भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.170

12.170.1

ततः स विदितो राज्ञः प्रविश्य गृहमुत्तमम् ।
पूजितो राक्षसेन्द्रेण निपसादासनोत्तमे ॥

12.170.2

पृष्टश्च गोत्रचरणं स्वाध्यायं ब्रह्मचारिकम् ।
पृष्टो राज्ञा स नाज्ञासीद्गोत्रमात्रमथाब्रवीत् ॥

12.170.3

ब्रह्मवर्चमहीनस्य स्वाध्यायाद्विरतस्य च ।
गोत्रमात्रविदो राजा निवामं समपृच्छत ॥
राक्षम उवाच ।

12.170.4

क्व ते निवासः कल्याण किन्गोत्रा ब्राह्मणी च ते ।
तत्त्वं ब्रूहि न भीः कार्या विश्रमस्व यथासुखम् ॥
गौतम उवाच ।

12.170.5

मध्यदेशप्रसूतोऽहं वासो मे शवरालये ।
शूद्री पुनर्भूर्भार्या मे सत्यमेतद्ब्रवीमि ते ॥
भीष्म उवाच ।

12.170.6

ततो राजा विममृशे कथं कार्यमिदं भवेत् ।
कथं वा सुकृतं मे स्यादिति वुद्ध्याऽन्वचिन्तयन् ॥

12.170.7

अयं वै जन्मना विप्रः सुहृत्तम्य महात्मनः ।
सम्प्रेपितश्च तेनायं काश्यपेन महात्मना ॥

12.170.8

तस्य प्रियं करिष्यामि स हि मामाश्रितः सदा ।
भ्राता मे बान्धवश्चासौ सखा चैव प्रियो मम ॥

12.170.9

कार्तिक्यामद्य भोक्तारः सहस्रं मे द्विजोत्तमाः ।
तत्रायमपि भोक्ता तु देयमस्मै च मे धनम् ॥

12.170.10

स चाद्य दिवसः पुण्यो ह्यतिथिश्चायमागतः ।
सन्कल्पितं चैव धनं किं विचार्यमतः परम् ॥

12.170.11

ततः सहस्रं विप्राणां विदुषां समलन्कृतम् ।
स्नातानामनुलिप्तानामहतक्षौमवाससाम् ॥

12.170.12

तानागतान्द्विजश्रेष्ठान्विरूपाक्षो विशाम्पते ।
यथार्हं प्रतिजग्राह विधिदृष्टेन कर्मणा ॥

12.170.13

बृस्यस्तेषां तु सन्न्यस्ता राक्षसेन्द्रस्य शासनात् ।
भूमौ वरकुशाः स्तीर्णाः प्रेष्यैर्भरतसत्तम ॥

12.170.14

तासु ते पूजिता राज्ञा निपण्णा द्विजसत्तमाः ।
निलदर्भोदकेनाथ अर्चिता विधिवद्द्विजाः ॥

12.170.15

विश्वेदेवाः सपितरः साग्नयश्चोपकल्पिताः । विलिप्ताः पुष्पवन्तश्च सुप्रचाराः सुपूजिताः ।
व्यराजन्त महाराज नक्षत्रपतयो यथा ॥

12.170.16

ततो जाम्बूनदीः पात्रीर्वज्राङ्का विमलाः शुभाः ।
वरान्नपूर्णा विप्रेभ्यः प्रादान्मधुघृतप्लुताः ॥

12.170.17

तस्य नित्यं मदापाढ्यां माध्यां च बहवो द्विजाः ।
ईप्सितं भोजनवरं लभन्ते सत्कृतं तथा ॥

12.170.18

विशेषतस्तु कार्तिक्यां द्विजेभ्यः सम्प्रयच्छति ।
शरद्व्यपाये रत्नानि पौर्णमास्यामिति श्रुतिः ॥

12.170.19

सुवर्णं रजतं चैव मणीनथ च मौक्तिकान् ।
वज्रान्महाधनांश्चैव वैदूर्याजिनराङ्कवान् ॥

12.170.20

रत्नवन्ति च पात्राणि दक्षिणार्थं स भारत ।
दत्त्वा प्राह द्विजश्रेष्ठान्विरूपाक्षो महायशाः ॥

12.170.21

गृह्णीत रत्नान्येतानि यथोत्साहं यथेष्टतः । येषुयेषु च भाण्डेषु भुक्तवन्तो द्विजोत्तमाः ।
तान्येवादाय गच्छध्वं स्ववेश्मानीति भारत ॥

12.170.22

इत्युक्तवचने तस्मिन्राक्षसेन्द्रे महात्मनि ।
यथेष्टं तानि रत्नानि जगृहुर्ब्राह्मणवर्षभाः ॥

12.170.23

ततो महार्हैस्तैस्तेन रत्नैरभ्यर्चिताः शुभैः ।
ब्राह्मणा मृष्टवसनाः सुप्रीताः समुदोऽभवन् ॥

12.170.24

ततस्तान्राक्षसेन्द्रस्तु द्विजानाह पुनर्वचः ।
नाना देशागतान्राजा ब्राह्मणाननुमन्य वै ॥

12.170.25

अद्यैकं दिवसं विप्रा न वोऽस्तीह भयं क्वचित् ।
राक्षसेभ्यः प्रमोदध्वमिष्टतो यात माचिरम् ॥

12.170.26

ततः प्रदुद्रुवुः सर्वे विप्रसङ्घाः समन्ततः ।
गौतमोऽपि सुवर्णस्य भारमादाय सत्वरः ॥

12.170.27

कृच्छ्रात्समुद्वहन्भारं न्यग्रोधं समुपागमत् ।
न्यषीदच्च परिश्रान्तः क्लान्तश्च क्षुधितश्च सः ॥

12.170.28

ततस्तमभ्यगाद्राजन्राजधर्मा खगोत्तमः ।
स्वागतेनाभ्यनन्दच्च गौतमं मित्रवत्सलः ॥

12.170.29

तस्य पक्षाग्रविक्षेपैः क्लमं व्यपनयद्बकः ।
पूजां चाप्यकरोद्धीमान्भोजनं च यथाविधि ॥

12.170.30

ततस्तौ संविदं कृत्वा खगेन्द्रद्विजसत्तमौ ॥

12.170.31

गौतमश्चिन्तयामास रात्रौ तस्य समीपतः ।
हाटकस्याभिरूपस्य भारोऽयं सुमहान्मया ॥

12.170.32

गृहीतो लोभमोहाभ्यां दूरं च गमनं मम । न चास्ति पथि भोक्तव्यं प्राणसन्धारणं मम ।
किं कृत्वा सुकृतं हि स्यादिति चिन्तापरोऽभवत् ॥

12.170.33

ततः स पथि भोक्तव्यं प्रेक्षमाणो न किञ्चन ।
कृतघ्नः पुरुषव्याघ्र मनसेदमचिन्तयत् ॥

12.170.34

अयं बकपतिः पार्श्वे मांसराशिचितो महान् ।
इमं हत्वा गृहीत्वाऽस्य मांसं यास्य इति प्रभो ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc