भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.166

12.166.1

पितामह महाप्राज्ञ कुरूणां प्रीतिवर्धन ।
प्रश्नं कञ्चित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि ॥

12.166.2

कीदृशा मानवाः सेव्याः कै प्रीति परमा भवेत् ।
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे ॥

12.166.3

न हि तत्र धनं स्फीतं न च सम्बन्धिबान्धवाः ।
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम ॥

12.166.4

दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत् ।
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि ॥
भीष्म उवाच ।

12.166.5

सन्धेयान्पुरुषान्राजन्नसन्धेयांश्च तत्त्वतः ।
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥

12.166.6

लुब्धः क्रूरस्त्यक्तधर्मा निकृतिः शठ एव च ।
क्षुद्रः पापसमाचारः सर्वशङ्की तथाऽलसः ॥

12.166.7

दीर्घसूत्रोऽनृजुः क्रुष्टो गुरुदारप्रधर्पकः ।
व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥

12.166.8

सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः ।
सम्प्रकीर्णेन्दियो लोके यः कालनिरतश्चरेत् ॥

12.166.9

असभ्यो लोकविद्विष्टः समये चानवस्थितः ।
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥

12.166.10

दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा ।
मित्रैरपकृतिर्नित्यमटतेऽर्थं धनेप्सया ॥

12.166.11

ददतश्च यथाशक्ति यो न तुष्यति मन्दधीः ।
अधैर्यमपि यो युङ्क्ते सदा मित्रं नराधमः ॥

12.166.12

अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते ।
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिपी ॥

12.166.13

अल्पेऽप्यपकृते मूढे न संस्मरनि यत्कृतम् । कार्यसेवी च मित्रेषु मित्रद्वेषी नराधिप ।

12.166.14

शत्रुर्मित्रमुखो यश्च जिह्नप्रेक्षी विलोचनः ।
न तुष्यति च कल्याणे यम्त्यजेत्तादृशं नरम् ॥

12.166.15

पानपो द्वेषणः क्रोधी निर्घृणः परुपस्तथा ।
परोपतापी मित्रध्रुक् तथा प्राणिवधे रतः ॥

12.166.16

कृतघ्नश्चाधमो लोके न सन्धेयः कथञ्चन ।
मित्रद्वेषी ह्यसन्धेयः सन्धेयानपि मे शृणु ॥

12.166.17

कुलीना वाक्यसम्पन्ना ज्ञानविज्ञानकोविदाः ।
रूपवन्तो गुणोपेतास्तथाऽलुब्धा जितश्रमाः ॥

12.166.18

सन्मित्राश्च कृतज्ञाश्च सर्वज्ञा लोभवर्जिताः ।
माधुर्यगुणसम्पन्नाः सत्यसन्धा जितेन्द्रियाः ॥

12.166.19

व्यायामशीलाः सततं भृत्यपुत्राः कुलोद्वहाः ।
दोषैः प्रमुक्ताः प्रथितास्ते ग्राह्याः पार्थिवैर्नराः ॥

12.166.20

यथाशक्ति समाचाराः सम्प्रतुष्यन्ति हि प्रभो ।
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः ॥

12.166.21

विरक्ताश्च न दुष्यन्ति मनसाऽप्यर्थकोविदाः । आत्मानं पीडयित्वाऽपि सुहृत्कार्यपरायणाः ।
विरज्यन्ति न मित्रेभ्यो वासो रक्तमिवाविकम् ॥

12.166.22

दोषांश्च लोभमोहादीनर्थेषु युवतीपु च ।
न दर्शयन्ति सुहृदो विश्वस्ता बन्धुवत्सलाः ॥

12.166.23

लोष्टकाञ्चनतुल्यार्थाः सुहृत्सु दृढबुद्धयः । ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः ।
सन्गृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा ॥

12.166.24

ईदृशैः पुरुषश्रेष्ठैर्यः सन्धिं कुरुते नृपः ।
तस्य विस्तीर्यते राज्यं ज्योत्स्ना ग्रहपतेरिव ॥

12.166.25

सत्ववन्तो जितक्रोधा बलवन्तो रणे सदा । जन्मशीलगुणोपेताः सन्धेयाः पुरुषोत्तमाः ।

12.166.26

ये च दोपसमायुक्ता नराः प्रोक्ता मयाऽन । तेषामप्यधमा राजन्कृतघ्ना मित्रघातकाः ।
त्यक्तव्यास्तु दुराचाराः सर्वेषामिति निश्चयः । ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc