भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.165

12.165.1

इत्युक्तवति भीष्मे तु तूष्णीम्भूते युधिष्ठिरः ।
पप्रच्छावसथं गत्वा भ्रातृन्विदुरपञ्चमान् ॥

12.165.2

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥

12.165.3

कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै ।
सम्पृष्टा नैष्ठिकं वाक्यं यथाबद्वक्तुमर्हथ ॥

12.165.4

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥
विदुर उवाच ।

12.165.5

बहुश्रुतं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।
भावशुद्धिर्दया सत्यं संयमश्चात्मसम्पदः ॥

12.165.6

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥

12.165.7

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।
धर्मेण देवा दिवि च धर्मे चार्थः समाहितः ॥

12.165.8

धर्मो राजन्गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते ।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ॥

12.165.9

तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ।
तथा च सर्वभूतेषु वर्तितव्यं यतात्मना ॥
वैशम्पायन उवाच ।

12.165.10

समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः ।
ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः ॥

12.165.11

कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते ।
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च ॥

12.165.12

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।
निवृत्तेऽर्थे न वर्तेते धर्मकामाविति श्रुतिः ॥

12.165.13

विषहेतार्थवान्धर्ममाराधयितुमुत्तमम् ।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥

12.165.14

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।
अर्थसिद्ध्या विनिर्वृत्तावृभावेतौ भविष्यतः ॥

12.165.15

तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः ।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥

12.165.16

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥

12.165.17

काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः ।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥

12.165.18

अर्थार्थिनः सन्ति नित्यं परितष्यन्ति कर्मभिः । अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः ।
कुलप्रत्यागमाश्चैके स्वंस्वं धर्ममनुष्ठिताः ॥

12.165.19

आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता ॥

12.165.20

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् । एतन्मतिमतांश्रेष्ठ मतं मम यथातथम् ।
अनयोस्तु विबोध त्वं वचनं शक्रकण्वयोः ॥
वैशम्पायन उवाच ।

12.165.21

तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।
नकुलः सहदेवश्च वाक्यमूचतुरुत्तमम् ॥

12.165.22

आसीनश्च शयानश्च विचरन्नपि वा स्थितः ।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥

12.165.23

अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये ।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥

12.165.24

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।
मध्विवामृतसंसृष्टं तस्मादेतौ मताविह ॥

12.165.25

अनर्थस्य न कामोस्ति तथाऽर्थोऽधर्मिणः कुतः ।
तस्मादुद्विजले लोको धर्मार्थाभ्यां बहिष्कृतात् ॥

12.165.26

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि ॥

12.165.27

धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम् ।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥
वैशम्पायन उवाच ।

12.165.28

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।
भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे ॥

12.165.29

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥

12.165.30

कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।
पलाशाः शाकमूलाशा वायुभक्षाः सुसंयताः ॥

12.165.31

वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः ।
श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे ॥

12.165.32

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।
देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥

12.165.33

समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः ।
कामो हि विविधाकारः सर्वं कामेन सन्ततम् ॥

12.165.34

नास्ति नासीन्न भविता भूतं काममृते परम् ।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥

12.165.35

नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं न पिण्याको घृतं श्रेय उदश्वितः ॥

12.165.36

श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः । पुष्पतो मध्विव परं कामात्सञ्जायते सुखम् ।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥

12.165.37

[नाकामतो ब्राह्मणाः स्वन्नमर्था न्नाकामतो ददति ब्राह्मणेभ्यः ।
नाकामतो विविधा लोकचेष्टा तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः ॥ ]

12.165.38

सुचारुवेषाभिरलन्कृताभि र्मदोत्कटाभिः प्रियवादिनीभिः ।
रमस्व योषिद्भिरुपेत्य कामं कामो हि राजन्परमाभिरामः ॥

12.165.39

बुद्धिर्ममैषा परिखास्थितस्य माभूद्विचारस्तव धर्मपुत्र ।
स्वात्संहितं सद्भिरफल्गुसार मसस्तवाक्यं परमानृशंसम् ॥

12.165.40

वर्मार्थकामाः सममेव सेव्या यो ह्येकभक्तः स नरो जघन्यः ।
द्वयोस्तु सक्तं प्रवदन्ति मध्यमं स उत्तमो योऽभिरतस्त्रिवर्गे ॥

12.165.41

प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः ।
ततो वचः सन्ग्रहविस्तरेण प्रोक्त्वाऽथ वीरान्विरराम भीमः ॥

12.165.42

ततो मुहूर्तादथ धर्मराजो वाक्यानि तेषामनुचिन्त्य सम्यक् ।
उवाच वाचाऽवितथं स्मयन्वै बहुश्रुतो धर्मभृतां वरिष्ठः ॥

12.165.43

निःसंशयं निश्चितसर्वशास्त्राः सर्वे भवन्तो विदितप्रमाणाः ।
विज्ञातुकामस्य ममेह वाक्य मुक्तं यद्वो नैष्ठिकं तच्छ्रुतं मे । इहानुवंशं गदतो ममापि वाक्यं निबोधध्वमनन्यभावाः ॥

12.165.44

यो वै न पापे निरतो न पुण्ये नार्थे न धर्मे मनुजो न कामे ।
विमुक्तदोषः समफल्गुसारो विमुच्यते दुःखसुखात्स सिद्धः ॥

12.165.45

भूतानि जातीमरणान्वितानि जराविकारैश्च समन्वितानि ।
भूयश्च तैस्तैरुपसेवितानि मोक्षं प्रशंसन्ति न तं च विद्मः ॥

12.165.46

स्नेहेन बद्धस्य न सन्ति तानि चैवं स्वयम्भूर्भगवानुवाच ।
बोधाय निर्वाणपरा भवन्ति तस्मान्न कुर्यात्प्रियमप्रियं च ॥

12.165.47

एतच्च मुख्यं न तु कामकारो यथा नियुक्तोऽस्मि तथा करोमि ।
भूतानि सर्वाणि विधिर्नियुङ्क्ते विधिर्बलीयानिति वित्त सर्वे ॥

12.165.48

न कर्मणाऽप्नोत्यनवाप्यमर्थं यद्भावि तद्वै भवतीति विद्मः ।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं तस्माददो लोकहिताय गुह्यम् ॥
वैशम्पायन उवाच ।

12.165.49

तदग्र्यबुद्धेर्वचनं मनोनुगं समस्तमाज्ञाय तथाहि हेतुमत् ।
तदा प्रणेदुश्च जहर्षिरे च ते कुरुप्रवीराय च चक्रिरेऽञ्जलिम् ॥

12.165.50

सुचारुवर्णाक्षरशब्दभूषितां मनोनुगां निर्गतवाक्यकण्टकाम् ।
निशम्य तां पार्थिवभाषितां गिरं पार्थस्य सर्वे प्रणता बभूवुः ॥

12.165.51

तथैव राजा प्रशशंस् वीर्यवान् पुनश्च पप्रच्छ सरिद्वरासुतम् ।
धर्मार्थकामेषु विनिश्चयज्ञं ततः परं धर्ममहीनचेतसम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc