महाभारत · अध्याय 12.147
ततो गतो शाकुनिके कपोती प्राह दुःखिता ।
संस्मृत्य सा च भर्तारं रुदती शोककर्शिता ॥
नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे ।
सर्वाऽपि विधवा नारी बहुपुत्राऽपि शोचते ॥
शोच्या भवति बन्धूनां पतिहीना तपस्विनी ।
लालिताऽहं त्वया नित्यं बहुमानाच्च पूजिता ॥
वचनैर्मधुरैः स्निग्धैरसन्क्लिष्टमनोहरैः ।
कन्दरेषु च शैलानां नदीनां निर्झरेषु च ॥
द्रुमाग्रेषु च रम्येषु रमिताऽहं त्वया सह । आकाशगमने चैव विहृताऽहं त्वया सुखम् ।
रमामि स्म पुरा कान्त तन्मे नास्त्यद्य मे प्रिय ॥
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् ।
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥
न कार्यमिह मे नाथ जीवितेन त्वया विना ।
पतिहीना तु का नारी सती जीवितुमुत्सहेत् ॥
एवं विलप्य बहुधा करुणं सा सुदुःखिता ।
पतिव्रता सम्प्रदीप्तं प्रविवेश हुताशनम् ॥
ततश्चित्राङ्गदधरं भर्तारं साऽन्वपद्यत ।
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ॥
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् ॥
विमानशतकोटीभिरावृतं पुण्यकर्मभिः ॥
ततः स्वर्गं गतः पक्षी विमानवरमास्थितः ।
कर्मणा पूजितस्तत्र रेमे स सह भार्यया ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0