भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 12.108

12.108.1

महानयं धर्मपथो बहुशाखश्च भारत ।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥

12.108.2

किं कार्यं सर्वभूतानां गरीयो भवतो मतम् ।
यथाऽहं परमं धर्ममिह च प्रेत्य चाप्नुयाम् ॥
भीष्म उवाच ।

12.108.3

मातापित्रोर्गुरूणां च पूजा बहुमता मम ।
अत्र वर्तन्नरो लोकान्यशश्च महदश्नुते ॥

12.108.4

यदेते ह्यनुजानीयुः कर्म तात सुपूजिताः ।
धर्मं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर ॥

12.108.5

न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् ।
यं मे तेऽभ्यनुजानीयुः स धर्म इति निश्चयः ॥

12.108.6

एत एव त्रयो लोका एत एवाश्रमास्त्रयः ।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः ॥

12.108.7

पितावै गार्हपत्योऽग्निर्माताऽग्निर्दक्षणः स्मृतः ।
गुरु वनीयस्तु साऽग्नित्रेता गरीयसी ॥

12.108.8

त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोँकानपि जेष्यसि ।
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम् ॥

12.108.9

ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि ।
स--गेतेषु वर्तस्व त्रिषु लोकेषु भारत ॥

12.108.10

यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ।
नैतानतिशयीथास्त्वं नात्यश्नीथा न दूषयेः ॥

12.108.11

हियं परिचरेश्चैव तद्वै सुकृतमुत्तमम् ।
कीर्ति पुण्यं यशो लोकान्प्राप्स्यसे त्वं जनाधिप ॥

12.108.12

सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥

12.108.13

न चायं न परो लोको न यशस्तस्य भारत ।
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः ॥

12.108.14

न चास्मिन्न परे लोके यशस्तस्य प्रकाशते ।
यच्चान्यदपि कल्याणं पारत्रं समुदाहृतम् ॥

12.108.15

तेभ्य एव हि यत्सर्वं कृत्यं यन्निसृजाम्यहम् । तदासीन्मे शतगुणं सहस्रगुणमेव च ।
तस्मान्मे सम्प्रकाशन्ते त्रयो लोका युधिष्ठिर ॥

12.108.16

दशैव तु सदाऽचार्यः श्रोत्रियानधितिष्ठति ।
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥

12.108.17

पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि ।
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः ॥

12.108.18

गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ।
उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः ॥

12.108.19

शरीरमेतौ सृजतः पिता माता च भारत ।
आचार्यशिष्टा या जातिः सासम्यगजरामरा ॥

12.108.20

अवध्या हि सदा माता पिता चाप्युपचारिणौ ॥

12.108.21

न स दुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ।
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः ॥

12.108.22

य आवृणोत्यवितथेन कर्मणा ऋतं ब्रुवन्नमृतं सम्प्रयच्छन् ।
तं मन्येथाः पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् ॥

12.108.23

विद्यां श्रुत्वा ये गुरुं नाद्रियन्ते प्रत्युत्पन्ना मनसा कर्मणा वा ।
तेषां पापं भ्रूणहत्याविशिष्टं नान्यस्तेभ्यः पापकृदस्ति लोके । यथैव ते गुरुभिर्भावनीया स्तथैव तेषां गुरवोऽभ्यर्चनीयाः ॥

12.108.24

तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः ।
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता ॥

12.108.25

येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः ।
प्रीणाति जननीयेन पृथिवी तेन पूजिता ॥

12.108.26

येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् ।
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः ॥

12.108.27

ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ।
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः ॥

12.108.28

केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् ।
न च माता न च पितो तादृशो यादृशो गुरुः ॥

12.108.29

न तेऽवमानमर्हन्ति न तेषां दूषयेत्कृतम् ।
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः ॥

12.108.30

उपाध्यायं पितरं मातरं च ये विद्रुह्यन्ते मनसा कर्मणा वा ।
तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥

12.108.31

भृतो भर्तारं यो न विभिर्ति पुत्रः स्वयोनिजः पितरं मातरं च ।
तस्य पापं भ्रूणहत्याविषिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥

12.108.32

मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च ।
चतुर्णामपि चैतेषां निष्कृतिं नानुशुश्रुम् ॥

12.108.33

एतत्सर्वं मनुनिर्देशदृष्टं यत्कर्तव्यं पुरुषेणेह किञ्चित् ।
एतच्छ्रेयो नान्यदस्माद्विशिष्टं सर्वान्धर्माननुसृत्यैतदुक्तम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc