भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.151

12.151.1

तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे ।
श्रीमन्महाबलस्तुष्टः स्वयं धर्ममवेक्षसे ॥

12.151.2

पुरस्ताद्दारुणे भूत्वा सुचित्रतरमेव तत् ।
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः ॥

12.151.3

कृत्स्ने नूनं सदसती इति लोको व्यवस्यति । यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि ।

12.151.4

दर्पं हित्वा पुनश्चापि भोगांश्च तप आस्थितः ।
इत्येतदभिभूतानामद्भुतं जनमेजय ॥

12.151.5

योऽदुर्बलो भवेद्दाता कृपणो वा तपोधनः ।
अनाश्चर्यं तदित्याहुर्नातिदूरेण वर्तते ॥

12.151.6

तप एव हि कार्पण्यं समग्रमसमीक्षितम् ।
तच्चेत्समीक्षयैव स्याद्भवेत्तस्मिंस्तपो गुणः ॥

12.151.7

यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते ।
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥

12.151.8

तदेव राज्ञां परमं पवित्रं जनमेजय ।
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥

12.151.9

पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् ।
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना ॥

12.151.10

यो मर्त्यः प्रतिपद्येत आयुर्जीवेन वा पुनः ।
यज्ञमेकं ततः कृत्वा तत्सन्न्यस्य तपश्चरेत् ॥

12.151.11

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥

12.151.12

यत्रावगाह्य स्थित्वा च नैनं श्वोमरणं तपेत् ।
महासरः पुष्कराणि प्रभासोत्तरमानसे ॥

12.151.13

कालोदकं च गन्तासि लब्धायुर्जीविते पुनः । सरस्वतीदृषद्वत्योः सेवमानोऽनुसञ्ज्वरेत् ।
स्वाध्यायशील एतेषु सर्वेष्वेवमुपस्पृशेत् ॥

12.151.14

त्यागधर्मं पवित्राणां सन्न्यासं मनुरब्रवीत् ॥

12.151.15

अत्राप्युदाहरन्तीमाः गाथाः सत्यवता कृताः । यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत ।
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥

12.151.16

एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् । त्यजतां जीवितं प्रायो निवृत्ते पुण्यपापके ।

12.151.17

यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते ॥

12.151.18

बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ।
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः ॥

12.151.19

ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ।
यथैवैतान्पुरा क्षेप्सीस्तथैवैतान्प्रसादय ॥

12.151.20

अपि धिक््क्रियमाणोऽपि तर्ज्यमानोऽप्यनेकधा । आत्मनो दर्शनं विद्वान्नाहर्ताऽस्मीति मा क्रुधः ।
घटमानः स्वकार्येषु कुरु निःश्रेयसं परम् ॥

12.151.21

हिमाग्निघोरसदृशो राजा भवति कश्चन ।
लाङ्गलाशिकल्पो वा भवेदन्यः परन्तपः ॥

12.151.22

न विशेषेण गन्तव्यमचिकित्सेन वा पुनः ।
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ॥

12.151.23

विकर्मणा तप्यमानः पापात्पापः प्रमुच्यते ।
नैतत्कुर्या पुनरिति द्वितीयात्परिमुच्यते ॥

12.151.24

चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ।
शुचिस्तीर्थान्यनुचरन्बहुत्वात्परिमुच्यते ॥

12.151.25

कल्याणमनुकर्तव्यं पुरुषेण बुभूषता ।
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥

12.151.26

ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ये ।
तपश्चर्यापरः सत्यं पापाद्विपरिमुच्यते ॥

12.151.27

संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ।
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥

12.151.28

महासरः पुष्कराणि प्रभासोत्तरमानसे ।
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते ॥

12.151.29

यावतः प्राणिनो हन्यात्तज्जातीयांस्तु तावतः ।
प्रमीयमाणानुन्मोच्य प्राणिहा विप्रमुच्यते ॥

12.151.30

अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम् ।
यथाऽश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥

12.151.31

क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा ।
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥

12.151.32

बृहस्पतिं देवगुरुं सुरासुराः समेत्य सर्वे नृपते त्वयुज्जत ।
धर्मे फलं हेतुकृते महर्षे तथेतरस्मिन्नरके पापलोक्ये ॥

12.151.33

उभे तु यस्य सुकृते भवेतां किं तत्तयोस्तत्र जयोत्तरं स्यात् ।
आचक्ष्व तत्कर्मफलं महर्षे कथं पापं नुदते धर्मशीलः ॥
बृहस्पतिरुवाच ।

12.151.34

कृत्वा पापं पूर्वमबुद्धिपूर्वं पुण्यानि चेत्कुरुते बुद्धिपूर्वम् ।
स तत्पापं नुदते कर्मशीलो वासो यथा मलिनं क्षारयुक्त्या ॥

12.151.35

पापं कृत्वा हि मन्येत नाहमस्तीति पुरुषः ।
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥

12.151.36

छिद्राणि वसनस्येव साधुना संवृणोति सः ।
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥

12.151.37

आदित्यः पुनरुद्यन्वा तमः सर्वं व्यपोहति ।
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति ॥
भीष्म उवाच ।

12.151.38

एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम् ।
याजयामास विधिवद्वाजिमेधेन शौनकः ॥

12.151.39

ततः स राजा व्यपनीतकल्मषः श्रिया युतः प्रज्वलितोऽनुरूपया ।
विवेश राज्यं स्वममित्रकर्शनो यथा दिवं पूर्णवपुर्निशाकरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc