भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.12

12.12.1

अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् ।
राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ॥

12.12.2

अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिन्दम ।
व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ॥
नकुल उवाच ।

12.12.3

विशाखयूपे देवानां सर्वेषामग्नयश्चिताः ।
तस्माद्विद्वि महाराज देवाः कर्मफले स्थिताः ॥

12.12.4

अनास्तिकानां भूतानां प्राणदाः पितरश्च ये ।
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ॥

12.12.5

वेदवादापविद्धास्तु तान्विद्धि भृशनास्तिकान् ।
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु ॥

12.12.6

देवयानेन नाकस्य पृष्ठमाप्नोति भारत ।
अत्याश्रमानयं सर्वानित्याहुर्वेदमिश्चयाः ॥

12.12.7

ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध नराधिप ।
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् ॥

12.12.8

कृतात्मा स महाराज स वै त्यागी स्मृतो नरः ॥

12.12.9

अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः ।
आत्मत्यागी महाराज स त्यागी तापसो मतः ॥

12.12.10

अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः ।
अयाचकः सदायोगी स त्यागी पार्थ भिक्षुकः ॥

12.12.11

क्रोधहर्षावनादृत्य पैशुन्यं च विशेषतः ।
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ॥

12.12.12

आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः । एकतश्च त्रयो राजन्गृहस्थाश्रम एकतः ॥ 12-12-13असमीक्ष्य तुलया पार्थ कामं स्वर्गं च भारत । अयं पन्था महर्षीणाप्रियं लोकविदां गतिः ॥

12.12.14

इति यः कुरुते भावं स त्यागी भरतर्षभ ।
नरः परित्यज्य गृहान्वनमेति विमूढवत् ॥

12.12.15

यदा कामान्समीक्षेत धर्मवैतंसिको नरः ।
अथैनं मृत्युपाशेन कण्ठे बध्नाति सृत्युराट् ॥

12.12.16

अभिमानकृतं कर्म नैतत्फलवदुच्यते ।
त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥

12.12.17

शमो दमस्तथा धैर्यं सत्यं शौचमथार्जवम् ।
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥

12.12.18

पितृदेवातिथिकृते समारम्भोऽत्र शस्यते ।
अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥

12.12.19

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥

12.12.20

असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः ।
मां यक्ष्यन्तीति धर्मात्मा यज्ञैर्विविधदक्षिणैः ॥

12.12.21

वीरुधश्चैव वृक्षांश्च यज्ञार्थं वै तथौषधीः ।
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ॥

12.12.22

गृहस्थाश्रमिणस्तच्च यज्ञकर्माविरोधितम् ।
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥

12.12.23

तत्सम्प्राप्य गृहस्था ये पशुधान्यधनान्विताः ।
न यजन्ते महाराज शाश्वतं तेषु किल्विषम् ॥

12.12.24

स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथा परे ।
अथापरे महायज्ञान्मनस्येव वितन्वते ॥

12.12.25

इदमन्यन्महाराज विद्वद्भिः कथितं मम ।
भूमिरग्निश्च वायुश्च न चापो न दिवाकरः ॥

12.12.26

नक्षत्राणि न चन्द्रश्च न दिशः काल एव च ।
शब्दः स्पर्शश्च रूपं च न गन्धो न रसः क्वचित् ॥

12.12.27

न च सन्ति प्रमाणानि यैः प्रमेयं प्रसाध्यते ।
प्रत्यक्षमनुमानं न नोपमानमथागमः ॥

12.12.28

नार्थापत्तिर्न चैतिह्यं न दृष्टान्तो न संशयः ।
न क्वचिन्निर्णयो राजन्न धर्माधर्म एव च ॥

12.12.29

तिर्यक्व स्थावरं चैव न देवा न च मानुषाः । वर्णाश्रमविभागाश्च न च कर्ता न कामकृत् ।
न चार्थश्च विभूतिश्च न चार्थस्य विचेष्टितम् ॥

12.12.30

तमोभूतमिदं सर्वमनालोकं जगन्नृप ।
न चात्मा विद्यमानोपि मनसा योगमिच्छति ॥

12.12.31

अचेतनं मनस्त्वासीदात्मा एव सचेतनः । ईश्वरश्चेतनस्त्वेकस्तेनेदं गहनीकृतम् ।
मन्त्राश्च चेतना राजन्न च देहेन योजिताः ॥

12.12.32

तेन विश्वसृजो नाम ऋषयो मन्त्रदेवताः ।
चैतन्यमीश्वरात्प्राप्य ब्रह्माण्डं तैर्विनिर्मितम् ॥

12.12.33

इष्ट्वा विश्वसृजं यज्ञं निर्मितः प्रपितामहः ।
सृष्टिस्तेन समारब्धा प्रसादादीश्वरस्य च ॥

12.12.34

चैतन्यमीश्वरस्येदं सचेतनमिदं जगत् ।
योगेन च समाविष्टं जगत्कृत्स्नं च शम्भुना ॥

12.12.35

धर्मश्चार्थश्च कामश्च उक्तो मोक्षश्च सन्क्षये ।
ब्रह्मणः परमेशस्य ईश्वरेण यदृच्छया ॥

12.12.36

अज्ञो जन्तुरनीशश्च भाजनं सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥

12.12.37

प्रधानं पुरुषः चैव आत्मानं सर्वदेहिनाम् । मनसा विषयैश्चैव चेतनेन प्रचोदिताः ।
सुखदुःखेन युज्यन्ते कर्मभिश्च प्रचोदिताः ॥

12.12.38

वर्णाश्रमविभागाश्च ईश्वरेण प्रवर्तिताः ।
सदेवासुरगन्धर्वं येनेदं निर्मितं जगत् ॥

12.12.39

त्वं चान्ये च महाराज ईश्वरस्य वशे स्थिताः ।
जीवन्ते च म्रियन्ते च न स्वतन्त्राः कथञ्चन ॥

12.12.40

हित्वाहित्वा च भूतानि हत्वा सर्वमिदं जगत् ।
यजन्ते कर्मणा देवा न स पापेन लिप्यते ॥

12.12.41

हिंसात्मकानि कर्माणि सर्वेषां गृहमेधिनाम् ।
देवतानामृषीणां च ते च यान्ति परां गतिम् ॥

12.12.42

पातिताः शत्रवः पूर्व सर्वत्र वसुधाधिपैः । प्रजानां हितकामैश्च आत्मनश्च हितैषिभिः ।

12.12.43

यदि तत्र भवेत्पापं कथं ते स्वर्गमास्थिताः । न प्राप्ता नरकं राजन्वेष्टिताः पापकर्मभिः ॥

12.12.44

एवं मनःसमाधानं मार्गमातिष्ठतो नृप ।
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥

12.12.45

स रत्नानि विचित्राणि संहृतानि ततस्ततः ।
मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ॥

12.12.46

कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ।
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः ॥

12.12.47

ये चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः । तैर्यजस्व महीपाल शक्रो देवपतिर्यथा ।

12.12.48

राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् ।
अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥

12.12.49

अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलन्कृताः ।
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ॥

12.12.50

अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः ।
वयं ते राजकलयो भविष्याम विशाम्पते ॥

12.12.51

अदातारोऽशरण्याश्च राजकिल्विषभागिनः ।
दुःखानामेव भोक्तारो न सुखानां कदाचन ॥

12.12.52

अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् ।
तीर्थेष्वनभिसम्प्लुत्य प्रव्रजिष्यसि चेत्प्रभो ॥

12.12.53

छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् ।
लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ॥

12.12.54

अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम् ।
परित्यज्य भवेत्त्यागी न हित्वा प्रतितिष्ठति ॥

12.12.55

एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ।
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ॥

12.12.56

निहत्य शत्रूंस्तरसा समृद्धाञ्शक्रो यथा दैत्यबलानि सङ्ख्ये ।
कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिवशिष्टजुष्टे ॥

12.12.57

क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय ।
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताऽद्य पार्थ ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc