भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.11

12.11.1

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
तापसैः सह संवादं शक्रस्य भरतर्षभ ॥

12.11.2

शक्यं पुनररण्येषु सुखमेतेन जीवितुम् । केचिद्गृहान्परित्यज्य वनमभ्यागमन्द्विजाः ।
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥

12.11.3

धर्मोऽयमिति मन्वानाः समृद्धा धर्मचारिणः ।
त्यक्त्वा भ्रातॄन्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥

12.11.4

स तान्बभाषे मघवान्पक्षीभूत्वा हिरण्मयः ।
सुदुष्करं मनुष्यैस्तु यत्कृतं विघसाशिभिः ॥

12.11.5

पुण्यं भवति कर्मैषां प्रशस्तं चैव जीवितम् ।
सिद्धार्थास्ते गतिं मुख्यां प्राप्ताः कर्मपरायणाः ॥
ऋषय ऊचुः ।

12.11.6

अहो बतायं शकुनिर्विघसाशान्प्रशंसति ।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥
शकुनिरुवाच ।

12.11.7

नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् ।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥
ऋषय ऊचुः ।

12.11.8

इदं श्रेयः परमिति वयमेवममंस्महि ।
शकुने ब्रूहि यच्छ्रेयो वयं ते श्रद्दधामहे ॥
शकुनिरुवाच ।

12.11.9

यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना ।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥
ऋषय ऊचुः ।

12.11.10

शृणुमस्ते वचस्तात पन्थानो विदितास्तव ।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥
शकुनिरुवाच ।

12.11.11

चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् ।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥

12.11.12

मन्त्रोऽयं जातकर्मादिर्ब्राह्मणस्य विधीयते ।
जीवतोऽपि यथाकालं श्मशाननिधनान्तकः ॥

12.11.13

कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः । अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ।
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते ॥

12.11.14

मासार्धमासा ऋतव आदित्यशशितारकम् ।
ग्रसन्ते कर्म भूतानि तदिदं कर्मशंसिनाम् ॥

12.11.15

सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥

12.11.16

अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः ।
मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥

12.11.17

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्चतान् ।
सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यशुचीन्पथः ॥

12.11.18

एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषिचोदितम् ।
तस्मात्तदध्यावसतस्तपस्वित्वमिहोच्यते ॥

12.11.19

देववंशान्ब्रह्मवंशान्पितृवंशांश्च शाश्वतान् ।
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥

12.11.20

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः ।
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥

12.11.21

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः ।
कुटुम्वविधिनाऽनेन यस्मिन्सर्वं प्रतिष्ठितम् ॥

12.11.22

एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः ।
एतस्माद्वनमध्ये तु लोकेषु तप उच्यते ॥

12.11.23

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः ।
सायम्प्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥

12.11.24

दत्त्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च ।
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥

12.11.25

तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः ।
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥

12.11.26

त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः ।
वसन्ति शाश्वतान्वर्षाञ्जना दुष्करकारिणः ॥
अर्जुन उवाच ।

12.11.27

ततस्ते तद्वचः श्रुत्वा धर्मार्थसहितं हितम् ।
उत्सृज्य नास्तिकमतिं गार्हस्थ्यं धर्ममाश्रिताः ॥

12.11.28

तस्मात्त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम् ।
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc