भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.152

12.152.1

कच्चित्पितामहेनासीच्छ्रुवं वा दृष्टमेव च ।
कच्चिन्मर्त्यो मृतो राजन्पुनरुज्जीवितोऽभवत् ॥
भीष्म उवाच ।

12.152.2

शृणु पार्थ यथावृत्तमितिहासं पुरातनम् ।
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरे ॥

12.152.3

कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः ।
बाल एव विशालाक्षो बालग्रहनिपीडितः ॥

12.152.4

दुःखिताः केचिदादाय बालमप्राप्तयोवनम् ।
कुलसर्वस्वभूतं वै रुदन्तः शोककर्शिताः ॥

12.152.5

बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः ।
अङ्गेनाङ्गं समाक्रस्य रुरुदुर्भृशदुःखिताः ॥

12.152.6

शोचन्तस्तस्य पूर्वोक्तान्भाषितांश्चासकृत्पुनः ।
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः ॥

12.152.7

तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ।
प्रेतात्मकमिमन्काले त्यक्त्वा गच्छत माचिरम् ॥

12.152.8

इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह ।
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः ॥

12.152.9

सम्पश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् ।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥

12.152.10

गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् ।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥

12.152.11

अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसन्कुले ।
कङ्कालबहुले घोरे सर्वप्राणिभयन्करे ॥

12.152.12

न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥

12.152.13

सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता ।
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति ॥

12.152.14

दिशान्तोपचितो यावदस्तं गच्छति भास्करः ।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥

12.152.15

ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप ।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥

12.152.16

विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः । [मृत इत्येव गच्छन्तो निराशास्तस्य दर्शने ॥ ]

12.152.17

निश्चितार्थाश्च ते सर्वे सन्त्यजन्तः स्वमात्मजम् ।
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः ॥

12.152.18

ध्वाङ्क्षपक्षसवर्णस्तु बिलान्निःसृत्य जम्बुकः ।
गच्छमानान्स्म तानाह निर्घृणाः खलु मानुषाः ॥

12.152.19

आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
बहुरूपो मुहूर्ताच्च जीवेदपि च बालकः ॥

12.152.20

दर्भान्भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः ।
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः ॥

12.152.21

न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि ।
यस्य भाषितमात्रेण प्रसादमधिगच्छत ॥

12.152.22

न पश्यध्वं सुतस्नेहो यादृशः पशुपक्षिणाम् ।
न तेषां धारयित्वा तान्कश्चिदस्ति फलागमः ॥

12.152.23

चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् ।
परलोकगतिस्थानां मुनियज्ञक्रियामिव ॥

12.152.24

तेषां पुत्राभिरामाणामिह लोके परत्र च ।
न गुणो दृश्यते कश्चित्प्रजाः सन्धारयन्ति च ॥

12.152.25

अपश्यतां प्रियान्पुत्रान्येषां शोको न तिष्ठति ।
न ते पोषणसम्प्रीता मातापितर एव हि ॥

12.152.26

मानुषाणां कुतः स्नेहो येषां शोको न विद्यते ।
इमं कुलकरं पुत्रं त्यक्त्वा क्व नु गमिष्यथ ॥

12.152.27

चिरं मुञ्चत बाष्पं च चिरं स्नेहेनन पश्यत ।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥

12.152.28

क्षीणस्याथामिशस्तस्य श्मशानाभिमुखस्य च ।
बान्धवा यत्र तिष्ठति तत्रान्यो नाधितिष्ठति ॥

12.152.29

सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति ।
तिर्यग्योनिष्वपि सन्तां स्नेहं पश्यत यादृशम् ॥

12.152.30

त्यक्त्वा कथं गच्छथेमं पद्मलोलायतेक्षणम् । यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम् ।

12.152.31

जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः ।
न्यवर्तन्त तदा सर्वे बालार्थं ते स्म मानुषाः ॥
गृध्र उवाच ।

12.152.32

अहो बत नृशंसेन जम्बुकेनाल्पमेधसा ।
क्षुद्रेणोक्ता हीनसत्वा मानुषाः किं निवर्तथ ॥

12.152.33

पञ्चभूतपरित्यक्तं शुष्कं काष्ठत्वमागतम् ।
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ॥

12.152.34

तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् ।
तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥

12.152.35

अनिष्टानि न भाग्यानि जानीत स्वंस्वमात्मना ।
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम् ॥

12.152.36

धनं गावः सुवर्णं च मणिरत्नमथापि च ।
अपत्यं च तपोमूलं तपो योगाच्च लभ्यते ॥

12.152.37

यथा कृता च भूतेषु प्राप्यते सुखदुःखिता ।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥

12.152.38

न कर्मणा पितुः पुत्रः पिता व्रा पुत्रकर्मणा ।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः ॥

12.152.39

धर्मं चरत यत्नेन तथाऽधर्मान्निवर्तत ।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥

12.152.40

शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत ।
त्यज्यतामयमाक्रोशस्ततः शीघ्रं निवर्तत ॥

12.152.41

यत्करोति शुभं कर्म तथा कर्म सुदारुणम् ।
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह ॥

12.152.42

इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् ।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥

12.152.43

प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥

12.152.44

किं करिष्यथ शोचित्वा मृतं किमनुशोचथ ।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥

12.152.45

यौवनस्थांश्च बालांश्च बृद्धान्गर्भगतानपि ।
सर्वानाविशते मृत्युरेवम्भूतमिदं जगत् ॥
जम्बुक उवाच ।

12.152.46

अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना ।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥

12.152.47

समैः सम्यक्प्रयुक्तैश्च वचनैर्हेतुदर्शनैः । सर्वमेतत्प्रपद्याशु कुरुध्वं वा विचारणां ।
यद्गच्छथ जलस्थानं स्नेहमुत्सृज्य दुस्त्यजम् ॥

12.152.48

अहो पुत्रवियोगेन मृतशून्योपसेवनात् ।
क्रोशतां वा भृशं दुःखं विवत्सानां गवामिव ॥

12.152.49

अद्य शोकं विजानामि मानुषाणां महीतले ।
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन् ॥

12.152.50

यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति ।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥

12.152.51

अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् ।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम् ॥

12.152.52

आत्ममांसोपवृत्तं च शरीरार्धमर्यी तनुम् ।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥

12.152.53

अथवाऽस्तं गते सूर्ये सन्ध्याकाल उपस्थिते ।
ततो नेष्यश्च वा पुत्रमिहस्था वा भविष्यथ ॥
गृध्र उवाच ।

12.152.54

अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः ।
न च पश्यामि जीवन्तं मृतं स्त्रीपुन्नपुंसकम् ॥

12.152.55

मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च ।
चन्क्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे ॥

12.152.56

अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि ।
जङ्गमाजङ्गमानां च ह्यायुरग्रेऽवतिष्ठते ॥

12.152.57

इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा ।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः ॥

12.152.58

अनिष्टानां सहस्राणि तथेष्टानां शतानि च ।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥

12.152.59

त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः ।
अन्यदेहविषक्तं हि शिशुं काष्ठमुपासथ ॥

12.152.60

त्यक्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छत ।
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः ॥

12.152.61

न च क्षुर्भ्यां न कर्णाभ्यां च शृणोति स पश्यति ।
कस्मादेनं सप्नुत्सृज्य न गृहान्गच्छताशु वै ॥

12.152.62

मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः ।
भयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥

12.152.63

प्रज्ञाविज्ञानयुक्तेन बुद्धिसञ्ज्ञाप्रदायिना ।
वच्चं श्राविता नूनं मानुषाः सन्निवर्तथ ॥

12.152.64

[शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् । इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः ।
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः ॥ ]
जम्बुक उवाच ।

12.152.65

इमं कनकवर्णाभं भूषणैः समलन्कृतम् ।
गृध्रवाक्यात्कथं पुत्रं त्यक्ष्यध्वं पितृपिण्डदम् ॥

12.152.66

न स्नेहस्य च विच्छेदो विलापरुदितस्य च ।
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ॥

12.152.67

श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः ।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥

12.152.68

तथा श्वैत्यस्य राजर्षेर्बालो दिष्टान्तमागतः ।
मुनिना धर्मनिष्ठेन मृतः सञ्जीवितः पुनः ॥

12.152.69

तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा ।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥

12.152.70

इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः । अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम् ।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ॥

12.152.71

अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः ।
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः ॥

12.152.72

तपसाऽपि हि संयुक्तो जनः कालेन हन्यते । सर्वस्नेहावसक्तानामिदं हि स्नेहवर्तनम् ॥

12.152.73

बालवृद्धसहस्राणि सदा सन्त्यज्य बान्धवाः ।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥

12.152.74

अलं निर्बन्धमागत्य शोकस्य परिवारणम् ।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥

12.152.75

नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् । मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ॥

12.152.76

नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि ।
न स जीवयितुं शक्यो बालो वर्षशतैरपि ॥

12.152.77

अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च ।
वरमस्मै प्रयच्छन्ति ततो जीवेदयं शिशुः ॥

12.152.78

नैव बाष्पविमोक्षेण न वा श्वासकृतेन च ।
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति ॥

12.152.79

अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः ।
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ॥

12.152.80

अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ।
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत् ॥

12.152.81

धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम् ।
अजिह्नत्वमशाठ्यं च यत्नतः परिमार्गत ॥

12.152.82

मातरं पितरं वाऽपि बान्धवान्सुहृदस्तथा ।
जीवतो ये न पश्यति तेषां धर्मविपर्ययः ॥

12.152.83

यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथञ्चन ।
तस्य निष्ठावसानान्ते रुदन्ताः किं करिष्यथ ॥

12.152.84

इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः ।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम् ॥
जम्बुक उवाच ।

12.152.85

दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः ।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम् ॥

12.152.86

बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम् । इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम् ।
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ॥

12.152.87

अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा ।
कथं गच्छथ निःस्नेहाः सुतस्नेहं विसृज्य च ॥

12.152.88

प्रदीप्ताः पुत्रशोकेन सन्निवर्तथ मानुषाः ।
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥

12.152.89

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
सुखदुःखावृते लोके नास्ति सौख्यमनन्तकम् ॥

12.152.90

इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम् ।
कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ॥

12.152.91

रूपयौवनसम्पन्नं द्योतमानमिव श्रिया ।
जीवन्तमेव पश्यामि मनसा नात्र संशयः ॥

12.152.92

विनाशेनास्य न हि वै सुखं प्राप्स्यथ मानुषाः ।
पुत्रशोकाभितप्तानां मृतमप्यद्य वः क्षमम् ॥

12.152.93

दुःखसम्भावनं कृत्वा धारयित्वा सुखं स्वयम् ।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥
भीष्म उवाच ।

12.152.94

तथा धर्मविरोधेन प्रियमिथ्याभिधायिनाम् ।
श्मशानवासिना नित्यं रात्रिं मृगयता नृप ॥

12.152.95

ततो मध्यस्थतां नीता वचनैरमृतोपमैः ।
जम्बुकेन स्वकार्यार्थं बान्धवास्तत्र वारिताः ॥
गृध्र उवाच ।

12.152.96

अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः ।
दारुणः काननोद्देशः कौशिकैरभिनादितः ॥

12.152.97

भीमः सुघोरश्च तथा नीलमेघसमप्रभः ।
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ॥

12.152.98

भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः ।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥

12.152.99

नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम् ।
मृगेन्द्राः प्रतिनर्दन्ति रविरस्तं च गच्छति ॥

12.152.100

चिता धूमेन नीलेन संरज्यन्ते च पादपाः ।
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः ॥

12.152.101

सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे ।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः ॥

12.152.102

क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति ।
त्यज्यतां काष्ठभूतोऽयं मुच्यतां जाम्बुकं वचः ॥

12.152.103

यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च ।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ॥
जम्बुक उवाच ।

12.152.104

स्थीयतां वो न भेतव्यं यावत्तपति भास्करः ।
तावदस्मिन्सुते स्नेहादनिर्वेदेन वर्तत ॥

12.152.105

स्वैरं रुदन्तो विस्रब्धाश्चिरं स्नेहेन पश्यत ।
दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति ॥

12.152.106

अयं सौम्यो वनोद्देशः पितृणां निधनाकरः । स्थीयतां यावदादित्यः किंवः क्रव्यादभाषितैः ॥

12.152.107

यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च ।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥
भीष्म उवाच ।

12.152.108

गृध्रो नास्तमितेऽभ्येति तिष्ठेन्नक्तं च जम्बुकः ।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥

12.152.109

स्वकार्यबद्धकक्षौ तौ राजन्गृध्रोऽथ जम्बुकः ।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥

12.152.110

तयोर्विज्ञानविदुषोर्द्वयोर्मृगपतत्रिणोः ।
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ते व्रजन्ति च ॥

12.152.111

शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा ।
स्वकार्यकुशलाभ्यां ते सम्भ्राम्यन्ते ह नैपुणात् ॥

12.152.112

तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः ।
बान्धवानां स्थितानां चाप्युपातिष्ठत शन्करः ॥

12.152.113

देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः ।
ततस्तानाह मनुजान्वरदोऽस्मीति शन्करः ॥

12.152.114

ते प्रत्यूचुरिदं वाक्य दुःखिताः प्रणताः स्थिताः । एकपुत्रविहीनानां सर्वेष्नां जीवितार्थिनाम् ।
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ॥

12.152.115

एवमुक्तः स भगवान्वारिपूर्णेन पाणिना ।
जीवं तस्मै कुमाराय प्रादाद्वर्षशतानि वै ॥

12.152.116

तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम् ।
वरं पिनाकी भगवान्सर्वभूतहिते रतः ॥

12.152.117

ततः प्रणम्य ते देवं श्रेयोहर्षसमन्विताः ।
कृतकृत्याः सुसंहृष्टाः प्रातिष्ठन्त तदा विभो ॥

12.152.118

अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च ।
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥

12.152.119

पश्य दैवस्य संयोगं बान्धवाना च निश्चयम् ।
कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम् ॥

12.152.120

पश्य चाल्पेन कालेन निश्चयाध्वेषणेन च ।
प्रसादं शन्करात्प्राप्य दुःखिताः सुखमाप्नुवन् ॥

12.152.121

ते विस्मिताः प्रहृष्टाश्च पुत्रसञ्जीवनात्पुनः ।
बभूवुर्भरतश्रेष्ठ प्रसादाच्छन्करस्य वै ॥

12.152.122

ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम् ।
विविशुः पुत्रमादाय नगरं हृष्टमानसाः ॥

12.152.123

एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता ॥

12.152.124

धर्मार्थमोक्षसंयुक्तमितिहासं पुरातनम् ।
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc