चोरे ब्रह्मघ्ने गुरुतल्पगे ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥
मित्रद्रुहं कृतघ्नं च नृशंसं च नराधमम् ।
क्रव्यादाः किमयश्चैव नोपभुञ्जन्ति वै सदा ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0